________________
( २०) द्रहणसत्यागाभ्यामिति पुद्गलावाः " एते चानादौ संसारे तथाभव्यत्वाक्षिप्ताः कस्यचित्कियन्तोऽपि" इति वचननामाण्याचरमपदे चरमावर्ताभिधानात् । अत्रापि कारणमाह "तथाभन्यत्वपाकतः" इति तथाभव्यत्वपाकेन ततस्तस्मान्मिथ्यात्वकटुकत्वनिवृत्त्या मनाक् माधुयसिद्धेः। संशुद्धमेतजिनेषु कुशलादि चित्तम् । नियमानियमेन तथाभव्यत्वपाकभावेन वर्मणां तथा, अन्यदा संशुद्धवदसंशृद्धानुपपत्तेः । अत एवाह " नान्यदापि " नान्यस्मिन्नपि काले प्राक् पश्वाच्च क्लिष्टाशयविशुद्धतराशययोगात् । " इति तद्विदः" इत्येवं योगविदोऽभिदधति ॥
एवमस्य समस्तस्य' समयमभिधायैतदभिधित्सया वाहउपादेयधियात्यन्तं संज्ञाविष्कम्भणान्वितम् ।
फलाभिसंधिरहितं संशुद्धं ह्येतदीदृशम् । २५॥ उपादेयधियोपादयबुद्धया, अत्यन्तं सर्वास्यापोहेन तथापरिपाकात्सम्यग्ज्ञानपूर्वरूपत्वेन । संज्ञाविष्कम्भणान्वितं क्षयोपशमवैचित्र्यादाहा. दिसंज्ञोदयाभावयुक्तम् । संज्ञा आहारादिभेदेन दश । तथा चार्षम् । "कइविहा णं भन्ते सन्ना पन्नत्ता । गोयमा, दसविहा । आहारसना, भयसन्ना, मेहुणसन्ना,परिग्गहसन्ना, कोहसन्ना,माणसन्ना, मायासन्ना, लोभसन्ना, ओहसन्ना, लोगसन्ना" इति । एतत्संपयुक्ताशयानुष्ठानं सुन्दरमप्यभ्युदयाय न निःश्रेयसावाप्तये परिशुद्धयभावाद्भवभोगनिःस्पृहाशयप्रभवमेतदिति योगिनः फलाभिसंधिरहितं भवान्तर्गतफला
१ B( ह्यनादौ 2 BC omit
Comp, 5710154İ (edited by L. Suali), 9, 60, 1,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org