SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ( ३१ ) अवरापूर्वकं सर्वे गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥ ५१ ॥ 44 अत्वरापूर्वकमनाकुलमित्यर्थः । सर्व सामान्येन । किं तदित्याह गमनं " देवकुलादौ " कृत्यमेव वा " वन्दनादि " प्रणिधानसमायुक्तं " मनःप्रणिधानपुरःसरं " अपायपरिहारतः " दृष्ट्याद्यपायपरिहारेण || उक्तं दर्शनम् । अस्यैव शुश्रूषामाह । । कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा ॥ ५२ ॥ कान्तकान्तासमेतस्य कमनीयप्रियतमायुक्तस्य दिव्यगेयश्रुतौ यथा किंनरादिगेयश्रुतावित्यर्थः । यूनो वयःस्थस्य भवति शुश्रूषा श्रोतुमिच्छा तहाचरैव तथास्यां दृष्टौ व्यवस्थितस्य सतस्तत्त्वगोचरा तत्रविषयैव शुश्रूषा भवति ॥ इयं चैवंभूतेत्याहबोधाम्भः स्रोतसचैषा सिरातुल्या सतां मता । अभावे ऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् ।। ५३ ॥ atarataar aaiदकप्रवाहस्य चैषा शुश्रूषा सिरातुल्यावन्ध्याक्षयतहीजकल्पतया सतां मता मुनीनामिष्टा । अभावे ऽस्याः शुश्रूषायाः । किमित्याह " श्रुतं व्यर्थ " श्रमफलम् । किंवदित्याह असिरावनिकूपवत् १२ असिरावनौ पृथिव्यां कृपखननं, अतत्खनमेवात्फलत्वादिति || I 44 १ B omits B omits Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy