________________
(१६) सांमतं दृष्टिशब्दार्थाभिधानायाहसच्छुद्धासंगतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात्सत्प्रवृत्तिपदावहः ॥ १७ ॥
"सच्छ्रद्धासंगतो बोधः" इत्यनेनासच्छद्भाव्यवच्छेदमाह । असच्छद्धा चेह शास्त्रबाह्या स्वाभिप्रायतस्तथाविधासदहात्मिका गृह्यते, तवैकल्यात् " सच्छ्रद्धासंगतः ” इति । एवंभूतो बोधोऽवगमः । किमित्याह " दृष्टिरित्यभिधीयते " । दर्शनं दृष्टिरिति कृत्वा नि
प्रत्यपायतया । फलत एतामेवाह " असत्पत्तिव्याघातात् " इति तथा श्राद्धतया शास्त्रविरुद्धप्रवृत्तिव्याघातेन । किमित्याह " सत्पत्र त्तिपदावहः " इति शास्त्राविरुद्ध प्रतिपदावहोऽवेद्यसंवेद्यपरित्यागेन वेद्यसंवेद्यपदमापक इत्यर्थः । वेद्यपदरूपत्वेऽपि स्थिरादिदृष्टीनां सामान्यलक्षणत्वादस्यैवमप्यदोष इति । अथवा सत्प्रवृत्तिपदं परमार्थतः शैलेशीपदमिति तदावहत्वे न कश्चिदोष इति ॥ एपा च परिस्थूरभेदादष्टधा, अन्यथा बहुभेदेत्यभिधातुमाहइयं चावरणापायभेदादष्टविधा स्मृता । सामान्येन विशेषास्तु भूयांसः मूक्ष्मभेदतः ॥१८॥
इयं चानन्तरोदितलक्षणा दृष्टिः। आवरणपायभेदादावरणापगमभेदेन परिस्थूरनीत्या । अष्टविधा स्मृता पूर्वाचार्यः सामान्येन मू. क्ष्मक्षिकामनाहत्य । विशेषास्तु भेदाः पुनः सदृष्टभूयांसोऽतिबहवः सूक्ष्मभेदतोऽनन्तभेदत्वादर्शनादीनां मिथ पदस्थानपतितत्वाभिधानादिति ॥
MSS. दृष्टिरवाभिधीयते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org