________________
(२७ ) अपूर्वासनभावेन हेतुना । तथा व्यभिचारवियोगतः कारणात् । तत्त्वतः परमार्थेनापूर्वमेवेदं चरमं यथाप्रत्तमिति योगविदो विदुरेवं योगविदो जानत इति भावः ।।
इहैव गुणस्थानयोजनमाहप्रथमं यद्गुणस्थानं सामान्येनोपवर्णितम् ।
अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ॥४०॥ प्रथममायं यद्गुणस्थानं मिथ्यादृष्ट्याख्यं सामान्येनोपवर्णितमागमे "मिच्छदिही सा सायणाइ" इति वचनात् । अस्यां तु तदवस्थायामित्यस्यामेव मुख्य निरुपचरितम् । कुत इत्याह "अन्वर्थयोगतः" एवगुणभावेन गुणस्थानोपपत्तेरित्युक्ता मित्रा ॥
अधुना तारोच्यते । तदत्राहतारायां तु मनाकस्पष्टं नियमश्च तथाविधः ।
अनुढेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ॥४१॥ तारायां पुनदृष्टौ । किमित्याह " मनाक्स्पष्ट दर्शनमिति, अतः “नियमश्च तथाविधः" शौचादिरिच्छादिरूप एवं "शौचसंतोपतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" इति वचनात् । तदत्र द्वितीययोगात्पतिपत्तिरपि मित्रायां खेतदभाव एव तथाविधक्षयो. पशमाभावात् । तथानुद्वेगो हितारम्भे पारलौकिके ऽवेदसहितः, अत एव तत्सिद्धिः । तथा जिज्ञासा तत्त्वगोचरा द्वेषत एव तत्प्रतिपत्त्यानुगुण्यमिति ॥
अस्यां दृष्टौर यदन्यद्गुणजातं भवति तदाह१ Patanjali Y. S. II, 32 २ A. omits
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org