________________
(२२) भावलक्षणमाहारादिना विधिवत्सूत्रोक्तविधियुक्तं पुरुषायपेक्षयेत्यर्थः । यदाह।
पुरिसन्तस्सुवयारं उवयारं च-प्पणो य णाऊणं । कुज्जा चेयावडियं आणं काऊं निरासेसो ॥ इत्यादि । अत एवाह "शुद्धाशयविशेषतः" शुद्धचित्तप्रवन्धविशेषेण ।। अयं च तथाविधकालभावनेत्युक्तमायं वीजान्तरमाह । भवोदेगश्व सहजो द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ॥२७॥
भवोद्वेगश्च संसारोद्वेगश्च जन्मादिरूपतया भवत्यस्य सहजो नेष्टयोगादिनिमित्तः, तस्यार्तध्यानरूपत्वात् । उक्तं च ।
प्रत्युत्पन्नात्तु दुःखानिदो द्वेप ईदृशः
न वैराग्यमित्यादि योगवीजमिति वर्तते ।। तथा द्रव्याभिग्रहणपालनमोषधादिसमादानमधिकृत्या भवाभिग्रहस्य विशिष्टक्षयोपशमभावरूपस्याभिग्रन्थेरसंभवाद्रव्याभिग्रहणम् । तथा सिद्धान्तमाश्रित्यार्थ न तु कामादिशास्त्राणि । किमित्याह "विधिना" न्यायात्तधनसत्प्रयोगादिलक्षणेन । किमित्याह "लेखनादि च" योगबीजमनुत्तममिति ॥
आदिशब्दार्थमाह । लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाथ स्वाध्यायश्चिन्तना भावनेति च ॥२८॥
१
संपदानमयिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org