________________
"तदृष्टिभेदनः" इति योगदृष्टिभेदेन । तदत्र समासतो योगाभिधानं करनन्तरं प्रयोजनम् । परंपराप्रयोजन र तु निर्वाणमेव, शुद्धाशयतस्तथा सत्वहितप्रहत्तेरस्याचावन्ध्यनिर्वाणवीजत्वादिति।अभिधेयं योग एव । साध्यसाधनलक्षणः संवन्ध इति क्षुण्णो ऽयं मार्गः । श्रोतृणां त्वनन्तरप्रयोजनं करणार्थपरिज्ञानं, परंपराप्रयोजनं त्वमीपामपि निर्वाण मेव, प्रकरणार्थपरिज्ञानादौचित्येनात्रै प्रहत्तेरस्याश्चाप्यवन्ध्यनिर्वाणवीजत्वादिति ॥
एवं संपादिनेष्टदेवतास्तवायोजनायभिधाय प्रकरणोपकारक प्रासङ्गिकमभिधातुमाह
इहवेच्छादियोगानां स्वरूपमभिधीयते । योगिनामुपकाराय व्यक्तं योगप्रसङ्गतः ॥ २॥
" इहैव " इति प्रक्रमे । किमित्याह "इच्छादियोगानां" इति । इच्छायोगशास्त्रयोगसामर्थ्य योगानाम् । किमतः। आह " स्वरूपमभिधीयते” इति स्वलक्षणमुच्यते । किमर्थमेतदित्याह " योगिनामुपकाराय " इति । योगिनोत्र कुलयोगिनः प्रवृत्तचक्रा गृह्यन्ते व. क्ष्यमाग लक्षणाः, न निष्पन्नयोगा वक्ष्यमाणलक्षणा एव । तेषामत उपकाराभावात् , तदितरेषामेवोपकारार्थम् । उपकारश्चातो योगहृदयावबोधः कायमभिधीयत इत्याह " व्यक्तं " स्पष्टं न चाप्रस्तुतमप्येतदित्याह "योगप्रसङ्गतः" इति मित्रादियोगप्रसङ्गेन प्रसङ्गाख्यतन्त्रयुत्याक्षिप्तमित्यर्थः॥
१ B ( नन्तर० २ C परंपरं प्र० ३ । (' देवतास्तवः प्रयोजना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org