SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ गोचरा एवैताः, एतेषामेव संवेगमाधुर्योपपत्तेः । इक्षुकल्पत्वादिति नलादिकल्पास्तथाभव्याः, संवेगमाधुर्यशून्यत्वात् । अनेन सर्वथा परिणामिक्षणिकात्मवादे दृष्टिभेदाभावमाह, तत्तथाभवनानुपपत्तेरिति । इयं च सकलयोगिदर्शनसाधारणेति यथाविधानां यथा भवति तथाविधानां तथाभिधातुमाह यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानं क्रमेणैषा सतां मता ॥ १६ ॥ यमादियोगयुक्तानामिति । इह यमादयो योगाङ्गत्वाघोगा उ. च्यन्ते । यथोक्तं " यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टावङ्गानि ११ । तदेवं यमादियोगप्रत्यनीकाशयपरिहारेण । एते ऽपि चाष्टावेव । तथा चोक्तम् । खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्गासङ्गैः । युक्तानि हि चित्तानि प्रपञ्चतो वर्जयेन्मतिमान् ।। तदेव तत्परिहारेणापि क्रमेणैपाष्टधेति । एवमद्वेषादिगुणस्थानमिति यत एतान्यप्यष्टावेव । यथोक्तम् । अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टात्मिका तत्त्वे ॥ एवं क्रमेणैषा सदृष्टिः सतां मुनीनां भगवत्पतञ्जलितदन्तभास्करबन्धुभगवदन्तवादीनां योगिनामित्यर्थः । मता इष्टा । एतत्साकल्यं चर प्रतिदृष्टि दर्शयिष्यामः ।। ? Patanjali Y. S. II, 29. omiti २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy