________________
णसदृशः। अयमप्येवंकल्प एव, तत्त्वतो विशिष्टस्थितिवीर्यविकलत्वात, अतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेः, तदभावे प्रयोगवैकल्यात् , ततस्तथा तत्कार्याभावादिति । बलायामप्येष काष्ठाग्निकणकल्पो विशिष्ट ईषदुक्तबोधद्वयात् , तद्भवतोऽत्र मनाक् स्थितिवीर्ये, अतः पटुपाया स्मृतिरिह प्रयोगसमये तद्भाचे घार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । दीपायां त्वेष दोपप्रभातुल्यो विशिष्टतर उक्तवोषत्रयात् , अतोऽत्रोदने स्थितिवीर्ये तत्पद्व्यापि प्रयोगसमये स्मृतिः । एवं भावतो ऽप्यत्र द्रव्यप्रयोगो बन्धनादौ तथा भक्तितो यत्र भेदप्रत्तेरिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समविदः । स्थिरा तु भिन्नग्रन्थेरेव भवति तदवोधो रत्नभासमानस्तद्भावो प्रतिपाती प्रवर्धमानो निरपायो नापरपरितापकृत्परितोषहेतुःप्रायेण परिधानादियोनिरिति। कान्तायां तु ताराभासमान एषः । अतः स्थित एव प्रकृत्या निरतिचारमात्रानुष्ठानं शुद्धोपयोगानुसारि विशिष्टाप्रमादसचिवं विनियोगप्रधानगम्भीरोदाराशयमिति । प्रभायां पुनरर्कभा:समानो बोधः, स ध्यानहेतुरेव सर्वदा, नेह प्रायो विकल्पावसरः, प्रशमसारं सुखमिह । अकिंचिस्कराण्यत्रान्यशास्त्राणि, समाधिनिष्ठमनुष्ठानं, तत्संनिधी वैरादिनाशः परानुग्रहकता, औचित्ययोगो विनेयेषु, तथावन्ध्या सक्रियेति । परायां पुनदृष्टिचन्द्रचन्द्रिकाभासमानो बोधः सद्ध्यानरूप एव सर्वदा विकल्परहितो मतः, तदभावनोत्तमं सुखं, आरूढावरोहणवन्नानुष्ठानं प्रतिक्रमणपरोपकारित्वं यथा भव्यत्वं तथा पूर्ववदवन्ध्या क्रियेति । एवं सामान्येन सदृष्टेर्योगिनो दृष्टिरष्टधेत्यष्टप्रकारा । अत्राह । ग्रन्थिभेदे सदृष्टित्वं स च दीर्घोत्तरकालमिति कथं सदृष्टेदृष्टिरष्टधेति। उच्यते । अवन्ध्यसदृष्टिहेतुत्वेन मित्रादिदृष्टीनामपि सतीत्वादिति वर्षोलकनि. पत्ताविक्षुरसकज्जवगुरुकल्पाः खल्वेताः खण्डसर्करामत्स्याण्डवर्षोलकसगाशेनरा इत्याचार्याः । इक्ष्वादीनामेव तथाभवनादिति रुच्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org