________________
Hds
( १७ ) इह च दृष्टिसमुच्चयेप्रतिपातयुताश्चाद्याश्चतस्त्रो नोत्तरास्तथा । सापाया अपि चैतास्तत्प्रतिपातेन नेतराः ॥१९॥ प्रतिपातयुता भ्रंशोपेताः । आद्याश्चतस्रो दृष्टयो मित्रादिरूपाः । एता अपि च प्रतिपातयुता अपि तथा कर्मवैचित्र्यात् , न तु प्रतिपातयुता एव ताभ्यस्तदुत्तरभावादिति नोत्तरास्तथा न स्थिराधास्तेन प्रकारेण प्रतिपातयुता इति । यत एवं सापाया अपि दुर्गतिहेतुत्वेनैतास्ता एता एव । कथामित्याह " प्रतिपातेन " भ्रंशेन नेतरा न २ स्थिरायाः सापाया इति । आह । कथं श्रेणिकादीनामेतदप्रतिपातादपायः । उच्यते । एतदभावोपातकर्मसामर्थेन । अत एवोक्तं प्रतिपातेन तु.संभवमात्रमधिकृत्य "सापाया अपि" । तथापि प्रायोवृत्तिविषयत्वात्सूत्रस्यैवमुपन्यासः। अथवा सदृष्ट्यपाते सत्यप्यपायोऽप्यनपाय एव वज्रतन्दुलवत्पाकेन तदाशयस्य कायदुःखभावेऽपि क्रियानुपपत्तेरित्येवमुपन्यासः । योगाचार्या एवात्र प्रमाणमिति । अतः प्रतिपातेन नेतरा इति स्थितम् ।।
इहादिप्रयाणभङ्गाभावेन निशि स्वापसमः पुनः । विघातो दिव्यभावतश्चरणस्योपजायते ॥ २० ॥
"प्रयाणभङ्गाभावेन" इति कन्यकुब्जादिगमने ऽनवतरमयाणकं, अनेनापि । निशि रात्रौ । स्वापसमः पुनः स्वापतुल्यस्तु । किमित्याह
? A onits २ A. omits ३ 18 D omit
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org