SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ (२४ ) तदुपदर्शयन्नाहे चरमे पुद्गलावते क्षयश्वास्योपपद्यते । जीवानां लक्षणं तत्र यत एतदुदाहतम् ।। ३१ ॥ चरमे पुदलावते यथोदितलक्षणे क्षयश्चास्योपपद्यते भावमलस्य जीवानां लक्षणं तत्र चरमे पुद्गलावते यत एतदुदाहृतं वक्ष्यमाणमिति ।। यदुदाहृतं तदभिधातुमाहदुःखितेषु दयात्यन्तमद्देषो गुणवत्सु च । औचित्यात्सेवनं चैव सर्वत्रैवाविशेषतः ॥ ३२ ॥ दुःखितेषु शरीरादिना दुःखेन दयात्यन्तं सानुशयत्वमित्यर्थः । अद्वेषोऽमत्सरः । केष्वित्याह " गुणवत्सु च " विद्यादिगुणयुक्तेषु । औचित्यात्सेवनं चैव शास्त्रानुसारेण सर्वत्रैव दीनादावविशेषतः सामान्येन ॥ यतश्चैवमतःएवंविधस्य जीवस्य भद्रमूर्तेर्महात्मनः । शुभो निमित्तसंयोगो जायतेऽवञ्चकोदयात् ॥३३॥ एवंविधस्यानन्तरोदितलक्षणयोगिनो भद्रमूर्तः प्रियदर्शनस्य महात्मनः सवीर्ययोगेन । किमित्याह "शुभः" प्रशस्तः । क इत्याह " निमित्तसंयोगः" सद्योगादिसंयोगः सद्योगादीनामेव निःश्रेयस. साधननिमित्तत्वात् । जायते । कुत इत्याह " अवश्चकोदयात् " वक्ष्यमाणसमाधिविशेषोदयादित्यर्थः । १ A तदादर्शयन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy