________________
(७२) ततश्च दुःखमेवैतत्तल्लक्षणनियोगतः ॥ १७१ ॥
पुण्यापेक्षमापि ह्येवमुक्तनीत्या सुखं परवशं स्थितं पुण्यस्य परत्वात् । ततश्च दुःखमेवैतत्तल्लक्षणनियोगात्तदित्थं ध्यान तात्त्विकं सुखमपरायत्तत्वात्कर्मवियोगमात्रजत्वादिति ॥ । ध्यानं च निर्मले बोधे सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव हि ॥१७२॥ __ ध्यानं च निर्मले वोधे स्पष्टक्षयोपशमसमुत्थे सति । किमित्याह "सदैव हि महात्मनां" मुनीनाम् । एतदेव प्रतिवस्तूपमयाह “क्षीणपायमलं हेम" स्वर्ण “ सदा कल्याणमेव हि" तथावस्थोपपत्तेः ॥
सत्प्रवृत्तिपदं चेहासङ्गानुष्ठानसंज्ञितम् । महापथप्रयाणं यदनागामिपदावहम् ॥ १७३ ॥ __ सत्प्रवृत्तिपदं चेह तत्त्वमार्गे । किमित्याह " असङ्गानुष्ठानसंज्ञितं " वर्तते । तथा स्वरसमवृत्तेः । महापथं प्रयाणं यदसङ्गानुष्ठानम् । अनागामिपदावहं नित्यपदनापकामित्यर्थः ।।
अस्य नामान्याह । प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः । शिववर्त्म ध्रुवावेति योगिभिर्गीयते ह्यदः ॥१७॥
प्रशान्तवाहितासंगं सांख्यानां, विसभागपरिक्षयो बौद्धानां, शिववर्त्म शैवानां, ध्रुवाध्या महाव्रतिकानामित्येवं योगिभिर्गीयते ह्यदोऽसङ्गानुष्ठानमिति ॥ एतत्प्रसाधयत्याशु यद्योग्यस्यां व्यवस्थितः। १८ दुःखमेवैतद्धयानजं तात्त्विकं मुखम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org