________________
( ३८ )
44
अवेद्यसंवेद्यपदमिति मिथ्यादृष्टया शयस्थानम् । अत एवाह अपदं परमार्थतः " यथावस्थितवस्तुतत्त्वतापादनात् । पदं तु पदं पुनर्वेद्यसंवेद्यपदमेव वक्ष्यमाणलक्षणमन्वर्थयोगादिति ।
तथा चाह
वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । तथाप्रवृत्तिबुद्धयापि स्त्र्याद्यागमविशुद्धया || १३ ||
वेयं वेदनीयं वस्तु स्थित्या तथाभावयोगि सामान्येनाविकल्पकज्ञानग्राद्यमिति योऽर्थः संवेद्यते क्षयोपशमानुरूपं निश्वयबुद्धयापि ज्ञायते यस्मिन्पद आशयस्थाने । किंविशिष्टमित्याह "अपायादिनिबन्धनं" नरकस्वर्गादिकारणम् । स्त्र्यादि । तथा तेन प्रकारेण येन सामान्यानुविद्धमप्रवृत्तिबुद्धयापि तदुपादानत्यागाशयात्मिकया संवेद्यते स्त्र्यादिवेद्यमागम विशुद्धया श्रुतापनीतविपर्ययमलया प्रधानमिदमेव बन्धकारणं प्रेक्षावतामपीति ख्यादिग्रहणम् ॥
तत्पदं साध्ववस्थानाद्भिन्नग्रन्थ्यादिलक्षणम् । अन्वर्थयोगतस्तन्त्रे वेद्यसंवेद्यमुच्यते ॥ ७४ ॥
तत्पदमिति पदनात्पदमाशयः स्थानं साध्ववस्थानात्परिच्छेदात्सम्यगवस्थानेन भिन्नग्रन्थ्यादिलक्षणं भिन्नमन्धिदेशविरतिरूपम् । किमित्याह " अन्वर्थयोगतः " अन्वर्थयोगेन " तन्त्रे " सिद्धान्ते "वेद्यसंवेद्यमुच्यते " वेयं संवेद्यते ऽनेनेति कृत्वा ॥
तस्मादन्यदाह
अवेद्यसंवेद्यपदं विपरीतमतो मतम् । भवाभिनन्दिविषयं समारोपसमाकुलम् ।। ७५ ।।
१ 4 omits वेद्यं संवेद्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org