________________
( ३२ ) इहैव व्यतिरेकमा । श्रुताभावे ऽपि भावेऽस्याः शुभभावप्रवृत्तितः। फलं कर्मक्षयाख्यं स्यात्परबोधनिबन्धनम् ॥ ५४॥ _श्रुताभावेऽपि श्रवणाभावेऽपि भावे ऽस्याः शुश्रूषायाः किमित्याह "शुभभावप्रवृत्तितः" तद्भावस्यैव शुभत्वात् ? " फलं कर्मक्षयाख्यं स्यात् " वचननामाण्येन । एतच परबोधनिबन्धनं प्रधानवोधकारणं, वचनप्रामाण्यादेव ।।
योगे ऽक्षेपगुणमाह । शुभयोगसमारम्भे न क्षेपोऽस्यां कदाचन । उपायकौशलं चापि चारु तद्विषयं भवेत् ॥ ५५ ॥
शुभयोगसमारम्भे तथाविधध्यानादौ न क्षेपो ऽस्यामधिकृतदृष्टी सत्यां कदाचन भवति । उपायकौशलं चापि तथाविधदेशाध्यासनादि चारु शोभनं तद्विषयं शुभयोगसमारम्भविपयं भवेदिति ॥
तथास्यामेव दृष्टावभ्युच्च यमाह । परिष्कारगतः प्रायो विधातोऽपि न विद्यते । अविघातश्च सावधपरिहारान्महोदयः ॥ ५६ ॥
परिष्कारगत उपकरणात इत्यर्थः। प्रायो वाहुल्येन । विधातो ऽपोच्छाप्रतिबन्धो न विद्यत अस्पो सत्यामिति । अविधातय किंभूतो भवतीत्याह "सावयपरिहारात् " प्रतिषिद्वपरिहारेण "महोदयः" अभ्युदयनिःश्रेयसहेतुरित्यर्थः ॥
उक्ता बला । सांगतं दीप्रामाह । ? 8 शुभभावत्वात् २ C स्यात्कदाचन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org