________________
(90)
सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् । तन्नष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः || १९३ ||
२
सतो भावस्यासत्त्वेऽभ्युपगम्यमाने " स एव न भवति " इति वचनात् । किमित्याह " तदुत्पादः " इत्यसत्त्वोत्पादः कादाचित्कत्वेन । तत उत्पादान्नाशो ऽपि तस्यासत्त्वस्य यदुत्पत्तिमत्तद नित्यं' इति कृत्वा । यद्यस्मात् । एवं तत्तस्मान्नष्टस्यासत्त्वस्य पुनभवस्तेनैव रूपेण तदसत्त्वविनाशान्यथानुपपत्तेः । अथ नाशो नाशात्मना भावात्माक्पश्चाच्चावस्थित एव । एतदाशंक्याह " सदा नाशे " अभ्युपगम्यमाने । किमित्याह " न तत्स्थितिः " विवक्षितक्षणे ऽपि तन्नश्यति ॥
सक्षणस्थितिधर्माचेद् द्वितीयादिक्षणे स्थितौ । युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः || १९४ ॥
स नाशः क्षणस्थितिधर्मा चेद्भाव एव । एतदाशंक्याह " द्वितीया दिक्षणे स्थितौ " सत्याम् । किमित्याह " युज्यते ह्येतदपि " क्षणस्थितिधर्मकत्वं " अस्य " अधिकृतभावस्य । तथा चैवं सत्युकानतिक्रमः ॥
कथमित्याह ।
क्षणस्थितौ तदैवास्य नास्थितिर्युक्त्तयसंगतेः ।
न पश्चादपि सेत्येवं सतोऽसत्त्वं व्यवस्थितम् ॥ १९५॥ क्षणस्थितौ सत्यां तदैव विवक्षितक्षणे ऽस्य विवक्षितभावस्यैव
१ BComit
२ B C ० नष्टस्य सत्त्वस्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org