________________ (92) अवज्ञह कृताल्पापि यदनाय जायते / 'अतस्तत्परिहारार्थं न पुनर्भावदोषतः // 225 / / अवज्ञह योगदृष्टिसमुच्चयाख्ये ग्रन्ये कृताल्पापि स्वरूपण / यद्यस्मात् / अनर्थाय जायते महाविषयत्वेन / अतस्तत्परिहारार्थ न पुनभर्भावदोषतः क्षुद्रतया हरिभद्र इदं प्राहेति // इत्थं चैतदङ्गीकर्तव्यम् / यत एवाह / योग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनान्वितैः। मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये // 226 // ___ योग्येभ्यस्तु श्रोतृभ्यः प्रयत्नेनोपयोगसारण देयोऽयं विधिना श्रवणादिगोचरेणान्वितैर्युक्तैः,दोषोऽन्यथा प्रत्यवायसंभवादित्याचार्याः। मात्सर्यविरहेण मात्सर्याभावेनोचैःश्रेयोविघ्नप्रशान्तये पुण्यान्तरायमशान्त्यर्थमिति // - - - समाप्तोऽयं योगदृष्टिसमुच्चयः कृतिः श्रीश्वेतभिक्षोराचार्यश्रीहरिभद्रस्येति॥ down to appear in the ? A omits from here commentary. Jain Education International For Private & Personal Use Only www.jainelibrary.org