________________
परपीडेह सूक्ष्मापि वर्जनीया प्रयत्नतः। तेहत्तदुपकारेऽपि यतितव्यं सदैव हि ।।१४८॥
परपीडा परबाधेह लोके सूक्ष्माप्यास्तां महतीति । किमित्याह "वर्जनीया" परित्यक्तव्या "प्रयत्नतः” सूक्ष्माभोगेन । तद्वत्मयत्नत एव तदुपकारेऽनि यतितव्यमनुष्ठानद्वारेण सदैव हीति ।।
तथागुखो देवता विप्रा यतयश्च तपोधनाः । पूजनीया महात्मानः सुप्रयत्नेन चेतसा ॥१४९॥
गुरवो मातापितृप्रमुखाः, देवता सामान्येनैव, विप्रा द्विजाः, यतयश्च प्रबजिताश्च तपोधनाः तद्वन्तः पूजनीया महात्मानः सर्व एवैते यथार्हम् । कथमित्याह " मुश्यत्नेन चेतसा" आज्ञाप्रधानेनेत्यर्थः ।।
किं चपापवत्स्वपि चात्यन्तं स्वकर्मनिहतेष्वलम् । अनुकम्पैव सत्त्वेषु न्याय्या धर्मोऽयमुत्तमः ॥१५०॥
पापवत्स्वपि चात्यन्तं लुब्धकादिषु स्वकर्मनिहतेष्वलमत्यर्थमनुकम्पैव सत्त्वेषु न्याय्या न मत्सरो धर्मोऽयमुत्तमः कारणे कार्योपचारादिति ॥
उपसंहरनाहकृतमत्र प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना। तत्पुनः पञ्चमी तावद्योगदृष्टिमहोदया ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org