________________
( ३५ )
अस्या एव विशेषतः परं फलमाह ।
गुरुभक्तिप्रभावेन तीर्थदर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ॥ ६४ ॥
गुरुभक्तिमभावेन गुरुभक्तिसामर्थेन तदुपात्तकर्मविपाकत इत्यर्थः । किमित्याह " तीर्थदर्शनं मतं " भगवद्दर्शनमिष्टम् । कथमित्याह " समापत्त्यादिभेदेन " समापत्तिर्ध्यानतः स्पर्शना तया; आदिशब्दात्तन्नामकर्मबन्धविपाकतद्भावापच्त्युपपत्तिपरिग्रहः । तदेवं विशिord " निर्वाणैकनिबन्धनं " अवन्ध्यमोक्षकारणमसाधारणमित्यर्थः । इह प्रतिषिद्धसूक्ष्मबोधलक्षणाभिधित्सयाहसम्यग्वादिभेदेन लोके यस्तत्त्वनिर्णयः । वेद्यसंवेद्यपदतः सूक्ष्मबोधः स उच्यते ॥ ६५ ॥ सम्यगविपरीतेन विधिना हेत्वादिभेदेनेति हेतुस्वरूपफलभेदेन लोके विद्वत्समवाये यस्तत्त्वनिर्णयः परमार्थपरिच्छेदः । कुत इत्याह “ वेद्यसंवेद्यपदतः " वक्ष्यमाणलक्षणाद्वेद्यसंवेद्यपदात्' । सूक्ष्मबोधः स उच्यते निपुण इत्यर्थः ॥
इहैव विशेषतः प्रवृत्तिनिमित्तमाह । भवाम्भोधिसमुत्तारा कर्मवज्रविभेदतः । ज्ञेयव्याप्तेश्च कार्त्स्न्येन सूक्ष्मत्वं नायमत्र तु ||६६ || भवाम्भोधिसमुत्ताराद्भव समुद्रसमुत्तारणाल्लोकोत्तरमवृत्तिहेतुतया । तथा कर्मवज्रविभेदतः कर्मवज्रविभेदेन विभेदतश्च पुनर्ग्रहणतः । ज्ञेयव्याप्तेश्च कार्त्स्न्येनानन्तधर्मात्मकतत्त्वप्रतिपत्त्या सूक्ष्मत्वं निपुणत्वं
१ C omits संवैध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org