________________
प्राणायामवती दीपा न योगोत्थानवत्यलम् । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधविवर्जिता ॥ ५७ ॥ प्राणायामवती चतुर्थाङ्गभावतः, भावरेचकादिभावात् । दीपा चतुर्थी दृष्टिः। न योगोत्थानवती, तथाविधप्रशान्तवाहितालाभेन । अलमत्यर्थम् । तत्त्वश्रवणसंयुक्ता शुश्रूषाफलभावन । सूक्ष्मबोधविवजिता निपुणबोधरहितेत्यर्थः ॥
भावरेचकादिगुणमाह । प्राणेभ्योऽपि गुरुर्धर्मः सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थ न धर्म प्राणसंकटे ॥५०॥ पाणेभ्योऽपीन्द्रियादिभ्यो गुरुधर्मो महत्तर इत्यर्थः । सत्यामस्यामधिकृतदृष्टौ दीपायामसंशयम् । एतत्कुत इत्याह "प्राणांस्त्यजति धर्मार्थ" तत्त्वोत्सर्गप्रवृत्त्या "न धर्म प्राणसंकटे" त्यजति तत्वोत्सर्गप्रवृत्त्यैव ।। अत्र प्रतिबन्धनमाह। एक एव सुहृद्धर्मो मृतमप्यनुयाति यः। शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥ ५९॥ एक एव सुहृद्धर्मो नान्यः, तल्लक्षणयोगात् । तदाह "मृत. मप्यनुयाति यः" इति " शरीरेण समं नाशं" व्ययं " सर्वमन्यत्तु गच्छति " स्वजनादि ॥
इत्थं सदाशयोपेतस्तत्त्वश्रवणतत्परः ।
प्राणेभ्यः परमं धर्म बलादेव प्रपद्यते ॥६० ॥ इन्थमेवं सदाशयोपेतः संस्तत्त्वश्रवणतत्पर एतत्प्रधानः प्राणेभ्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org