SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥१४४॥ ज्ञायेरन्हेतुवादेनानुमानवादेन पदार्था यद्यतीन्द्रियाः सर्वज्ञादयः कालेनैतावता प्रास्तार्किकैः कृतः स्यात्तेषु निश्चयोऽवगम इति । न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् । मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ॥१४५॥ न चैतदेवं ययेन कारणेन तस्माच्छुष्कतर्कग्रहो महानतिरौद्रः । मिथ्याभिमानहेतुत्वाकारणाच्याज्य एव मुमुक्षुभिर्मोक्तुमिच्छुभिः ।। किं चग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसंगतः। मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत् ॥१४॥ ग्रहः सर्वत्र वस्तुनि तत्त्वेन परमार्थेन मुमुक्षूनामसंगतोऽयुक्तः । कुत इत्याह “मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः" प्रायोग्रहणं क्षायिकधर्मव्यवच्छेदार्थम् । किमनेन ग्रहेण तत् ? न किंचिदित्यर्थः ॥ यत एवम्तदत्र महतां वर्त्म समाश्रित्य विचक्षणैः। वर्तितव्यं यथान्यायं तदतिक्रमवर्जितैः ॥ १४७ ॥ तदत्र व्यतिकरे महतां वम समाश्रित्याङ्गीकृत्य विचक्षणैः पण्डितैर्वर्तित व्यं यथान्यायं तदतिक्रमवर्जितैर्महद्धर्मातिचाररहितैः ।। एतदेवाह१ B D प्रकारेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy