________________
(६) कीडगित्याह " यथाशक्ति" शक्त्यनुरूपं " अप्रमादिनः" विकयादिप्रमादरहितस्य । अयमेव विशिष्यते " श्राद्धस्य" तथाविधमोहापगमात्संप्रत्ययात्मिकादिश्रद्धावतः " तीव्रबोधेन " पटुबोधेन हेतुभू. तेन " वचसा" आगमेन " विकलः" अखण्डः, तथाकालादिवेकल्यावाधया; न पटवोऽतिचारदोपज्ञा इति ॥
सामर्थ्ययोगलक्षणमाहशास्त्रसंदर्शितोपायस्तदतिकान्तगोचरः । शक्त्युदेकादिशेषेण सामर्थ्याख्योऽ यमुत्तमः ॥ ५॥
" शानसंदर्भितोपायः" इति सामान्येन शास्त्राभिहितोपायः, सामान्येन शास्त्रे तदभिधानात् । “ तदतिक्रान्तगोचरः " इति शास्त्रातिक्रान्तविषयः । कुत इत्याह "शक्त्युकात् " इति शक्तिप्राबल्यात् । “ विशेषेण " इति न सामान्येन शास्त्रातिकान्तगोचरः, सामान्येन फलपर्यवसानत्वाच्छास्त्रस्य । “सामर्थ्याख्योऽयं " इति सामर्थ्ययोगाभिधानोऽयं योगः " उत्तमः" सर्वप्रधानः, तद्भावभावित्वात्, आक्षेपेण प्रधानफलकरणत्वादिति ।।
एतत्समर्थनार्यवाहसिद्धयाख्यपदसंप्राप्तिहेतुभेदान तत्त्वतः । शास्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ॥ ६॥ सिद्धयाख्यपदसंप्राप्तिहेतुभेदा मोक्षाभिधानपदसंप्राप्तिकारणविक्षेषाः सम्यग्दर्शनादयः । किमित्याह " न तत्त्वतः " न तत्त्वभावेन
१ A सिदा० २ सिद्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org