SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ (५०) निर्व्याज तुल्य एवासौ तेनांशेनैव धोमताम् ॥१०५॥ तस्मात्सामान्यतोऽप्येनं सर्वज्ञमभ्युपैति य एव हि कश्चिदसर्वदर्शी निर्व्याजमौचित्ययोगेन तदुक्तपालनपरः । तुल्य एवासौ तेनांशेन सर्वज्ञप्रतिपत्तिलक्षणेन धीमतामनुपहतबुद्धीनामित्यर्थः ॥ अमुमेवार्थ निदर्शनगर्भमाह । यथैवैकस्य नृपतेर्बहवो ऽपि समाश्रिताः । दुरासन्नादिभेदेऽपि तद्वत्याः सर्व एव ते ॥१०५॥ ___ यथैवैकस्य नृपतेः कस्यचिद्विवक्षितस्य बहवो ऽपि समाश्रिताः पुमांसो दूरासन्नादिभेदेऽपि सति तथा नियोगभेदे कृते तद्धृत्या विवक्षिता नृपभृत्याः सर्व एव ते समाश्रिता इति ॥ दान्तिकयोजनमाह। सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि ॥१०॥ सर्वज्ञतत्त्वाभेदेन यथोदितनीत्या हेतुभूतेन । तथा नृपतिसमाश्रितबहुपुरुषवत्सर्वज्ञवादिनः सर्वे जिनादिमतभेदावलम्बिनः । तत्तवगाः सर्वज्ञतत्त्वगा ज्ञेयाः । भिन्नाचारस्थिता अपि तथाधिकारभेदेनेति ॥ उपसंहरनाहन भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः।।१०७॥ न भेद एव तत्वेन परमार्थेन सर्वज्ञानां महात्मनां भावसर्वज्ञा? A. omits Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy