________________
( ५२ ) संसारिणां हि देवानां यस्माचित्राण्यनेकधा । स्थित्यैश्चर्यप्रभावाद्यैः स्थानानि प्रतिशासनम् ।।१११॥
संसारिणां हि देवानां लोकपालादीनां यस्माचित्राण्यनेकाकाराण्यनेकधानेकैः प्रकारैः । कैः कानीत्याह "स्थित्यैश्वर्यप्रभावाद्यैः" आदिशब्दात्सहजरूपादिपरिग्रहः "स्थानानि" विमानादीनि । प्रतिशासनं ब्रह्माण्डत्रैविध्यानुभेदात् ।।
यस्मादेवम्तस्मात्तत्साधनोपायो नियमाचित्र एव हि । न भिन्ननगराणां स्यादेकं वर्त्म कदाचन ॥११२ ॥ - तस्मात्कारणात्साधनोपायः संसारिदेवस्थानसाधनोपायो निय. माचित्र एव हि भवति । इदमेव वस्तुलोकप्रसिद्धोदाहरणद्वारेणाह । न भिन्ननगराणां स्याद्भवेदेकं वर्त्म कदाचन तथा तद्भदानुपपत्तेरिति।
तथाइष्टापूर्तानि कर्माणि लोके चित्राभिसंधितः । नानाफलानि सर्वाणि द्रष्टव्यानि विचक्षणैः ॥११॥
इष्टापूर्तानि कर्माणि दारणलक्षणानि लोके माणिगणे चित्राभिसंधितः कारणात् । कि "नानाफलानि " चित्रफलानीति योऽर्थः सर्वाणि द्रष्टव्यानि अनुभदात् । करित्याह “विचक्षणैः" विद्वद्भिरिति ।।
इष्टापूर्तस्वरूपमाह । ऋविम्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां हि यहत्तमिष्टं तदभिधीयते ।। ११४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org