________________
( ७१ )
दृष्टौ यतो भवेत् । अतस्तत्त्वसमावेशात्कारणात्सदैव हितोदयोऽस्यां
दृष्टाविति ॥
प्रतिपादिता षष्ठी दृष्टिः । सांप्रतं सप्तम्युच्यते । ध्यान प्रिया प्रभावेन' नास्यां रुगत एव हि । तत्त्वप्रतिपत्तिता विशेषेण शमान्विता ॥ १६८ ॥ एवं सत्प्रवृत्तिपदावति पिण्डार्थः ॥ ध्यानजं सुखमस्यां तु जितमन्मथसाधनम् । विवेकवलनिर्जातं शमसारं सदैव हि ।। १६९ ।।
ध्यानजं सुखमस्यां त्वधिकृतदृष्टावेव । किंविशिष्टमित्याह "जितमन्मथसाधनं" व्युदस्तशब्दादिविषयम् । एतदेव विशेष्यते "विवेकवलनिर्जातं” ज्ञानसामर्थ्योत्पन्नम् । अत एव " शमसारं सदैव हि " विवेकस्य शमफलत्वादिति ।
किं च ।
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुखदुःखयोः ॥ १७० ॥
सर्व परवशं दुःखं तल्लक्षणयोगात्सर्वमात्मवशं सुखमत एव हेतोः । एतदुक्तं मुनिना समासेन संक्षेपेण लक्षणं स्वरूपं सुखदुःखयोरिति ॥
पुण्यापेक्षमपि ह्येवं सुखं परवशं स्थितम् ।
१ B ध्यानप्रिया प्रभा प्रायो C ध्यानप्रिया प्रभा यो
2 BC omit
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org