________________
( ७३ )
एतत्पदा व तंत्रविदां मता ॥ १७५ ॥
एतदसङ्गानुष्ठानं प्रसाधयत्याशु शीघ्रं ययोग्यस्यां दृष्टौ व्यवस्थितः सन् । एतत्पदा हैषैव दृष्टिस्तत्तत्रैतद्विदां मतेष्टेति ॥ उक्ता सप्तमी दृष्टिः । अधुनानन्तरोच्यते । तदाह | समाधिनिष्ठा तु परा तदासङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च ॥ १७६ ॥
समाधिनिष्ठा तु पराष्टमी दृष्टिः समाधिस्तु ध्यानविशेषः फलमित्यन्ये । यथोक्तं "देशवन्धश्वित्तस्य धारणा " ( ३- १ पा ) " तत्र प्रत्ययैकतानता ध्यानं" (३-२ पा ) " तदेवार्थमात्र निर्भासं स्वरूपशून्यमिव समाधिः " ( ३ - ३ पा ) इति ॥ तदासङ्गविवर्जिता समाध्यासङ्गविवर्जिता भूतप्रवृत्तिश्चैषा चन्दनगन्धन्यायेन । तदुत्तीर्णा - शयेति वासचित्ताभावेन ॥
निराचारपदो स्यामतिचारविवर्जितः । आरूढारोहणाभावगतिवत्त्वस्य चेष्टितम् ॥ १७७ ॥
निराचारपद एवास्यां दृष्टौ योगी भवति प्रतिक्रमणाद्यभावात् । अतिचारविवर्जितस्तनिबन्धनाभावेन ! आरूढारोहणाभावगतिवत्त्वस्य योगिनश्चेष्टितं भवति, आचारजेयकर्माभावात्, निराचारपद इत्यर्थः ॥
कथं भिक्षाटनाद्याचारोऽस्येत्याशङ्कापनोदायाह । रत्नादिशिक्षादृग्भ्योऽन्या यथा दृक्तन्नियोजने । तथाचारक्रियाप्यस्य सैवान्या फलभेदतः ॥ १७८ ॥ रत्नादिशिक्षाग्भ्यः सकाशादन्या भिन्नैव यथा हक्तन्नियोजने १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org