________________
,
( २१ ) भिसंध्यभावेन । आह । असंभव्येव संज्ञाविष्कम्भणे पूर्वोदितफलाभिसंधिः | सत्यमेतत् तद्भवान्तर्गतफलमधिकृत्येह तु तदन्यभवान्ततमपि सामानिकादिलक्षणफलमधिकृत्य गृह्यते तदभिसंधेरसुन्दरस्वात्तदुपात्तस्यास्य स्वतः प्रतिबन्धसारत्वतः । एतद्रहितं चेदमपवर्गसाधनं, स्वमतिबन्धसारं तु तत्स्थानस्थितिकार्य एव तथा स्वभावत्वात्, गौतमभगवद्ध मानवत् एवंभूतस्यैव योगनिष्पादकत्वात् । न ह्यशालिवीजात्कालेनापि शाल्यङ्कुरः । एतत्त्वभिन्नग्रन्थेरपि तदेवं भवति चरमयथाप्रवृत्तिकरणसामर्थ्येन तथाविधक्षयोपशमसारत्वादप्रमत्तयतेः सरागस्यैव वीतरागभावकल्पम् । यथाहुर्योगाचार्याः | योगबीज चित्तं भवसमुद्रनिमग्नस्येषदुन्मज्जनाभोगः तत्सत्यतिशय शैथिल्यकारी प्रकृतेः प्रथम विपियेक्षातदा कृतकारिणी समुज्जासनागमोपायनं च इतस्तदुचितचिन्तासमावेशक्रुद्ध न्थिपर्वतपरमवज्रं नियमाद्भेदकारि भावचारिकपलायनकालघण्ठ। तदपसारकारिणी समासेनत्यादि । अतः संशुद्धं तदीदृशमेतदिति जिनकुशलचिन्तादि । एतच्च तथाविधकालादिभावेन तत्तत्स्वभावतया फलपाकारम्भसदृशमिति ।
न चेदमेव केवलं योगत्रीजमिति तदन्तराभिधित्सयाहआचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । । वैयावृत्त्यं च विधिवच्छ्रुद्धाशयविशेषतः ।। २६ ।।
आचार्यादिष्वप्याचार्योपाध्यायतपस्व्यादिष्वप्येतदेव कुशलचितादि विशुद्धं संशुद्धमेवेत्यर्थः । किंविशिष्टेषु । आह " भावयोगिषु" न द्रव्याचार्यादिष्वधर्मज लक्षणेषु कूटरूपे खल्वकूटबुद्धेरप्यसुन्दरत्वात् । नैतदेव केवलं योगबीजम् । किं तर्हि । “वैयावृत्त्यं च " व्यावृत्त।
१ A omits संशुद्धम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org