________________
(६८) दृष्टिः। सत्यामस्यामपरैरपि योगाचारलौल्यादयो गुणाः' मोच्यन्ते । यथोक्तम् । अलौल्यमारोग्यमनिष्ठुरत्वं । गन्धः शुभो मूत्रपुरीषमल्पम् ॥ कान्तिः प्रसादः स्वरसौम्यता च । योग पत्तेः प्रथमं हि चिह्नम् ॥१॥ मैत्र्यादियुक्तं विषयेष्वचेतः । प्रभाव द्धैर्यसमन्वितं च ॥ द्वन्द्वैरधृष्यत्वमभीष्टलाभः । जनप्रियत्वं च तथापरं स्यात् ॥२॥ दोषव्यपायः परमा च नृत्ति-रौचित्ययोगः समता च गुर्वी ! वैरादिनाशोऽथ ऋतंभराधी निष्पन्नयोगस्य तु चिमेतत् ॥३॥इत्यादि।
इहाप्येतदकृत्रिमं गुणजातम् । अत एवारभ्य विज्ञेयम् । तथा च षष्ठी दृष्टिमभिधातुमाह। कान्तायामेतदन्येषां प्रातये धारणा परा। अतोऽत्र नान्यमुन्नित्यं मीमांसास्ति हितोदया॥१६०॥
कान्तायां दृष्टावेतदनन्तरोदितं नित्यदर्शनादि । अन्येषां प्रीतये भवति न तु द्वेषाय । तथा धारणा परा प्रधाना चित्तस्य देशबन्धलक्षणा । यथोक्तम् । “देशसंबन्धश्चित्तस्य धारणा ३-१ पा" । अतो धारणातः। अत्र दृष्टौ नान्यमुन्नान्यत्र हर्षः, तदा तत्तत्प्रतिभासायोगात् तथा नित्यं सर्वकालं मीमांसास्ति सद्विचारात्मिका । अत एवाह " हितोदया" सम्यग्ज्ञानफलत्वेन ॥
१ A D लौल्यादिगुणाः २ A जने मि० ३ A प तृप्ति Y C omits the quotation ५ A D omit.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org