________________
ख्यज्ञानयुक्तः । किमित्याह " सामर्थ्ययोगः" सामर्थ्यप्रधानो योगः सामर्थ्य योगः प्रक्रमाद्धर्मव्यापार एव क्षपकश्रेणिगतो गृह्यते; अयं " अवाच्यो ऽस्ति" तद्योगिनो संवेदनसिद्धः " सर्वज्ञत्वादिसाधनं" आक्षेपेणातः सर्वज्ञत्वसिद्धेः । आह । इदमपि मातिभं श्रुतज्ञानमेव, अन्यथा षष्ठज्ञानप्रसङ्गः । न चैतत्केवलं, सामर्थ्ययोगकार्यत्वादस्य । एवं च सिद्धयाख्यपदसंप्राप्तिहेतुभेदास्तत्वतः१ शास्त्रादेवावगम्यन्त इति ॥
__ अत्रोच्यते । नैतच्छ्रतं न केवलं न च झानान्तरमिति, रात्रि दिवारुणोदयवत् । अरुणोदयो हि न रात्रि दिवातिरिक्तो न च तयोरेकोऽपि वक्तुं पार्यते । एवं प्रातिभमप्येतन तदतिरिक्तं न च तयोरेकमपि वक्तुं शक्यते । तत्काल एव तथोत्कृष्टक्षयोपशमवतो भावात् श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यत्वान श्रुतं क्षायोपशमिकत्वादशेपद्रव्यपर्यायाविषयत्वान केवलमिति । इष्टं चैतत्तारकनिरीक्षणादिज्ञानशब्दवाच्यमपरैरपीत्यदोषः ।
सामर्थ्ययोगभेदाभिधानायाहविधायं धर्मसंन्यासयोगसंन्याससंज्ञितः । सायोपशमिका धर्मा योगाः कायादिकर्म तु ॥ ९ ॥
द्विधा द्विभकारो ऽयं सामर्थ्ययोगः । कथमित्याह " धर्मसंन्यासयोगसंन्याससंज्ञितः" इति । धर्मसंन्याससंज्ञा संजातास्येति धर्मः
१A सिद्धाख्य० २ D पार्यते ३ । धर्मसंन्यासो यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org