________________
तरग्राहिणीति । आदिशब्दादिवसग्रह इति । तदेका समेघे दिवसे तथापरामेघ इति । अस्ति चानयोर्विशेषः । इयमपि सग्रहस्य द्रष्टः, आदिशब्दादग्रहस्य च । भवत्यनयोरपि विशेषः, चित्रविभ्रमादिमेदात् । इयमप्यर्भकस्य द्रष्टुः, आदिशब्दादनकस्य च । अस्त्यनयोरपि भेदो विवेकवैकल्यादिभेदात् । इयमपि मिथ्यादृष्टेः काचाग्रुपहतलोचनस्य, इनरस्य तदनुपहतलोचनस्येति । यथैप दृष्टिभेद एकस्मिन्नपि दृश्ये चित्रोपाधिभेदात् , तथा पारलौकिकेऽपि प्रमेये क्षयोपशमवैचिच्यतश्चित्रः प्रतिपत्तिभेद इति । एतनिबन्धनो ऽयं दर्शनभेद इति योगाचार्याः। न खल्वयं स्थिरादिदृष्टिमतां भिन्नग्रन्थीनां योगिनां यथाविषयं नयाभेदावबोधभावादिति । प्रत्तिरप्यमीपां परार्थ शुद्धबोधभावेन विनिवृत्ताग्रहतया मैत्र्यादिपारताव्येण गम्भीरोदाराशयत्वात् चारिचरिकसंजीवन्यचरकचारणनीत्येत्यलं प्रसङ्गेन ॥
प्रकृतं प्रस्तुमः । प्रकृता च मित्रादिभेदभिन्ना योगदृष्टिः, इयं चे. त्यमष्टधेति निदर्शनमात्रमधिकृत्याहतृणगोमयकाष्ठाग्निकणदीपप्रभोपमा । रत्नतारार्कचन्द्रामाः सदृष्टेदृष्टिरष्टधा ॥ १५॥
इहाधिकृतदृष्टिबोधः खल्वर्थोक्त एव तृणाग्निकणायुदाहरणसाधर्म्यतो निरूप्यते । सामान्येन सदृष्टेयोगिनो दृष्टिबोधलक्षणाष्टधा भवति । तृणाग्निकणोपमा मित्रायां, गोमयाग्निकणोपमा तारायां, काष्ठाग्निकणोपमा बलायां, दीपप्रभोपमा दीपायाम् । तथाविधप्रकाशमात्रादिनेह साधयं यदाह मित्रायां वोधस्तृणाग्निकणसदृशो भवति, न तत्वतोऽभीष्टकार्यक्षमः, सम्यक्प्रयोगकालं यावदनवस्थानादल्पवीर्यतया पटुस्मृतिबीजसंस्काराधानानुपपत्तेः, ततश्च विकलप्रयोगभावादावतो वन्दनादिकार्यायोगादिति । तारायां तु वोधो गोमयाग्निक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org