SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भवत्यस्यां तथाच्छिन्ना प्रीतिर्योगकथास्वलम् । शुद्धयोगेषु नियमाद्वहुमानश्च योगिषु ॥ ४२ ॥ भवत्यस्यां दृष्टौ । तथा तेन प्रकारेण । अच्छिन्ना भावप्रतिबन्धसारतया । प्रीतिर्योगकथास्वलमत्यर्थ तथा शुद्धयोगेष्वकल्कमधानेषु नियमेन बहुमानश्च योमिषु भवति ॥ न केवलमयम् । कि चयथाशक्तयुषचारश्च योगवृद्धिफलप्रदः। योगिनां नियमादेव तदनुग्रहधीयुतः ॥ ४३ ॥ यथाशक्त्युक्ते शक्त्यौचित्येनेत्यर्थः । किमित्याह " उपचारश्च" ग्रासादिसंपादनेन यथोक्तयोगिविति प्रक्रमः । स एव विशिष्यते । "योगटद्धिफलमदः" तत्सम्यक्परिणामेन “योगिनां नियमादेव" नान्यथा तद्वियातहेतुरिति "तदनुग्रहधीयुतः" उपचारसंपादकानुग्रहबुद्धियुक्त इत्यर्थः ॥ अयमेव विशिष्यतेलाभान्तरफलश्चास्य श्रद्धायुक्तो हितोदयः। क्षुद्रोपद्रवहानिश्च शिष्टसम्मतता तथा ।। ४४ ॥ लाभान्तरफलश्चास्योपचारकर्तुः, शुद्धोपचारपुण्यात्तथाविपाकभावात् । अत एव श्रद्धायुक्त उपचार इति प्रक्रमः । हितोदयः पूर्ववत् । क्षुद्रोपद्रवहानिश्च भवति । अत एव व्याध्यादिनाशः। शिष्टसम्मतता तथा । अत एवास्यातिसुन्दरो बहुमानः ॥ तथा । mamrpan ? B omits Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy