________________
(८२)
योगिज्ञानं तु' योगिज्ञानमेव प्रमाणं चेदत्र । एतदाशंक्याह " तदवस्थान्तरं तु" योग्यवस्थान्तरमेव " तत्" योगिज्ञानम् । ततः किमित्येतदाशंक्याह "भ्रान्तमेतत्ल्यात्" योगिज्ञानं, "अन्यथा" अभ्रान्तत्वे ऽस्य । किमित्याह "सिद्धसाध्यता" अवस्थाभेदोपपत्तेरिति ॥
उक्तमानुषङ्गिकं प्रकृतं प्रस्तुमः । तच “सिद्धस्वरूपव्याधिमुक्तः पुमान् लोके " इत्याद्युपन्यासात् । तत्र । व्याधितस्तदभावो वा तदन्यो वा यथैव हि । व्याधिमुक्तो न सन्नीत्या कदाचिदुपपद्यते ॥ २०२ ॥
व्याधितः संजातव्याधिरेव, तदभावो वा तदन्यो वा व्याधितान्यो वा तत्पुत्रादिर्यथैव हि व्याधिमुक्तो न त्रयाणामेकोऽपि सन्नीत्या सन्न्यायेन कदाचिदुपपद्यत इति दृष्टान्तः ॥
दार्टान्तिकयोजनमाह । संसारी तदभावो वा तदन्यो वो तथैव हि । मुक्तोऽपि हन्त नो मुक्तो मुख्यवृत्त्येति तदिदः ॥२०॥
संसारी पुरुषः । तदभावो वा पुरुषाभावमात्रमेव । तदन्यो वै. कान्तलक्षणः । तथैव हि यथा दृष्टान्ते । किमित्याह " मुक्तो ऽपि हन्त नो मुक्तो मुख्यवृत्त्या " त्रयाणामपि तत्प्रवृत्तिनिमित्ताभावात् " इति तद्विदः " मुक्तविद इत्थमभिदधतीति ।।
कथं तर्हि मुक्तव्यवस्थेत्याह ।
? B omits २ A udds संसारी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org