SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ (१८) "विधातः" प्रतिबन्धः " दिव्यभावतः" जन्मनः सकाशात् “चरणस्य " चारित्रस्य " : पजायते' तथाविधौदयिकभावयोगेन तदभावे तु पुनस्तत्रैव प्रवृत्तिः स्वापविगमे ऽनवरतप्रयाणे च? कन्यकुब्जगन्तुगमनप्रवृत्तिवत् ॥ इदानीं प्रतिदृष्टिसाकल्येन योगयोजनामुपदर्शयन्नाहमित्रायां दर्शनं मन्दं यम इच्छादिकस्तथा । अखेदो देवकार्यादावद्वेषश्चापरत्र तु ॥ २१ ॥ मित्रायां दृष्टौ । दर्शनं मन्दं स्वल्पो बोधः, तृणाग्निकणोद्योतेन सदृशः । यम अहिंसादिलक्षण इच्छादिकस्तथा यथोक्तं "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः "। एते चेच्छाप्रवृत्तिस्थैर्यसिद्धिभेदा इति वक्ष्यति । अखेदो देवकार्यादौ, आदिशब्दाद्गुरुकार्यपरिग्रहः । तथा तथोपनत एतस्मिंस्तथापरितोषान्न खेदोऽत्रापि तु प्रवृत्तिरेव शिरोगुरुत्वादिदोषभावेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषश्चामत्सरश्च । अपरत्र त्वदेवकार्यादौ तथा तत्त्ववेदितया मात्सर्यवीर्यबीजभावे ऽपि तद्भावाङ्कुरानुदयात्तत्त्वानुष्ठानमधिकृत्य कर्मण्यस्याशयः । अतोऽस्यापरत्र न चिन्ता तद्भावेऽपि करुणांशबीजस्यैवेपत्स्फुरणमिति ॥ अस्यां दृष्टौ व्यवस्थितो योगी यत्साधयति तदभिधित्सयाहकरोति योगबीजानामुपादानमिहस्थितः । अवन्ध्यमोक्षहेतूनामिति योगविदो विदुः ॥ २२ ॥ करोति तत्त्वकरणेन । योगबीजानां वक्ष्यमाणलक्षणानाम् । उ. ? A omits Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy