________________
संन्याससंज्ञितः । “तारकादिभ्य इतच" । एवं योगसंन्याससंज्ञा संजातास्यति योगसंन्याससंज्ञितः। संज्ञा चेह तथा संज्ञायत इति कृत्वा स तत्स्वरूपमेव गृह्यते । क एते धर्माः के वा योगा इत्याह "क्षायोपशमिका धर्माः" क्षयोपशमनित्ताः क्षान्त्यादयः, “योगाः कायादिकर्म तु" योगाः पुनः कायादिव्यापाराः कायोत्सर्गकरणादयः ॥
एवमेष द्विधा सामर्थ्ययोग इति यो यदा भवति सं तदाभिधातुमाइ ।
दितीयापूर्वकरणे प्रथमस्तात्त्विको भवेत् ।
आयोज्यकरणादूर्ध्व दितीय इति तदिदः ॥१०॥ द्वितीयापूर्वकरण इति ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थ द्वितीयग्रहणं प्रथमेऽधिकृतसामर्थ्ययोगासिद्धेः। अपूर्वकरणं त्वपूर्वपरिणामः शुभोऽनादावपि भवे तेषु धर्मस्थानेषु वर्तमानस्य तथासंजातपूर्वो ग्रन्थिभेदादिफल उच्यते । तत्र प्रथमेऽस्मिन् ग्रन्थिभेदः फलं, अयं च सम्यग्दर्शनफलः, सम्यग्दर्शनं च प्रशमादिलिङ्ग आत्मपरिणामः । यथोक्तं "प्रशमसंवेगनिर्वेदानुकम्पास्तित्वाभिव्यक्तिलक्षणं तत्त्वार्यश्रद्धानं सम्यग्दर्शनं " इति । यथाप्राधान्यमयमुपन्यासो चारुश्च पश्चानुपूयेति समयविदः । द्वितीये त्वस्मिंस्तथाविधकमंस्थितेस्तथाविधसंख्येयसागरोपमातिक्रमभाविनि किमित्याह " प्रथमस्तात्त्विको भवेत् " इति । प्रथमो धर्मसंन्याससंज्ञितः सामर्थ्ययोगस्तात्त्विकः पारमार्थिको भवेत् , क्षपकश्रेणियोगिनः क्षायोपशमिक
१ पाणिनि, ५, २, ३६ २। कारणादयः
Comp, Tattvarthadhiyamas 1, 2, and the comir. 3D omits
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org