SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ( २९) भयं नातीव भवजं कृत्यहानिन चोचिते। तथानाभोगतो ऽप्युबैर्न चाप्यनुचितक्रिया ॥ ४५ ॥ भयं नातीव भवनं तथाशुभापत्तेः। कृत्यहानिर्न चोचिते सस्मिन्नेव धर्मादरात् । तथानाभोगतो ऽप्युच्चैरत्यर्थं न चाप्यनुचितक्रिया सर्वत्रैव ॥ एवंकृत्ये ऽधिकेऽधिकगत जिज्ञासा लालमान्विता । तुल्ये निजे तु विकले संत्रासो देषवर्जितः ॥ ४६॥ कृत्ये ध्यानादौ । अधिके स्वभूमिकापेक्षया । अधिकगत आचार्यादिवतिनि । जिज्ञासास्य । कथमेतदेवमिति " लालसान्विता" अभिलाषातिरेकयुक्ता । तुल्ये कृत्ये वन्दनादौ निने त्वात्मीय एव विकले कार्योत्सर्गकरणादिना संत्रासो भवत्यात्मनि हानिविरोधको ऽहमिति द्वेषवर्जितो ऽधिके ऽधिकृतदृष्टिसामर्थ्यादिति ॥ दुःखरूपो भवः सर्व उच्छेदो ऽस्य कुतः कथम् । चित्रा सतां प्रवृत्तिश्च साशेषा ज्ञायते कथम् ॥४७॥ दुःखरूपो भवः सर्वो जन्मजरादिरूपत्वात्। उच्छेदोऽस्य भवस्या कुतो हेतोः । क्षान्त्यादेः । कथं केन प्रकारेण । चित्रा सतां मुनीनां प्रवृत्तिश्चैत्यकर्मादिना प्रकारेण साशेषा ज्ञायते कथं, तदन्यापोहतः ॥ यतःनास्माकं महती प्रज्ञा सुमहान शास्त्रविस्तरः। शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥४०॥ ? A omito Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy