________________
( ८० ) नास्थितिः । कुत इत्याह “युक्त्यसंगतः। तदैवास्थितिविरोधादिति युक्तिः । न पश्चादपि द्वितीयक्षणे साऽस्थितिन युक्त्यसंगतेरेव तदावस्थितौ तदस्थितिविरोधादिति युक्तिः । इत्येवं सतोऽसत्वं व्यवस्थितम् । ततश्च सतोऽसच्चे तदुत्पाद इत्यायनुवर्तत एवेति ॥
नित्यपक्षमधिकृत्याह । भवभावानिवृत्तावप्ययुक्ता मुक्तकल्पना । एकान्तकस्वभावस्य न ह्यवस्थादयं कचित् ॥ १९६॥
भवभावानिवृत्तावप्येकान्तनित्यतायाम् । किमित्याह । “अ. युक्ता मुक्तकल्पना" आत्मनः । कथमयुक्तेत्याह " एकान्तकस्वभावस्य" अपच्युतानुत्पन्नस्थिरैकस्वभावतायाः " न हि यस्मात् " "अवस्थाद्वयं " संसारिमुक्तारूयं "कचित" एकान्तकस्वभावत्वविरोधात् ॥
तदभावे च संसारी मुक्तश्चेति निरर्थकम् । तत्स्वभावोपमर्दोऽस्य नीत्या तात्त्विक इष्यताम् ॥१९७॥
तदभावे चावस्थाद्वयाभावे च संसारी तिर्यगादिभाववान मुक्तो भवप्रपञ्चोपरमादित्येतनिरर्थकं शब्दमात्रमेव च । अर्थायोगादिति । तत्तथा स्वभावोपमर्दस्तदन्तरेण तदन्तरापनयनलक्षणः । अस्यात्मनः। नीत्या न्यायेन । किमित्याह " तात्त्विक इप्यतां" पारमार्थिको ऽभ्युपगम्यतामिति ॥ दिदृक्षाद्यात्मभूतं तत्सुखमस्यानिवर्तते । प्रधानादिनतेर्हेतुस्तदभावान्न तन्नतिः ॥ १९८ ॥
Comits
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org