________________
( ३४ )
परमं धर्म बलादेव प्रपद्यते, तत्स्वभावत्वात् । स्वत एव न योगो
त्थानमस्य ।।
तच्छ्रवणगुणमाह ।
क्षाराम्भस्त्यागतो यन्मधुरोदकयोगतः । बीजं प्ररोहमाधत्ते तद्वत्तत्त्वश्रुतेर्नरः ॥ ६१ ॥ क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः, तन्माधुर्यानवगमेऽपि स्पष्टसंचित्या बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः, तत्त्वश्रुतेर चिन्त्य - सामर्थ्यान्महाप्रभावत्वादिति ॥
अस्यैव भावार्थमाह ।
क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा ॥ ६२ ॥
क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतोऽतत्त्वश्रवणरूपोऽपि मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा तदङ्गतया तत्त्वश्रुतिरपीति ॥ अस्या एव गुणमाह ।
अतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकयहितावहम् || ६३ ||
अतस्त्वित्यत एव तच्छ्रुतेः' । किमित्याह “नियमादेव कल्याणं” परोपकारादि " अखिलं नृणां " तत्वश्रुतेस्तथाविधाशयभावात् । तदेव विशिष्यते । गुरुभक्तिसुखोपेतं कल्याणं तदाज्ञया तत्करणस्य तत्त्वतः कल्याणत्वात् । अत एवाह "लोकद्वय हितावहं " अनुबन्धस्य गुरुभक्तिसाध्यत्वादिति ॥
१ B तत्रश्रुतेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org