SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ (१२) एतत्रयमनाश्रित्य विशेषणैतदुद्भवाः। योगदृष्टय उच्यन्ते अष्टौ सामान्यतस्तु ताः ॥१२॥ एतत्रयमिच्छायोगादिलक्षणमनाश्रित्यानङ्गीकृत्य विशेषेणास्मादियमित्येवंलक्षणेन । किमित्याह " एतदुद्भवाः । योगदृष्टय उच्यन्ते" मित्राद्याः " अष्टौ सामान्यतस्तु नाः " दृष्टय इति ।। ताश्चैताःमित्रा तारा बला दीपा स्थिरा कान्ता प्रभा परा नामानि योगदृष्टीनां लक्षणं च निबोधत ॥ १३॥ ___ तत्र मित्रेव मित्रा तारेव तारेत्यादि यथार्थान्येव नामानि योगदृष्टीनाम् । लक्षणं चासां वक्ष्यमाणलक्षणं निबोधत शृणुतेत्यर्थः । इहौघदृष्टिव्यवच्छेदार्थ योगदृष्टिग्रहणमिति ॥ तामभिधातुमाहसमेघामेघराठ्यादौ सग्रहाद्यर्भकादिवत् । ओघदृष्टिरिह ज्ञेया मिथ्यादृष्टीतराश्रया ॥ १४ ॥ इहौघडष्टिानावरणीयादिकर्मक्षयोपशमवैचित्र्याच्चित्रा समेघामेघ च तद्राच्यादि च, आदिशब्दादिधसपरिग्रहः, तस्मिन् । सग्रहादिश्चासौ अर्भकादिश्चेति विग्रहः । प्रथमादिशब्दादग्रहपरिग्रहः', द्वितीयादिशब्दादनकपरिग्रहः । ओघदृष्टिः सामान्यदर्शनं भवाभिनन्दिसत्त्वविषया। मिथ्यादृष्टिश्वेतरश्च मिथ्यादृष्टीतरी, तदाश्रया । काचायुपहतो मिथ्यादृष्टिः, तदनुपहतस्त्वितर इत्यक्षरगमनिका । भावार्थस्तु । एका समेघायां रात्रौ दृष्टिः किंचिन्मात्राहिणी, अपरा त्वमेघायां मनागधिक १ zommits परिग्रहः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy