________________
( ७६ ) सर्वप्रकारेण " निवार्ण लभते परं" भावनिर्वाणमित्यर्थः॥
तत्रायं कीदृश इत्याह । व्याधिमुक्तः पुमान् लोके यादृशस्तादृशो ह्ययम् । नाभावो न चनो मुक्तो व्याधिनाव्याधितो न च।१८५/
व्याधिमुक्तो व्याधिपरिक्षीणः पुमान् याशो भवतीति तादृशो ह्ययं नितो नाभावः अध्यातदीपकल्पोपमो न च नो मुक्तो व्याधिना मुक्त एव भव्यत्वपरिक्षयेणाच्याधितो न च पूर्व तयातद्भावादिति ॥
अमुमेवार्थ स्पष्टयन्नाह । भव एव महाव्याधिर्जन्ममृत्युविकारखान। विचित्रमोहजननस्तीत्ररागादिवेदनः ॥ ८६ ॥
भवः संसार एव महाव्याधिः । किविशिष्ट इत्याह "जन्ममृत्यु. विकारवान् " जरायुपलक्षणमेतत् । विचित्रमोहजननो मिथ्यात्वोदय भावेन तीव्ररागादिवेदनः रूयाद्यभिष्वङ्गभावेन ॥ मुख्योऽयमात्मनो ऽनादिचित्रकर्मनिदानजः । तथानुभवसिद्धत्वात्सर्वप्राणभृतामिति ॥ १८७ ॥
मुख्यो निरुपचरितोऽयं भवव्याधिरात्मनो जीवस्य । किंभूत इत्याह "अनादिचित्रकर्मनिदानजः" द्रव्यभावभेदभिन्नकर्मबलोत्पन्न इत्यर्थः । कुत इत्याह " तथानुभवसिद्धत्वात् " जन्माउनुभवेन " सर्वप्राणभृतामिति" तिर्यप्रभृतीनामपि ॥
१ C सर्वाकारेण. २ B C omit व्याधि. ३ B ( marginal addition ) मिथ्यात्वोदयभावेन,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org