SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ (८३) क्षीणव्याधिर्यथा लोके व्याधिमुक्त इति स्थितः । भवरोग्येव तु तथा मुक्तस्तन्त्रेषु तत्क्षयात् ॥२०४ ॥ क्षीणव्याधिः पुरुषः । यथा लोकेऽविगानेन व्याधिमुक्त इति तत्तदभावेन स्थितो न स्थापनीयः । भवरोग्येव न मुख्यतद्भावेन तथा व्याधिमुक्तस्तन्त्रेषु स्थितः । तत्क्षयादिति भवरोगक्षयादित्यर्थः ।। एवं प्रकृतमभिधाय सर्वोपसंहारमाह । अनेकयोगशास्त्रेभ्यः संक्षेपेण समुद्धतः । दृष्टिभेदेन योगोऽयमात्मानुस्मृतये परः ॥ २०५॥ __ अनेकयोगशास्त्रेभ्यः पातञ्जलादिभ्यः संक्षेपेण समासेन समुद्धतस्तेभ्यः पृथकृतः, नवनीतमिव क्षीरादिति । केन क इत्याह " दृष्टिभेदेन" उक्तलक्षणेन “योगोऽयं " अधिकृत एव । किमर्थमित्याह । आत्मानुस्मृत्यर्थ परः प्रधानो योग इति ।। प्रयोजनान्तरमप्याह । कुलादियोगभेदेन चतुर्धा योगिनो यतः। अतः परोपकारोऽपि लेशतो न विरुध्यते ॥ २०६॥ कुलादियोगभेदेन गोत्रकुलप्रवृत्तचक्रनिष्पन्नयोगलक्षणेन चतुर्थी चतुःप्रकारा योगिनो यतः सामान्येन । अतः किमित्याह " परोपकारोऽपि" तथाविधकुलादियोग्यपेक्षया " लेशतो न विरुध्यते " मनागतोऽपि योगपक्षपातादिति भावात् ।। तदत्र। १B प्रस्तुत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy