SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ (५) इच्छायोगस्वरूपप्रतिपादनायाह -- कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनो ऽपि प्रमादतः । विकलो धर्मयोगो यः स इच्छायोग उच्यते ॥३॥ कर्तुमिच्छोः कस्यचिनियाजमेव तथाविधक्षयोपशमभावेन । अयमेव विशिष्यते । किंविशिष्टस्यास्य चिकीर्षोः " श्रुतार्थस्य" शुतागमस्य, अर्थशब्दस्यागमवचनत्वात् , अर्यतेऽनेन तत्त्वं इति कृत्वा । अयमपि कदाचिदज्ञान्येव भवति, क्षयोपशमवैचिच्यात् । अत आह "ज्ञानिनोऽपि" अवगतानुष्ठेयतत्त्वार्थस्यापीति योऽर्थः । एवंभूतस्यापि सतः किमित्याह " प्रमादतः" प्रमादेन विकथादिना " विकलः" असंपूर्णः कालादिवैकल्यमाश्रित्य "धर्मयोगः " धमव्यापारः " यः" इति बन्दनादिविषयः “स इच्छायोग उच्यते" इच्छाप्रधानत्वं चास्य तथाकालादावपि करणादिति ।। शास्त्र योगस्वरूपाभिवित्सयाहशास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन वचसाविकलस्तथा ॥ ४॥ "शास्त्रयोगस्तु" इति । शास्त्रप्रधानो योगः शास्त्रयोगः प्रक्रमाधर्मव्यापार एव । स पुनः " इह" योगतन्त्रे विज्ञेयः । कस्य १ A omits आह २ D किंलक्षणस्यास्य ३ A वचनता BC अर्थशब्द आगमवचनः 2A प्रमादतः ( यथाशक्त्या० ५ ( तीव्रयोगेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy