________________
७० )
भोगान्स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् || १६४ ||
भोगानिन्द्रियार्थ संबन्धान्स्वरूपतः पश्यन्समारोपमन्तरेण तथा तेनैव प्रकारेण मायोदकोपमानसारान भुञ्जानोऽपि हि कर्माक्षिप्तानसङ्गः सन् प्रयात्येव परं पदं, ' अनभिष्वङ्गतया परवशाभावात् ॥
૧
भोगतत्त्वस्य तु पुनर्न भवदधिलङ्घनम् । मायोदकावेशस्तेन यातीह कः पथा ।। १६५ ॥
भोगतत्त्वस्य तु भोगपरमार्थस्य पुनर्न भवोदधिलङ्घनं तथाबुद्धेस्तदुपायेऽप्रवृत्तेः । आह च "मायोदकदृढावेशः " तथाविपर्यासात् "तेन यातीह कः पथा" यत्र मायायामुदकबुद्धिः ।
स तत्रैव भवग्निो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽ पि हि तथा भोगजम्बालमोहितः || १६६॥
स मायायाकाशस्तत्रैव पथि भवद्विग्नः सन् । "यथा " इत्युदाहरणोपन्यासार्थः । तिष्ठत्यसंशयं तिष्ठत्येव जलबुद्धिसमावेशात् । मोक्षमार्गेऽपि हि ज्ञानादिलक्षणे तथा तिष्ठत्यसंशयं भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्यर्थः ॥
मीमांसाभावतो नित्यं न मोहोऽस्यां यतो भवेत् । अतस्तत्त्वसमावेशात्संदैव हि हितोदयः ॥ १६७॥ मीमांसाभावतः सद्विचारभावेन नित्यं सर्वकालं न मोहोऽस्यां
१ B adds तथा
२ ० ० वशभावात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org