________________
( २६ )
नास्मिन् भावमले घने प्रबले यतः सत्सु साधुषु तत्प्रतीतिः । किंविशिष्टेत्याह " महोदया" अभ्युदयादिसाधकत्वेन । प्रतिवस्तूप मयाऽमुमेवार्थमाह " किं सम्यग् रूपमादत्ते " लक्षणव्यञ्जनादिकात्स्न्येन " कदाचिद्मन्द लोचनः " इन्द्रियदोषान्नादत्त एवेत्यर्थः ॥
अधुनान्वयसारमधिकृत वस्तु समर्थनायैवाहअल्पव्याधिर्यथा लोके विकारैर्न बाध्यते । चेष्टते चेष्टसिद्ध वृत्त्यैवायं तथा हिते ॥ ३७ ॥
अल्पव्याधिः क्षीणप्रायरोगः । यथा लोके कश्चित्तद्विकारै: कवादिभिर्न वा यते व्याघेरल्पत्वेन न वाध्यते । किं चेत्याह “ चेष्टते च " राजसेवाद" " कुटुम्बारिपालनाय । एष दृष्टान्तोऽयमर्योपनय" व " धमयोनिरूपया । एतच्च " धृतिः श्रद्धा सुविविदिषा विज्ञप्तिरिति धर्मयोनयः " इति वचनात् । तदनया हेतुभूतयायं योगी तथाल्पव्याधि पुरुषव स्थिरा कार्यवृत्तिनिरोधेन हिते हितविषये दानादौ चेष्टत इति ||
एतदनन्तरोदितमखिलमेव यदोपजायते तदभिधातुमाहयथाप्रवृत्तिकरणे चरमेऽल्पमलत्वतः ।
आसन्नग्रन्थिभेदस्य समस्तं जायते ह्यदः ||३८||
यथाप्रवृत्तिकरणे माग्व्यावणितस्वरूपे । चरमे पर्यन्नवर्तिनि । अल्पमलत्वतः कारणात् । आसन्नग्रन्थिभेदस्य सतः समस्तमनन्तरोदितं जायंत द एतदिति ॥
अथवा चरमं यथाप्रवृत्तमिदमपूर्वमेवेत्याहअपूर्वासनभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ॥ ३९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org