________________
क्षान्त्यादिधर्मनिवृत्तेः । अतोऽयमित्यमुपन्यास इति । अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, प्रवृत्तिलक्षणधर्मसंन्यासायाः प्रव्रज्यायाः ज्ञानयोगप्रतिपत्तिरूपत्वात् । अत एवास्या' भवविरक्त एवाधिकार्यु. क्तः। यथोक्तं “अथ प्रव्रज्याई आर्यदेशोत्पमः, विशिष्टजातिकुलान्वितः क्षीणपायकर्ममलबुद्धिः “दुर्लभं मानुष्यं जन्ममरणनिमित्तं, संपदश्चपलाः, विषया दुःखहेतवः, संयोगो वियोगः, प्रतिक्षणं मरणं, दारुणो विषाकः' इत्यवगतसंसारनैर्गुण्यः', तत एव तद्विरक्तः, प्रतनुकषायः, अल्पहास्यादिः, कृतमः, विनीतः, प्रागपि राजामात्यपौरजनबहुमतः, अद्रोहकारी, कल्याणाः , श्राद्धः, समुपसंपन्नश्च" इति । न ह्यनीदृशो ज्ञानयोगमाराधयति न चेदृशो ना. राधयतीति भावनीयम् । सर्वज्ञवचनमागमः, तत्रायमनिरूपितार्थ इति “आयोज्यकरणादर्घ " इति केवलाभोगेनाचिन्त्यवीर्यतया योज्यं तथा तथा तत्कालक्षपणीयत्वेन भवोपग्राहिकर्मणस्तथावस्थानभावे कृतिरायोज्यकरणम् । शैलेश्यवस्थाफलमेतत् । अत एवाह "द्वितीय इति तद्विदः" योगसंन्याससंज्ञितः सामर्थ्ययोग इति तद्विदोऽभिदधति शैलेश्यवस्थायामस्य भावात् । सर्वमिदमागमिकं वस्तु तथा चैतत्संवाद्यर्थम्
? A, marginal addition 99501:
R The passage is quoted from Haribhadra's Dharmabindu, IV, 6, with some variations.
३ Dharmabindas reads क्षीणमायकर्ममलः, अत एव वि. मलबुद्धिः
४ ( इत्येव गतं ५ Dharmabindre adds स्थिर: ६ B omits योगसंन्यासं तद्विदो'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org