SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ( ४८ ) कारिणां प्रेक्षावतां प्रयासः प्रवृत्त्युत्कर्षः शुष्कतर्कस्याधिकृतस्य न चातीन्द्रियोऽर्थो गोचरो विषयः कचिदिति ॥ गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्यो परागादिसंवाद्यागमदर्शनात् ॥ ९९ ॥ गोचरस्तु गोचरः पुनरागमस्यैवातीन्द्रियोऽर्थः । कुत इत्याह ततस्तदुपलब्धितः " आगमादतीन्द्रियार्थोपलब्धितः । एतदेवाह चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात् " लौकिको ऽयमर्थ इति भावनीयम् ॥ उपसंहरन्नाह 66 66 एतत्प्रधानः सच्छ्राद्धः शीलवान् योगतत्परः । जानात्यतीन्द्रियानर्थीस्तथा चाह महामतिः ||१००|| " एतत्प्रधान इत्यागमप्रधानः सच्छ्राद्धः प्रातः शीलवान् परद्रोहविरतिमान, योगतत्परः सदा तदभियुक्तः, एवंभूतः सन् जानात्यतीन्द्रियानर्थान् धर्मादीन् । तथा चाह महामतिः पतञ्जलिः || किमित्याह आगमेनानुमानेन योगाभ्यासरमेन च । त्रिधा प्रकल्पयन्प्रज्ञा लभते तत्त्वमुत्तमम् ||१०|| आगमेनासवचनेन लक्षणेन । अनुमानेन लिङ्गाल्लिङ्गिज्ञानरूपेण योगाभ्यासरसेन च विहितानुष्ठानात्मकेन त्रिधा प्रकल्पयन्मज्ञामुक्तक्रमेणैव, अन्यथा हि नृत्य सिद्धेः । किमित्याह " लभते तत्त्वमुत्तमं " पापसंमोहनिवृत्त्या श्रुतादिभेदेन || अमुमेवार्थमाह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003007
Book TitleYogdrushti Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorL Suheli
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy