SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पादानं ग्रहणम् । इहस्थितो मित्रायां दृष्टो मैत्रो योगीत्यर्थः । किविशिष्टानां योगवीजानामित्याह " अवन्ध्यमोक्षहेतनां" इति । न हि योगबीजं न योगफलं नाम योगश्च मोक्षफल इति । इति योगविदो विशिष्टा एव योगाचार्या विदुरिति जानते ॥ सांप्रतं योगबीजान्युपन्यस्यन्नाहरजिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगवीजमनुत्तमम् ॥ २३ ॥ जिनेषु भगवदर्हत्सु । कुशलं चित्तं द्वेषायभावेन प्रीत्यादिमत् । अनेन मनोयोगवृत्तिमाह । तन्नमस्कार च जिननमस्कार एव च तथा मनोयोगप्रेरित इति । अनेन तु वाग्योगत्तिम् । प्रगामादि च पञ्चाङ्गादिलक्षणं; आदिशब्दान्मण्डलादिग्रहः । “ संशुद्धं " इत्यसं. शुद्धव्यवच्छेदार्थमेतत् , तस्य सामान्येन यथाप्रवृत्तिकरणभेदत्वात्तस्य च योगवीजत्वानुपपत्तेः । एतत्सर्वमेव सामस्त्यप्रत्येकभावाभ्यां योगवीजं मोक्षयोजकानुष्ठानकारणम् । " अनुत्तमं " इति सर्वप्रधान विषयप्राधान्यादिति ॥ यदैतद्भवति तत्समयमभिधातुमाह चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । संशुद्धमेतन्नियमानान्यदापीति तदिदः ॥ २४ ॥ " चरमे पुद्गलावर्ते " इति पुद्गलानामावर्तास्तथा तथा तत्त१A C omit २ A योगवीजमुप० ३ Comits चरमे पुद्गलावते 8 AC omit Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy