________________
( ६७ )
न्दाय धीमतां तथा पापसखा लोके तदविनाभावेन देहिनां भोगविस्तरो नानन्दाय नानुपहत्य भूतानि भोगः सन् भवति भूतोपघाताच्च पापमिति भावना ||
धर्मभोगः सुन्दर इत्यप्याशङ्कापोहायाह ।
धर्मादपि भवन् भोगः प्रोयोऽनर्थाय देहिनाम् । चन्दनादपि संभूतो दहयेव हुताशनः ॥ १५८ ॥
धर्मादपि भवन् भोगो देवलोकादौ प्रायो बाहुल्येनानर्थाय देहिनां तथा प्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माक्षेपभोगनिरासा - थे, तस्य प्रमादजीवत्वायोगात् अत्यन्तानवद्यतीर्थ करादिफल शुद्धेः पुण्यशुद्ध्यादावागमाभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति । सामान्यतो दृष्टान्तमाह "चन्दनादपि संभूतः " तथा शैत्यपकृतेः । किमित्याह " दहत्येत्र हुताशनः " तथास्वभावत्वात् । प्राय एतदेव न दहत्यपि कश्चित्सत्यमन्त्राभिसंस्कृतादाहासिद्धेः । सकललोकसिद्धमेतदिति ॥
तथा - ।
भोगात्तदिच्छा विरतिः स्कन्धभारापनुत्तये । स्कन्धान्तरसमारोपस्तत्संस्कारविधानतः ॥ १५९ ॥
भोगात्सकाशात्तदिच्छाविरतिर्भोगेच्छाविरतिस्तात्कालिकी'
।
किमित्याह " स्कन्धभारापनुत्तये " स्कन्धभारापतुत्यर्थ "स्कन्धा - न्तरसमारोपः " वर्तते । कुत इत्याह "तत्संस्कारविधानतः " तथाकर्मवन्धेनानिष्टभोगसंस्कारविधानात्तत्त्वतस्तदिच्छानिवृत्तेरित्युक्ता पञ्चमी
१ A omits भोगेच्छाविरतिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org