SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ नामित्यर्थः । तथेष्टानिष्टनामादिभेदेऽपि सति भाव्यमेतन्महात्मभिः श्रुतमेधासंमोहसारया प्रज्ञया ॥ शास्त्रगर्भमेवोपपत्त्यन्तरमाह। चित्राचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम्।।१०८॥ चित्राचित्रविभागेन वक्ष्यमाणलक्षणेन यच्च देवेषु वर्णिता लोकपालमुक्तादिषु भक्तिः सयोगशास्त्रेषु सौवाध्यात्मचिन्ताशास्त्रेषु । ततो ऽपि कारणादेवमिदं स्थितं प्रस्तुतमिति ॥ ___ अमुमेवार्थ स्पष्टयन्नाहसंसारिष हि देवेष भक्तिस्तत्कायगामिनाम । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ॥१०९॥ संसारादिषु हि देवेषु लोकपालादिषु भक्तिः सेवा तत्कायगामिनां संसारिदेवकायगामिनां तदतीते पुनः संसारातीते तु तत्त्वे तदतीतार्थयायिनां संसारातीतमार्गयायिनां योगिनां भक्तिः ॥ अनयोर्विशेषमाह । चित्रा चायेषु तद्रागतदन्यद्वेषसंगता। अचित्रा चरमे त्वेषा शमसाराखिलैव हि ॥११०॥ चित्रा च नानाप्रकारा चायेषु सांसारिकेषु देवेषु तद्रागतदन्यद्वेषसंगता स्वाभीष्टदेवतारागानभीष्टद्वेषसंयुक्ता मोहगर्भत्वात् । अचित्रैकाकारा चरमे तदतीते तु तत्त्व एषा भक्तिः सा च शमसारा शमप्रधानाखिलैव हि तथासंमोहाभावादिति ॥ अत्रैव हेतुमाह । 1 (: omits. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy