Page #1
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ३४
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।।
वि० सं० २०७१
उत्तरायणम्
सङ्कलनम् : कीर्तित्रयी
Page #2
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ३४
वि.सं. २०७१ दक्षिणायनम्
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुर्नन्दमवन-सत्कोऽयं नन्दतात् सुचिरम् ॥
सङ्कलनम् : कीर्तित्रयी
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ३४
सङ्कलनम् : कीर्तित्रयी ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥
वि.सं. २०७१, ई.सं. २०१५
मूल्यम् : रू. १००/
जालपुटसङ्केत:
email :
[email protected]
प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर
१२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष: 079-26622465, 09408687714
सम्पर्कसूत्रम् :
"विजयशीलचन्द्रसूरिः" C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 079-26574981 M. 9979852135
मुद्रणम् : 'क्रिष्ना ग्राफिक्स'
नारणपुरा जूना गाम, अमदावाद-३८००१३ दूरभाष : 079 - 27494393
Page #4
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
योग्येन योग्यसम्बन्धः सर्वथा सर्वदा भवेत् ।
भवेत्तत्राऽपि साफल्यं यदा सुज्ञोऽस्ति योजकः ॥ युक्तस्य यदि युक्तेन सह विनियोगः न स्यात्, तहि सत्प्राप्तिः शङ्कास्पदा भवेत् । शैक्षणिके सन्दर्भ इदं सविशेष विचार्यम् ।।
वस्तुतः, न कोऽपि शिक्षयति कमपि । शिक्षणं तु स्वयमेव ग्राह्यम् । येन केनाऽपि, बलात्कारेण शिक्षयितुं कृतो यत्नः, विकृतिं जनयति; न शिक्षयति ।
सुजैः शिक्षणकोविदैः सत्यं कथितं यद्, यो न शिक्षयति केवलं प्रेरयति स सर्वोत्तमः शिक्षकः । (One, who does not teach only inspires, is the best teacher.)
शिक्षकेण तु, यस्मिन् कस्मिन्नपि विषये, छात्रस्य रसवृत्तिं ज्ञात्वा, प्रोत्साहनं कार्यम् । तदनु, तत्रत्याम् उज्ज्वलां विकासकर्ती परम्परां, साम्प्रतं च विकास, सहैव बोधयन्, छात्रः समृद्धः कार्यः । एवं भवति सच्चारित्र्यसंवर्धनं, विवेकविकासः, प्रागल्भ्यं च । शिक्षकेण इदमेव कार्यं कार्यम् । परन्तु, साम्प्रते तन्त्रे, स्थितिः विषमैव, विषपूर्णा वा ।
गणनैव गुणाङ्कानां, व्यवहारे विशेषतः । उपेक्षा सद्गुणानां च, धनस्य गौरवं पुनः ॥ एवं, चारित्र्यनिर्माणे, नीतिमूल्यस्य रक्षणे ।
प्रश्नार्थः सद्विकासार्थं, निश्चिताऽवनतिस्स्मृता ॥ .' का मतिः?
अस्माकमेषा चिन्ता सर्वेषां चित्ते स्यात्, तया च, जागृतिश्च भवेदिति प्रार्थ्यते ।
छात्रविकासेन राज्यविकासः, राष्ट्रविकास: विश्वविकासश्चेति निश्चितं ज्ञात्वा, छात्रोन्नत्यर्थं प्रयतितव्यम्; इति शम्।
डॉ. वासुदेवः वि. पाठकः 'वागर्थः'
अहमदाबाद
Page #5
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
महात्मन
नन्दनवनकल्पतरोः त्रयस्त्रिंशी शाखा आमोदं पठिता । तत्र सर्वाः अपि रचनाः उत्कृष्टाः ।
डा. नारायणदाशस्य उद्धरणेभ्यः अवगम्यते यद् महाराणाप्रतापस्य वीरगाथायाः कर्तुः शिवप्रसादभारद्वाजमहाभागस्य काव्यशैली मनोज्ञा अस्ति इति ।
नारायणदाशस्यैव सिद्धार्थग्रन्थसमीक्षा उज्ज्वला ।
श्रीविजयकस्तूरसूरिभिः लिखिता "सीलपालणंमि सच्चवईए कहा" इति प्राकृतकथा अपि मह्यम् अतीव अरोचत ।
इति भवदीयः '' रवीन्द्रः
३३-तम्याः शाखायाः ६७-तमे पृष्ठे द्वितीयखण्डिकायां "पश्चात्तापविधुरा माद्री स्वमुखमपि दर्शयितुं नेच्छितवती इति दृष्टम् । इच्छत्याः क्तवतुरूपं इष्टवान् इत्यस्तीति श्रुतम् । (अत्र इच्छां करोति - इति - इच्छतीति नामधातोः क्तवत्वन्तस्य रूपमेतत् । - सं.)
मुनिधर्मकीर्तिविजयानाम् अभिनवप्रयोगकथायां कल्पतरो ७२-तमे पृष्ठे अन्तिमखण्डिकायाः द्वितीयवाक्ये शुद्धिकरणम् इति दृष्टम् । साधुरूपं तु शुद्धीकरणम् इति खलु ?
तेषामेव दृष्टिभेदः इति कथायां प्रथमवाक्ये प्रयत्नवन्तः इति दृष्टम् । प्रयततेः क्तवत्वन्तं प्रयतवान् इति श्रुतम् । (अत्र प्रयत्नशब्दस्य मतुप्-प्रत्ययान्तस्य रूपमेतत् । - सं.)
७५-तमे पृष्ठे एकान्तस्य रहस्यम् इति कथायाः अन्तिमवाक्ये "अस्माकं प्राप्स्यते'' इत्यस्य प्रयोगसाधुत्वं न च जाने ।
एको वाचकः
आदरणीयाः श्रीविजयशीलचन्द्रसूरीश्वराः,
सादरं नमो नमः ।
नन्दनवनकल्पतरोः द्वात्रिंशत्तमी शाखा पठिता । श्रीमुनिकल्याणकीर्तिविजयस्य "सिद्धार्थः (द्वितीयो भागः)" आन्तं पठितः । रचनाया अस्या भाषाशैली तरला-सरला च । जलवत् तरलतया प्रवहति खलु कथाप्रवाहः । वारं वारं पठनस्य इच्छा भवति । अनेके धन्यवादाः ।
महेश्वरः द्विवेदी
राजकोटस्थः ।
Page #6
--------------------------------------------------------------------------
________________
प्रास्ताविकम्......
शिक्षणमेव विचारयामस्तावत् ।
पूर्वं ह्यस्माकं देशे गुरुकुलेषु पाठशालासु च तादृशी शिक्षणव्यवस्थाऽऽसीद् यत्र विद्यार्थीनां बालकानां रसं रुचि स्वभावं परिस्थिति क्षमतां चेत्यादिकं सर्वमपि मनसिकृत्यैव शिक्षा दीयते स्म । न पुनरेकविधमेव सामान्यं शिक्षणकर्म सर्वेषामपि विद्यार्थिनां कृतेऽनुष्ठीयते स्म । ततश्च प्रत्येकं विद्यार्थी स्वीयरस - रुचि - क्षमताद्यानुसारं निजनिजेप्सिंतविषये निष्णातो भवितुमर्हति स्म । माता - पित्रोरप्यत्र विषये न काचिद् विप्रतिपत्तिरासीत् । यतस्तौ हि निजं बालकं गुरुकुले आचार्यस्य सांनिध्ये मुक्त्वा निश्चिन्ता भवन्ति स्म यद् - आचार्योऽस्मद्बालकं ह्युत्तममानवत्वेन, नागरिकत्वेन सामाजिकव्यक्तित्वेन च सर्वथा सन्नद्धं करिष्यति - इति, स च निजं जीवनं सुखेन निर्वोढुं सुतरां समर्थो भविष्यति - इति, यत्र कुत्राऽपि च क्षेत्रे स सफलो भविष्यत्येवेति च ।
एतद्विपरीततयाऽद्यत्वे तावत् पाश्चात्यशिक्षणपद्धतेः कुप्रभावेण प्रथमं तावत् तादृशानि गुरुकुलान्येव न सन्ति, प्रत्युत केवलमर्थोपार्जनरतानां वाणिज्यकारिणां व्यावसायिक्यः संस्थाः सञ्जाताः सन्त्यस्माकं देशस्य शालाः । अपवादभूतास्तु शाला निश्चप्रचं विद्यन्ते एव परं सर्वत्र दावानले प्रसृते एकस्य कूपस्य जलं किं वा कर्तुं शक्तम् ? एतासु च संस्थासु विद्यार्थिनां रस - रुचि - स्वभाव-परिस्थिति-क्षमताद्यं नैव विचार्यते, न वा तदनुसारं विद्यादानं क्रियते, प्रत्युत सर्वेषामपि कृते एकविध एव शिक्षणक्रमो निर्धार्यते यं पठित्वा बालकस्य मानवता नैव विकासं प्राप्नोति, नैतिकता चाऽपि नोन्नता भवेत्, क्षमता चाऽपि नैव वर्धेत, प्रत्युत तन्मनस्यधिकाधिकतया धनार्जनेच्छैव वर्धते । 'जीवने एकत्राऽपि क्वचित् क्षेत्रे मया साफल्यमौन्नत्यं वा प्राप्तव्य' मिति भावनाया बीजानि बालकस्य मनसि न कदाऽप्युप्यन्तेऽस्मच्छालासु शिक्षकैः परं सातत्येन व्यवसायलक्ष्या विषया अध्याप्य केवलं धनार्जनस्यैव बीजानि उप्यन्ते । तथैवाऽस्माकं महाविद्यालयानां विश्वविद्यालयानां च परिस्थितिं दृष्ट्वा तु किं कर्तव्यं ? हसनीयमुत रोदनीयमित्येव न ज्ञायते ।
I
अत्र विषये पाश्चात्यदेशेषु बहुत्राऽन्यत्राऽपि च देशेषु विश्वविद्यालयानां स्वरूपं सर्वथा प्रशस्यमस्ति । जर्मनीदेशे क्वचन विश्वविद्यालयेऽधीयानो युवक एकोऽस्मत्समीपमागत्य तत्रत्यां शिक्षणपद्धतिं वर्णितवान् - तत्र हि प्रत्येकं विद्याशाखानां कृते द्विशताधिकानि प्रकरणानि भवन्ति । प्रत्येकं प्रकरणानां कृते निश्चिता: गुणाङ्का भवन्ति, निश्चिताः प्राध्यापकाश्च भवन्ति । विद्यार्थी हि तेभ्यः प्रकरणेभ्यः कानिचिदपि प्रकरणानि निजनिजरुच्यनुसारं चेतुमर्हति, केवलं तेषां प्रकरणानां गुणाङ्काः सम्मील्य चतुःशतं स्युः । एतदर्थं च
5
Page #7
--------------------------------------------------------------------------
________________
तत्रत्याः प्राध्यापका अपि मार्गदर्शनं कुर्वन्ति । ततस्तत्तत्प्रकरणानामध्ययनार्थं तत्तत्प्राध्यापकानां वर्गा अपि भवन्ति, ते व्यक्तिगतरूपेणाऽपि मार्गदर्शनं तदध्यापनं च कुर्वन्ति, कक्ष्यायां वा निजगृहेषु वोद्यानेषु वाऽपि । न किमपि बन्धनं भवति तदर्थम् । यदा च स विषयो विद्यार्थिना सम्यगधीतो भवेत् तदा स तत्प्राध्यापकं ज्ञापयेत्, स च प्राध्यापको विद्यार्थिन: परिस्थित्यनुसारं लिखितां मौखिक प्रायोगिकीं वा परीक्षां कुर्यात्, तदनुसारं च गुणाङ्कानपि दद्यात् । ( एतत्सर्वमपि व्यक्तिगतरूपेणैव भवेत् न पुनरस्मद्विद्यालयेष्विव सामूहिकरूपेण ।) यदा च विद्यार्थिनश्चतुःशतं गुणाङ्काः लभ्येरन् तदा स स्नातकपदवीं लभेत । एतदर्थं च कालस्याऽपि न कोऽप्यवधिर्निश्चितो भवति । अतीव तेजस्वी विद्यार्थी वर्षेणैकेनाऽपि स्नातको भवेत्; कश्चन वर्षपञ्चकमपि पठित्वा स्नातको भवेत्, न काऽपि निश्चिता व्यवस्था । प्राध्यापकाः सर्वदाऽपि साहाय्यं कर्तुं पाठयितुं च सन्नद्धा भवन्ति । तेषां धनलोभोऽन्या वा काचन लालसा वा नैव भवति । फलतः सर्वेऽपि विद्यार्थिनो निजनिज-रस- रुचि - क्षमताद्यनुसारं विविधेषु क्षेत्रेषु निश्चप्रचं साफल्यं प्राप्नुवन्ति तेषां चित्ते सुषुप्ततया स्थिता सर्जनात्मकता प्रकटीभवति, परिवारस्य, समाजस्य देशस्य च तेनाऽवश्यं लाभो भवत्येव ।
किं भवतामेषा पद्धतिरनुसरणीयतयोचिता प्रतिभाति वा ? कृपया विचारयन्तु प्रचारयन्तु चैतत् -
इति शम् ॥
कीर्तित्रयी
वैशाखी पूर्णिमा, २०७१
लीमडीनगरम् (पूर्वगूर्जरम्)
लेखकेषु सूचनाः
१. पत्रस्यैकस्यैव पार्श्वे सुवाच्यैरक्षरैः शिरोरेखामण्डितैश्चैव लिखित्वा लेखः प्रेषणीयः ।
२. Xerox प्रति सर्वथा न परिशीलयिष्यते, तदर्थं च सूचनाऽपि नैव दास्यते ।
३. Computer-composed prints स्वीकरिष्यते ।
४. अन्यत्र सामयिकेषु समकालीनपुस्तकेषु वाऽपि प्रकाशितं प्रकाश्यमानं वा साहित्यं सर्वथा न प्रेषणीयं कृपया । यदि प्रेषयिष्यते तदा तन्नैव प्रकाशयिष्यते नाऽपि प्रतिप्रेषयिष्यते, तदर्थं च पर्यनुयोगोऽपि नैव करिष्यते ।
लेखप्रकाशने सङ्कलनकर्तॄणां निर्णय एवाऽन्तिमः ।
५.
6
Page #8
--------------------------------------------------------------------------
________________
पृष्ठम्
. कृतिः परमात्म-प्रार्थना श्रीनेमिसौभाग्यमहाकाव्यम् सतीसूक्तषोडशिका कीटिकोष्टं प्रसूता सादरं मे नमो नमः चाटुशास्त्रोपदेशः कवितात्रयी
अनुक्रमः
कर्ता आ. विजयहेमचन्द्रसूरिः आ. विजयहेमचन्द्रसूरिः स्व. आ. श्रीविजयधर्मधुरन्धरसूरिः स्व. आ. श्रीविजयधर्मधुरन्धरसूरिः प्रो. कमलेशकुमार छ. चोक्सी म.म. देवर्षि कलानाथ शास्त्री प्रा. कौशल तिवारी मुनिन्यायरत्नविजयः डॉ. वासुदेवः वि. पाठक
अन्तरालापाः
अन्तरालापाः
मुनिकल्याणकीर्तिविजयः डॉ. आचार्य रामकिशोर मिश्रः मुनिधर्मकीर्तिविजयः
देवर्षि कलानाथ शास्त्री
आस्वादः स्मृतिः
वैराग्यसत्सङ्गाभ्यां भगवत्प्राप्तिर्भविष्यति पत्रम् विनोदचर्चा
नामकरणेऽपि नो विदेशदासता ग्रन्थसमीक्षा
'शब्दप्रभेदः' (शब्दभेदप्रकाशः) मर्म गभीरम् अनुवादः
शान्तिः दुःखम् काव्यानुवादः नास्ति कोऽपि हेतुः अद्भुतं जगत् !!
डॉ. रूपनारायण पाण्डेयः मुनिकल्याणकीर्तिविजयः
मुनिधर्मकीर्तिविजयः मुनिधर्मकीर्तिविजयः
डॉ. किशोरचन्द्र पाठकः मुनिकल्याणकीर्तिविजयः
Page #9
--------------------------------------------------------------------------
________________
अनुक्रमः
कृतिः
कर्ता
कथा
कथं पात्रं न भ्रियते ? विरलानि संस्कारमूल्यानि योग्यता
गुरोर्निर्देशः पत्र-चर्चा मर्म-नर्म प्राकृतविभागः - कथा
पाइयविन्नाणकहा
मुनिधर्मकीर्तिविजयः मुनिः अक्षयरत्नविजयः सा. धृतियशाश्रीः सा. दृष्टियशाश्रीः प्रो. कमलेशकुमार छ. चोकसी कीर्तित्रयी
आ. विजयकस्तूरसूरिः
आर्थिकं सौजन्यम् शासनसम्राट्-समुदायवर्तिन्याः साध्वीश्रीराजप्रज्ञाश्रियः शिष्यायाः सा. श्रीबोधिरत्नाश्रियः संयमपर्यायस्य पञ्चविंशतेर्वर्षाणां पूर्णत्वस्याऽनुमोदनार्थं तदीयसंसारिस्वजनवर्गेण नन्दनवनकल्पतरोश्चतुस्त्रिंश्याः शाखायाः प्रकाशने आर्थिकः सहयोगः कृतोऽस्ति । तदर्थं बहुशो धन्यवादाः ॥
Page #10
--------------------------------------------------------------------------
________________
परमात्म-प्रार्थना
आ. विजयहेमचन्द्रसूरिः
अस्मिन् भवाम्बुधौ नाथ !, मज्जतो मे दयानिधे ! । यानपात्रं त्वमेवासि, तस्मात् तारय तारय ॥१॥ त्वया विना न लोकेऽस्मिन्, त्राताऽन्यो मम विद्यते । तन्मयि करुणां कृत्वा, नाथ ! तारय तारय ॥२॥ शरण्यं त्वत्पदाम्भोज, मया नाथ ! समाश्रितम् । नाऽतस्त्वया विधातव्या, मय्युपेक्षा कदाचन ॥३॥ त्वत्पादोपासनेनैव, प्राप्तवानियती स्थितिम् । अतो मां तावकं मत्वा, तारयाऽस्माद् भवाम्बुधः ॥४॥ नश्यन्ति जन्मिनां नाथ ! जन्मकोट्यर्जितान्यपि । पापानि त्वत्प्रसादेन, तमांसीव विवस्वता ॥५॥ त्रिजगज्जन्तुभावाँस्त्वं, जानासीश ! कराम्बुवत् । तदग्रे किं मया वाच्यं, चरित्रं मे त्रपाकरम् ॥६॥ नेत्रे निमील्य ध्यानैकचित्तो यावद् विचिन्तये । त्वदन्यस्तारको नाथ ! नास्ति मे भुवनत्रये ॥७॥ निर्गुणोऽपि त्वया स्वामिन् !, तार्यः संसारसागरात् । निर्गुणः सगुणो वेति, महान्तश्चिन्तयन्ति न ॥८॥
Page #11
--------------------------------------------------------------------------
________________
धन्योऽहं यन्मया नाथ ! कर्मव्याधिविनाशकः । सच्चिदानन्दसम्पूर्णः, सुकृतादीश ! वीक्षितः ॥४॥ कृतार्थं जीवनं मेऽद्य, सफलं च जनुर्मम । नेत्रे इमे पवित्रे च, यल्लब्धं तव दर्शनम् ॥१०॥ सत्यपि त्वादृशे नाथे, तारके त्रिजगत्पतौ । नो चेद् भवाम्बुधेस्तारस्तत्र किं तव गौरवम् ? ॥११॥ अनेके तारिता गथ ! जनाः संसारसागरात् । मम तारण एवाऽद्यः कथङ्कारं विलम्बसे ? ॥१२॥ राजसे मुक्तिधाम्नि त्वं, मज्जामीश ! भवाम्बुधौ । महात्मनां न तद्योग्य-माश्रितोपेक्षणं प्रभो ! ॥१३॥ अहर्निशं व्यथन्ते मां, रागद्वेषादयोऽरयः । साहाय्यं तद्विधेयं मे, त्वया नाथेन सत्वरम् ॥१४॥ नाथ ! प्रतिप्रदेशं ते, सन्त्यनन्ता गुणा विभो । कथमेको गुणस्तेभ्य-स्त्वया मे न वितीर्यते ॥१५॥ अद्य श्वो वा भवाम्भोधे-स्तारकोऽसि त्वमेव मे । कर्तव्येऽवश्यकर्तव्ये, कालक्षेपो न युज्यते ॥१६॥ देवाधिदेव ! सर्वज्ञ !, त्रैलोक्यार्चितपत्कज !। . करुणाम्भोनिधे ! स्वामिन् !, नाथ ! तारय तारय ॥१७॥ अपारेऽस्मिन् भवाम्भोधौ, भ्रान्तोऽनादेरनेहसः । विना त्वां शरणं नास्ति, तन्मां तारय तारय ॥१८॥ जिनाधीश ! जगन्नाथ !, जगद्धितपरायण ! त्वच्चरणाम्बुजद्वन्द्वे, हृद्भुङ्गो मे निलीयताम् ॥१९॥ सर्वं समीहितं सद्यस्त्वत्सेवातः प्रसिद्ध्यति । दूरे प्रयाति दुर्भाग्यं, सद्भाग्यं च प्रसर्पति ॥२०॥ सुखदुःखे अविज्ञाय, कृतो यलो निरन्तरम् । स सर्वो विफलो जातः सुखं तत्त्वं निबोधय ॥२१॥ शिरोमणीयते नाथ ! त्वदाज्ञा यस्य जन्मिनः । अपारोऽपि भवाम्भोधिस्तस्येश ! गोष्पदीयते ॥२२॥ भवाब्धौ मज्जतां नाथ !, त्वदाज्ञा ननु नाव्यति । तदाश्रिता जना नूनं, निस्तरन्ति नसंशयम् ॥२३॥
Page #12
--------------------------------------------------------------------------
________________
भवाब्धौ भ्रमतां नाथ, प्राप्तं यत्तव शासनम् । तेन मन्ये निजं धन्यं, कूतपुण्यं जगत्पते ! ॥२४॥ जगदर्घ्यं जिन ! त्वां ये, नमन्त्येकाग्रमानसाः । ते धन्या वन्दनीयाश्च, पुण्यभाजः सुरैरपि ॥२५॥ भवाटवीभ्रमद्भव्यशुद्धमार्गप्ररूपिणे । करुणाम्भोधये तुभ्यं, नमः श्रीपरमात्मने ॥२६॥ सुरासुरनमस्याय, विश्वानन्दविधायिने । कर्मामयविमुक्ताय नमः श्रीपरमात्मने ॥२७॥ त्वत्समो नाऽपरो दाता, मदन्यो नैव निर्धनः विधाय करुणां तस्माद्, वाञ्छितार्थं समर्पय ॥२८॥ पुण्यं त्वच्छासनं नाथ ! सर्वसौख्यैककारणम् । कलौ दुरापं सम्प्राप्तं, तद्भाग्यं मे महत्तरम् ॥२९॥ प्रार्थये हे जगद्वन्द्य !, भूयो भूयो दयार्णव !। त्वदीयं शासनं मेऽस्तु, सदा जन्मनि जन्मनि ॥३०॥ यज्ज्ञानदर्पणे सर्वं, विश्वं प्रतिफलत्यदः ।। स नाथ शरणं मे स्यात्, स्वप्ने वा जागरेऽपि च ॥३१॥ त्वत्पादपजं भक्त्या, ये नमन्ति नरोत्तमाः । न भ्रमन्ति भवाटव्यां; ते कदाचिज्जिनोत्तम ! ॥३२॥ . वेदाक्षिणाक्षिमितसंवति(२०२४) पादलिप्ते, शत्रुञ्जयेशऋषभेश्वरसुप्रसादात् । श्रीनेमिसूरिविजयामृतदेवशिष्ट्या, द्वात्रिंशिकां विहितवान् मुनिहेमचन्द्रः ॥३३॥
wwwwwwww
Page #13
--------------------------------------------------------------------------
________________
श्रीनेमिसौभाग्यमहाकाव्यम्
आ. विजयहेमचन्द्रसूरिः
॥ अथ चतुर्थः सर्गः ॥ अथ स्वहस्तादृतसाधुवेषो,
. वैराग्यरङ्गोल्लसितात्मवृत्तिः । श्रीवृद्धिचन्द्राहगुरोः प्रसाद,
वाञ्छन्नुपेयाय तदंहिमूले. ॥१॥ (उपजातिः) प्रसाददृष्ट्या गुरुणा स दृष्टः,
सम्भाषितश्चापि सुहृद्यवाचा । तदीयसत्सव्यकराजनिर्यद्
वासप्रचूर्णाञ्चितशीर्षकोऽभूत् ॥२॥ चारित्रमार्गे स्वसुतं विदित्वा,
सम्प्रस्थितं चन्द्रयुतः स लक्ष्मीः । न्याय्यं विदन् तद्धृदयेन किन्तु,
जज्ञे यियासुर्व्यवहारतो हि ॥३॥ इच्छन्न शक्नोति जनो विधातुं,
___करोति चेच्छारहितोऽपि कृत्यम् । यतः स विश्वेऽतुलितप्रभावो
राजेव भाति व्यवहार एव ॥४॥
Page #14
--------------------------------------------------------------------------
________________
तमेव संश्रित्य युतो हि लक्ष्मी
चन्द्रः स्त्रिया भावपुरे समागात् । न न्याययुक्ता निजसूनुदीक्षे
त्येवं जगौ न्यायगृहं प्रविश्य ॥५॥ न्यायैकनिष्ठो मगनाभिधान
स्तत्राऽभवद् विश्वसनीयवृत्तः । श्रीनेमिपाचे स्वयमभ्युपेत्य,
परीक्षयामास बहुप्रकारैः ॥६॥ सोवाच रे किं विहितं त्वयेद
___ मज़ोचितं कर्म विचक्षणेन ? । जानासि किं नो ह्यविचारितस्य,
कार्यस्य जायेत कटुर्विपाकः ? ॥७॥ विचार्य्य तस्मादधुनाऽप्यमुष्मात्,
__ त्वं साहसाद् वत्स ! विराममेहि । यथा भवेद् भाविनि ते न काले,
दुःखोद्भवः कारणमन्तरेण ॥८॥ नैयायिकस्येति निशम्य वाचं,
जगाद नेमिश्रमणस्तदानीम् । संसारदुःखौघजिहीर्षयैष
___ आप्तो मया संयम आत्मबुद्ध्या ॥९॥ त्यक्ष्यामि तलैव कदापि याव
ज्जीवं गृहीतं शुचिसंयमं तम् । विश्वे विशीर्यंत न जातु रागो,
___ माञ्जिष्ठिकः सूर्यकरैः सहनैः ॥१०॥ आलम्ब्य तल्यायपथं यदिष्टं,
स्यात्तद् यथेच्छं विदधातु देवः । अस्मादृशां स्वात्महितोद्यताना,
कस्माद्यं पापमृते भवेऽस्मिन् ॥११॥
Page #15
--------------------------------------------------------------------------
________________
प्रगल्भमार्ण्य वचस्तदीय
मुदीरितं निर्भयमित्युदात्तम् । विरक्तभावं हृदि निश्चिकाय,
___शुद्धं मुनायकूदस्य विज्ञः ॥१२॥ जिज्ञासमानं परिणाममस्य,
तत्तातलक्ष्मीन्दुमिदं न्यगादीत् । नाऽऽपाततः किन्तु हृदो विरक्ति
स्त्वदीयसूनोरिह नाऽस्ति शङ्का ॥१३॥ मोहाभिभूता जननी तदीया,
तत्पार्धमागत्य भृशं रुरोद । बभाण मां त्वज्जननीं विहाय,
न युज्यते प्रवजितुं त्वयाऽङ्ग ! ॥१४॥ दत्वा जनिं त्वामपुषं स्वपोष
मेतावती प्रापितवत्यवस्थाम् । त्वन्मातरं तोषयसीह नो चे
देतादृशीं तत्तव साम्प्रतं किम् ? ॥१५॥ श्रुत्वेति मातुर्वचनं मनाङ् न,
गृहीतमार्गादभवच्च्युतः सः। . विभावयन् किन्तु भवस्वरूप,
तस्मिन् विशेषेण दृढादरोऽभूत् ॥१६॥ गिरा चचक्षे प्रियया प्रसूं स, .
मा गाः शुचं प्राकृतमर्त्यवत् त्वम् । त्वया तु धर्मैकधियाऽधुनाऽहं,
सत्संयमे सक्तमना विधेयः ॥१७॥ उत्पद्यते जन्तुरिहैक एव,
देहं विहायैकक एव याति । ममाऽयमस्याऽहमिति प्रमादात्
प्राप्नोति दुःखं हृदि मन्यमानः ॥१८॥
Page #16
--------------------------------------------------------------------------
________________
सन्ध्याभ्ररागप्रतिमो हि लोके,
निरीक्ष्यतेऽस्मिन् स्वजनानुरागः । विरूपतां याति प्रतिक्षणं यः,
काऽऽस्था सतां तत्र विनाशशीले ? ॥१९॥ विमुच्य मोहं तत एव पूज्ये !,
___ अनुज्ञापय द्राङ् मम संयमाय । शुभाशिष चाऽर्पय मे प्रसद्य,
यतोऽद्यतः स्वस्थमना भवेयम् ॥२०॥ स्थिरत्वमित्यात्मभुवोऽवगत्य,
___ स्नेहं जहौ तद्विषयं कथञ्चित् । . दधौ च चित्ते परमां प्रसत्तिं,
___ सुतः स्वकीयोऽजनि संयतो यत् ॥२१॥ निजं पुरं प्रस्थितयोहि पित्रोः
. प्राप्यातिहर्षं स्तुतयोर्जनौधैः । स्वाध्यायमग्नो विनयेन नम्रः,
- सत्प्रीतिपात्रं भवति स्म नेमिः ॥२२॥ स पाठकाच्छ्रीमणिशङ्कराऽऽख्यात्,
प्रारब्धवान् व्याकरणादिपाठम् । जग्राह विद्यां प्रथमोदबिन्दु,
महीव सच्छास्त्रविशुद्धबोधाम् ॥२३॥ ज्येष्ठस्थितिर्भावपुरे स्वकीया
ऽऽद्याऽभूत् सह श्रीगुरुणा महद्धौ । उपादिशत्तत्र गुरुमहीयान्
जैनागमं भव्यजनेभ्य इद्धम् ॥२४॥ इयेष सोऽभ्यासरतोऽपि चित्ते,
व्याख्यानतो बोधयितुं मनुष्यान् । प्रागाभिधानं दरबारयुक्तं,
पुरो निवेश्याऽभ्यसनं ततान ॥२५॥
Page #17
--------------------------------------------------------------------------
________________
उवाच चैनं मुनि नेमनामा,
भद्राऽऽगते पर्वणि वार्षिकाऽऽकें । श्रोतुं न सम्यक् प्रभविष्यसि त्वं,
जनप्रवादेन हि कल्पसूत्रम् ॥२६॥ अतः स्थिरं चित्तमलं विधाय,
____ मत्तोऽधुनाऽऽकर्णय कल्पसूत्रम् । कृत्वेति तं श्रावकमुत्सुकं स,
व्याख्यातुमारब्ध सुमुक्तकण्ठम् ॥२७॥ कार्यप्रसङ्गेन ययौ कदाचिद्,
___ रहःस्थले तत्र गुरुस्तदीयः । अलक्षितस्तेन निशम्य तस्य,
वाचः पटुत्वं नितरां तुतोष ॥२८॥ ... भव्याच्छभावाम्बुधिवृद्धिचन्द्रे,
दुर्भद्यकर्मादिविभेदवजे । समागते पर्वणि वार्षिके तान्,
___गुरुर्जगादाऽमरचन्द्रमुख्यान् ॥२९॥ भो भो ! दिने श्चो भवतां समझें,
नेमोऽयमारव्यास्यति कल्पसूत्रम् । आश्चर्ययुक्तान् पुनराह वीक्ष्य,
यथार्थमारव्यामि न धत्त शङ्काम् ॥३०॥ गुरुस्तुरीये दिवसेऽथ वाग्मि
नैकेन साकं मुनिना सभायाम् । स्वीयोत्तरीयं परिधाप्य नूलं,
सम्प्रेषयामास गभीरवृत्तिः ॥३१॥ व्याख्यानमद्याऽस्ति मयाऽर्पणीय
मेवं न जानन् परिषद्यगात् सः । व्याख्याय पूर्व मुनिनाऽथ किञ्चि
दाज्ञापितो नेममुनिस्ततोऽभूत् ॥३२॥
Page #18
--------------------------------------------------------------------------
________________
.
आज्ञप्तमेतद् भवता मुने ! कि
मारव्यायतां सम्प्रति किं करिष्ये ? मुनिर्जगौ वेद्मि परं न किञ्चिद्
गुर्वाज्ञयैवेदमकुर्वि कार्यम् ॥३३॥ गुरोर्निदेशं शिरसाऽवधार्य,
व्याख्यातमेतेन सुचारुरीत्या । प्राशंसि लोकैः पुरतो गुरोस्तद्,
द्वारं शुभारम्भ इहाऽस्ति सिद्धेः ॥३४॥ अध्यैष्ट विज्ञानमणिशङ्कराऽऽख्यात,
स चन्द्रिकाव्याकरणञ्च काव्यम् । न किन्तु तृप्तिं मतिराप तस्य,
जिज्ञासमानस्य महामहान् ॥३५॥ कथाप्रसङ्गे गुरुवृद्धिचन्द्रः
स्वीयान् जगाद श्रमणान् निशायाम् । न पाणिनीयं बहुलाच्च काला
. दधीतवान् व्याकरणं हि कोऽपि ॥३६॥ अतः पठेत् कोऽपि मुनिर्भवत्सु,
____ तन्मे मनस्तयधिकं प्रसीदेत् । गुरुक्तमेतद्धृदि सम्प्रधार्य,
___पाठाय तस्याऽऽदृतनिश्चयोऽभूत् ॥३७॥ अन्वेषणात्तत्र पुरे समन्ता
दवापि भानुः किल शङ्करान्तः । प्राचार्य आसीत् स तु राजकीये,
विद्यालये विज्ञतमस्तदानीम् ॥३८॥ अथ प्रशस्ते दिवसे स नेमः,
प्रारब्धवान् व्याकरणं ततो ज्ञात् । एकाग्रचित्तेन सदा पठन् स,
मनीषिणश्चित्तमलं जिगाय ॥३९॥
Page #19
--------------------------------------------------------------------------
________________
॥ अथ पञ्चमः सर्गः ॥ पुण्योदयपुरुषार्थ-द्वययोगात् प्राप्य संयमं वय॑म् । क्षुधितस्य मिष्टभोजन-मिव सोऽत्यन्तं मुदं प्रययौ ॥१॥ ग्रहणासेवनशिक्षा, गुरुसेवालीनमानसोऽधिययौ । संयमयोगालिखिला-निव स हि विदधे पुराभ्यस्तान् ॥२॥ प्रथमां चातुर्मासी, निजगुरुणा सह सोऽकरोद्धि भावपुरे । विनयविवेकादिगुणै-तिश्च गुरोः कृपापात्रम् ॥३॥ सिद्धान्तचन्द्रिकाव्यं, यो व्याकरणं पपाठ यत्नेन । बुधमणिशङ्कर-रेवाशङ्करबुधसन्निधौ तरसा ॥४॥ तबुद्धौ बुधकथिता, भावाः के तैलबिन्दुवत्प्रसूताः । परमां प्रीतिमुपागात्, तद् दृष्ट्वा शास्त्रिणां चित्तम् ॥५॥ प्राप्याऽतर्कितमपि यः, स्वगुरुनिदेशं ददावसंक्षुब्धः । पर्षद्यपि सुमहत्यां, व्याख्यानं कल्पसूत्रस्य ॥६॥ निजशिष्यो यदि कोऽपि, प्राज्ञः सिद्धान्तकौमुदी हि पठेत् । रम्यं तदेति बाढं, गुरुरनवरतं विचचार हृदि ॥७॥ ज्ञात्वा तदभिप्रायं, गुरोविनीतोऽवदत् स नेममुनिः । स्यायदि भवतामाज्ञा गुरो ! पठेयं च.तां प्रेम्णा ॥८॥ प्रीतो गुरुरिति वचसा, तस्मै प्रददौ शुभाशिषो बह्वीः । को नहि तुष्येत्स्वमनो-नुसारिणी गां निशम्य जनः ? ॥९॥ बुधभानुशङ्कारव्य-स्तत्राऽऽसीद् राजपण्डितो मुख्यः । तत्पाचे शुभ दिवसे, प्रारेभे कौमुदी स मुदा ॥१०॥ कौमुद्याः शास्त्रार्था-नवधार्य यथाश्रुतान् स गुरुवदनात् । अस्खलितं श्वो दिवसे, सर्वानश्रावयत् स गुरुम् ॥११॥ नाथालालश्चकितो-ऽप्यधीत्य काश्यां समागतो विद्वान् । यद्वाग्धारां वादे, श्रुत्वाऽस्खलितप्रचारां द्राक् ॥१२॥ काव्यं रघुवंशाख्यं, किरातकाव्यं च सोऽपठद् धीमान् । अपि वत्सरपर्याये, सतताध्ययनैकरतबुद्धिः ॥१३॥ प्रादुरभूत्तद्देहे- सातोदयतो ज्वरो महास्निग्धः । अपि वत्सरे व्यतीते, नोपायशतैर्व्यपेतः सः ॥१४॥
१. कं-जलम्, तस्मिन् ॥
Page #20
--------------------------------------------------------------------------
________________
तेनाऽभ्यासे विघ्नः, प्रवर्तमाने ह्युपस्थितः प्रबलः चिन्ताक्लान्तं चित्तं, ततोऽभवन्नेमविजयस्य ॥१५॥ अनभ्यसनखिन्नहृदं, पूज्यश्रीवृद्धिचन्द्रगुरुवर्य्यः । समबोधयन्मधुरया, शिरीषमृद्धया गिरा तमिति ॥ १६ ॥ मा खिद्यस्व मुने ! त्वं, खेदेन हि नाशमेति वरबुद्धिः । झटिति स्वस्थो भूत्वा पुनरपि पाठं विधाताऽसि ॥१७॥ दीर्घज्वरोष्मवशत- स्तन्त्रे मन्दतेजसे जाते । आम्ररसव्यापृत्या, क्रमशः स्फीततेजसेऽभवताम् ॥१८॥ कतिभिर्मुनिभिः सार्द्धं, गुर्वाज्ञातो विहृत्य जैनपुरीम् । अगमत् पंन्यासवर्य्य-प्रतापविजयस्य सान्निध्ये ॥१९॥ हेलोपाश्रयमध्ये, तदा स आसीन्मुनीश्वरैः परितः । राजन्नार्हतधर्म-प्रभावकः श्रुतवयःस्थविरः ॥२०॥ तत्पार्श्वे विधिपूर्वं, योगोद्वहनं विधाय शुभदिवसे । 'वर्य्योत्सवेन जगृहे, पुण्योपस्थापनां स ततः ॥२१॥ अहम्मदावादपुरे, चैत्यावलिराजिते पुरप्रवरे । धर्मादयजनाकीर्णे, कञ्चित्कालं स्थितिं कृतवान् ॥२२॥ श्रीहठीभाई - वाटिकायां श्रीधर्मनाथजिनराजम् । श्रीजगवल्लभपार्थं, मूलेवापार्श्वनाथञ्च ॥२३॥ श्रीचिन्तामणिपार्थं, भाभापाश्च तथा च बीरविभुम् । गांधीमार्गस्थितं च, दर्शं दर्शं मुदं यायात् ॥ २४॥ झरिवाडमध्ये, डोशीवाडाप्रतोलिकामध्ये । रम्या जिनवरमूर्ती-र्दृष्ट्वा न हि को मुदं यायात् ? ॥२५॥ गुणरत्नरोहणगिरीन्, स्वाध्यायतपः क्रियासु संलीनान् । वन्दित्वा च मिलित्वा, पूज्यान् प्रापत् परानन्दम् ॥२६॥ माघञ्च नैषधीयं, काव्यं व्युत्पत्तिसाधकं प्रवरम् । पेठे पण्डितसविधे, कौमुद्याः शेषभागथ ॥२७॥ स्वीयं समाप्य कार्यं, भावद्रङ्गं समागते शिष्ये । हर्षाधिक्याद् गुरवो, व्यतरन् पुण्याशिषः प्रचुराः ॥२८॥ पूज्यगणिमुक्तिविजया, अभवन् प्रौढप्रतापधामानः । ये जिनशासनराज्यं, निपुणतयाऽशासनच्छधियः ॥२९॥
११
Page #21
--------------------------------------------------------------------------
________________
१. वैशाख
तच्छिष्यदानविजया-स्तर्फे शब्दे च लब्धवैदुष्याः । अतिसाररोगरुग्णाः, समागताः वृद्धिगुरुपार्श्वे ॥३०॥ उचितौषधसेवनतो, वैयावृत्येन साधुवर्गस्य । भक्त्या श्राद्धगणस्य च, ते त्वरितं नीरुजो सञ्जाताः ॥३१॥ श्रीपादलिप्तनगरे, प्रारेभे तदुपदेशतो येका । श्रमणाभ्यासाय शस्या, संस्कृतपाठस्य वरशाला ॥३२॥ तत्र मुनिदानविजया-ग्रहेण गुर्वाज्ञया च मुनिनेमः । समुपागतश्च तेन, वेगवती साऽभवच्छाला ॥३३॥ तत्र हि नानाशास्त्राभ्यासं कुर्वंश्च कारयन् प्रीत्या । कालः कियान् गमित इति, कथमपि न ज्ञातवान् नेमः ॥३४॥ इतश्च भावद्रङ्गे, विराजितः पूज्यवृद्धिचन्द्रगुरुः । आयुः परिहाण्या किल, स्वरलञ्चकार समाधियुतः ॥ ३५ ॥ आकर्ण्य वृत्तमेतद्, दारुणदुःखप्रदं मुनिर्नेमः । किंकर्तव्यविमूढः क्षणमेकं मूर्च्छितो जातः ॥३६॥ ग्रर्हवेदैर्नवविर्धुमिते(१९४९), वर्षे रार्धसितसप्तमीदिवसे । अरिहंत-सिद्ध-साहू- मन्त्रं ध्यायन् गतः स्वर्गम् ॥३७॥ गुरुविरहानलदग्धा, भावनगरवासिनो हि भक्तजनाः । महता यत्नेन मनः- समाधिमासादयन्नूनम् ॥३८॥ निजगुरुवर्यवियोगाद्, यूथच्युतहरिणशाववत् खिन्नः । जलनिर्गतमीन इव, न रतिं कुत्राऽपि लेभे सः ॥३९॥ वदति च रे दुर्दैव ! तवाऽपराद्धं मया हि किं ? येन । इदमतिदुःसहदुःखं, मयि क्षिपन् लज्जसे नैव ॥४०॥
अथ किं कुर्वे ? क्व च वा, गच्छामि ? वदामि कस्य वा पुरतः ? । शरणविहीनस्य हहा ! -ऽऽकस्मिक दुःखौघ आपतितः ॥४१॥
पूज्य गुरो ! इति पदतो, भक्त्या वक्ष्यामि कं मधुरवाचा ? । सम्प्रति वक्ष्यति को मां रे नेमेत्याप्तवचनेन ॥४२॥
कः पाठयिष्यति च मां, सेविष्ये कस्य पादयुगलं वा ? । शिरसि न्यस्य करं स्वं, को दास्यत्याशिषो मेऽन्यः ? ॥ ४३ ॥ इति गुरुविरहार्त्तं तं प्रियवाण्याऽबोधयन्मुनिर्दानः | अन्तःखिन्नोऽपि बाढं, कथमप्यालम्ब्य सद्धैर्यम् ॥४४॥
१२
Page #22
--------------------------------------------------------------------------
________________
भ्रातः किं शोचसि ? त्यज शोकं हृत्समाधिमाधत्स्व ।
ध्रुवमरणं जातस्ये - त्यागमवचनं च संस्मरतात् ॥४५॥ को नाम जगति शक्तो, मृत्युमुखाद् रक्षितुं जनं स्वीयम् ? । श्री तीर्थकृत्समा अपि तं नूनं नाऽतिवर्तन्ते ॥४६॥
पूज्या गुरवस्तु पुनः, संयममाराध्य निर्मलं सुचिरम् । उपदिश्य भव्यलोकान्, निजजननं सार्थकं चक्रुः ॥४७॥ अथ कार्यमेकमेवा-ऽस्माकं न्यायादिशास्त्रमभ्यस्य । प्राप्याऽतुलवैदुष्यं, तत्पट्टोद्भासनं कुर्मः ॥४८॥ इति तद्वचोऽपनीत-स्वगुरुवियोगार्तिराप्य हृत्स्वास्थ्यम् । संयमयोगे नित्यं, नियमितचित्तोऽभवन् मुदितः ॥४९॥ लघुसंयमपर्याये, वयसि लघौ गुरुवरं विना वसनम् । प्राप्तं तदपि न धैर्यं, जहौ स्वभाग्यैक विश्वस्तः ॥ ५० ॥
—0—
१३
Page #23
--------------------------------------------------------------------------
________________
सतीसूक्तषोउशिका स्व. आ. श्रीविजयधर्मधुरन्धरसूरिः
ग्राही
दक्षिणकरदक्षा पक्षवलक्षा भगवदुपज्ञमधीतवंती, गिरममितमतिः। वरवरदा यतिनी प्रथमा वतिनी प्रथमजिनपतीर्थप्रथिता, मथितव्यथिता ॥ वरबाहुबलीनं संवरलीनं गमितुमनाः श्रिततक्षशिला, शुभग्रहग्रहिला । स्मृतगतभवमाया विजितकषाया भवजलपारं मुक्तिमिता ब्राह्मी नमिता ॥१॥
___ (२) प्रतिलाभितवीरा, जलधिगभीरा, धीरा सुरगिरिणा तुलिता गुणगणकलिता । गतभवजलतीरा, श्रीनासीरा, संयमचीरालडुरणा, जितमोहरणा ॥ चन्दनसमशीता जिनपतिगीता चित्रचरित्रा धर्मधना, गतजनिनिधना । व्रतिनीवरशाला चन्दनबाला चरमजिनेश्वरसाध्वितमा, वृतमुक्तिरमा ॥२॥
चन्दनवाला
राजीमती
नरपतिवरतनया विदितनया वय आप्तवती मधुरं मधुरं, किलकामधुरम् । यदुपतिमनुरक्ता सततं सक्ता व्रतवति भगवति मोहमिता, मनसा दमिता ॥ नवभवसम्बन्धं प्रणयप्रबन्धं स्मारं स्मारं यातवती, जिनमेकगतिः । श्रितजिनवरचरणा शिवपदशरणा सिद्धरमणसुखमाप्तवती, श्रीराजिमती ॥३॥
१४
Page #24
--------------------------------------------------------------------------
________________
(४)
दौपदी
- पाचालीश्रुतया पाण्डववृतया स्थिरदर्शनयाऽनतिचरितं, वसुधाचरितम् ।
प्रकुपितनारदया पद्माहृतया, हरिसंप्रापितया मुदितं, विदितं विदितम् ॥ पतिसंरक्षितया गहनं गतया नतया नतया शंगणितं, कुशलं रणितम् । श्रुतविगतचरितया दुपदात्मजया नेमिसमीपे संयमितं ब्रह्मस्वरितम् ॥४॥
कौशल्या
नयविजितसपत्नी, दशरथपत्नी, जगतिमता नररत्नप्रसूः शुचिशीलवसुः । वनगततनयाश्रुः, सीताश्वश्रूः, दिनकरसमसुतविरहव्रतधृतधैर्यरतिः ॥ गतभवभवदुरितं, ज्ञात्वा त्वरितं तदुपशमाय प्रयत्नवती, परमात्ममतिः । परिहृतगुणशल्या श्रीकौशल्या समसुखदुःखा जयतितरां भुवने नितराम् ॥५॥
.
(६)
शतबलवररमणी, रूपसुरमणी, द्योतनकमिता विपदमिता, न व्रताच्चलिता । विहितोदयनहिता, कल्मषरहिता चेटकनृपदुहिताऽवहिता, सुकृतान्महिता ॥ प्रविदितदुष्कारा, समसंसारा, प्रवजिता जिनक्चनरता, क्षममनवगता। सतितीक्षणप्रणतिः केवलमहती, मृगावती रमते परमेऽभयदे चरमे ॥६॥
हरिसुररक्षितयाऽचलदर्शनया सड़तवरया दशनमितास्तनया जनिताः । युगपद्धृतसुतया विदितचरितया नागरथिकप्रियया हृदयं न कृतं सभयम् ॥ जिनशुभलाभितया सुपरीक्षितया कथमपि मनसि न संशयितं स्वात्मनि दयितम् । भाचिनि निर्ममया जनुषि सुलसया जिनवरकर्मकृतौ यतितं यशसा प्रथितम् ॥७॥
दशरथसुतदयिता दशमुरवनीता सङ्कटपतिता नहि पतिताऽकलबलकलिता । कोशलमानीता रजकविगीता नविगीताऽपि वने प्रहिता, समुदितदुरिता ॥ लवणाङ्कुशमहिता दहने दहिता न ज्वलिता परमुज्ज्वलिताद्भुतऋतचरिता । साकेते गीता भवभयभीता सीता साध्वी स्वर्गमिताऽच्युतपतिविदिता ॥८॥
सुभद्रा
जिनवरमतबुद्धा श्रद्धाशुद्धा सौगततनयेनाऽक्षिकृता, कपटेन वृता । श्रुतपतिकुलधर्मा स्थिरनिजकर्मा प्रियप्रसुवा परमं व्यथिताऽकथितं कथिता । हृतरसनक्रीडा-मुनिदृक्पीडा देवीविहितसदनुकम्पाउनावृतचम्पा। उदितोदितभद्रा सती सुभद्रा, जितनिद्रा शमिताभद्रा, वृतशिवभद्रा ॥४॥
Page #25
--------------------------------------------------------------------------
________________
शिवा
(१०) व्रतवासितदेहा गतसन्देहा चेटकराजसुता प्रथमा(s)हतयमनियमा। द्योतनपरिपूर्तिर्मङ्गलमूर्ति-उरिनिवारसदयहृदया, परिलसदभया ॥ उज्जयनीगाथा मदनप्रमाथा हित्वा मोहं प्रजिता, प्रशमोल्लसिता । संसारं तीर्णा समताकीर्णा शिवमधियाता सती शिवा, समरजनिदिवा ॥१०॥
कुन्ती
विजितानगरमे वयसि प्रथमे पाण्डुप्रियपरिचयमयिताऽऽहितकर्णहिता । पाण्डवप्रसवित्री, सत्यसवित्री दिव्याकुलपावनगङ्गा मुनिजनरङ्गा । भारतदुःसमरे हतविपुलरे कृतनिजकुलरक्षणवार्ताप्रतिपलमार्ता सिद्धाचलसिद्धा जगति प्रसिद्धा कुन्तीजननी मतिरुचिरा वरशुभनिकरा ॥११॥
(१२) श्रुततिर्यग्वाणी साक्षाद् वाणी स्फुटवाणीजितगिर्वाणी सन्निधिपाणिः प्रगता निशि विधुराऽशहूं श्वशुरात्मनि शङ्करं शंगमिता वररत्नवती । कृतनृपतिपरीक्षण-सचिवनिरीक्षण-हासप्रहासा न च विवशा सततं स्ववशा शुचिशीलाभरणा ज्ञानावरणादिमकर्मक्षयनिबिडमति सा शीलवती ॥१२॥
(१२)
शीलवती
दमयन्ती
करणं दमयन्ती संशमयन्ती चेतो नलमभिरमयन्ती, विक्रमयन्ती ।। मणिमलिकमयन्ती स्वं भ्रमयन्ती, गहनवनेरं गमयन्ती, हंसमयन्ती ॥ कष्टं तमयन्ती विपदमयन्ती प्रभवदुरितं क्लमयन्ती, चंक्रमयन्ती । भवभवगमयन्ती संयमयन्ती पुण्यश्लोकं नमयन्ती, श्रीदमयन्ती ॥१३॥
(१४) निजतनुवरवर्णाऽधरितसुवर्णा कीरणसा स्तनघनकलसा, सततं सरसा। रतितर्जितनाका कमनपताका चन्द्रवदननिर्जितराका, समजनिराका ॥ सोदरपरिणीता मरुता नीता दर्शनदर्शनतश्चरणं, श्रेयोवरणम् । कृतमुनिपतिभक्तिः केवलशक्तिः प्रदिशतु शंनियतं पुष्पा, चूलापुष्पा ॥१४॥
पुष्पचूला
प्रभावती
या राजसुतायां काञ्चनकायां कामयते न यया दहितं, वय आत्महितम् । न द्रुहयति यस्यै जनसर्वस्यै जनता यस्या दूरयितं, दुर्गतदुरितम् ॥ वरदृष्टिर्यस्या वरदवयस्या यस्याममितगुणाख्यानं, शिवसोपानम् । वीरार्चनपूता देवीभूता भूपतये बोधिं ददती सा प्रभावती ॥१५॥
Page #26
--------------------------------------------------------------------------
________________
पद्मावती
क्रकोमलपद्मा लोचनपद्मा पदपङ्कजरेखितपद्मा, हृदये पद्मा । सौरभजितपद्मा निहतविपद्मा-रं जयिनी विलसत्पद्मा सद्मनि पद्मा ॥ परमप्रतिपद्मा वृतसंपद्मा-यातमसा मुक्ता पद्मा, सनसूतपद्मा । नतजिनपदपद्मा सनिधिपद्मा निजयाऽभिधया श्रीपदालङ्कृतपद्मा ॥१६॥
वृणुते वरकरणं विभ्रमसरणं सद्वृत्ता वणैर्विशदा, संस्कृतनिनदा । ततनवनवभावा गुणसदावा विमलंकमलदलकलचरणा सदलङ्करणा ॥ सङ्गीतकगीतिः सुघटितरीतिः, कण्ठगताऽतनुशं ददते, विरतिं दधते । रसजितमृद्वीका मधुरध्वनिका सुन्दरी जयति वषोडशिका ॥१७॥
(१८) इत्थं मया जलधिवर्गमिता(१६)महत्यः, सत्यः स्तुताः प्रवरवृत्तभवैः सदुक्तैः । वर्षे सहस्रयुगले शरचन्द्रयुक्ते (२०१५), माघेऽसितेऽन्तिमदिनेऽत्र धुरन्धरेण ॥१८॥
१७
Page #27
--------------------------------------------------------------------------
________________
(आ.श्रीहर्षविनयसूरिशिष्यधर्महंसविरचितम्) कीटिकोष्ट्रं प्रसूता (आदिजिनस्तवनम्) (सवृत्तिकम्) | वृत्तिः - स्व.आ.श्रीविजयधर्मधुरन्धरसूरिः
मतिरणुसममाना मे तवाऽऽदीश मेरूनतगुणनुतिमाप्ता दुष्षमायां भवे नुः । क्वचिदुदितमुदा यत् प्राहिणोत्तत् किमुक्- ..
तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥१॥ (अन्वयः) आदीश ! अणुसममाना, आप्ता, मे मतिः, नुः भवे, दुष्षमायाम्, उदितमुदा, यत् उाम्, क्वचित्, तव, मेरून्नतगुणनुतिम्, प्राहिणोत्, तत्, कीटिका, तिलतुषतटकोणे, उष्ट्रम्, प्रसूता किम् ?
(वृत्तिः) आदीश ! हे आदीश्वर ! युगादिदेव ! अणुसममाना - परमाणुतुल्यपरिमाणा । अत्यल्पविषयेति यावत् । आप्ता - आप्तजनानुगता । मे - मम । मतिः - बुद्धिः । नुः - मनुजस्य । भवे - जन्मनि, मनुष्यजन्मनीति पदद्वयस्याऽर्थः । दुष्षमायाम् - दुष्षमानामकपञ्चमारके । उदितमुदा - समुदितहर्षेण । यत् - यस्मात् । उक्म् - पृथिव्याम् । क्वचित् - कुत्रचित् । तव - भवतः आदीश्वरस्य । मेरून्नतगुणनुतिम् - सुमेरुपर्वतसदृशोच्चकेवलित्वादिगुणस्तुतिम् । प्राहिणोत् - प्राचीकटत्, अकरोदिति यावत्, धातूनामनेकार्थत्वात् । तत् - तस्मात् । कीटिका - कीटस्त्री, पिपीलिका । तिलतुषतटकोणे - तिलस्य - सातिशयलघुत्वेन - प्रसिद्धस्नेहोपादानधान्यविशेषस्य तुषः त्वविशेषः । "धान्यत्वक् तुषः" ४/२४८ इत्यभिधानचिन्तामणिः । तस्य - तटकोणः प्रान्तविदिग्भागस्तत्र तथा । उष्ट्रम् - क्रमेलकम् । प्रसूता - प्रासूयत । किमिति - वितर्केऽव्ययम् । कीटिकाकर्तृकतिलतुषतटकोणाधिकरणक-क्रमेलककर्मकप्रसव इव परमाणुतुल्यपरिमाणमदीयमतिकर्तृक-मनुष्यभवदुष्षमाराधिकरणकभवदीयमेरुपर्वतोन्नत-केवलित्वादिगुणस्तव इति ।
"वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना । यद्दातुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता" ।
इति चन्द्रालोकीयलक्ष्यलक्षणानुसारी निदर्शनालङ्कारः । जिनेश्वरगुणकदम्बकस्तवनासामर्थ्येन तदीयगुणानां प्राशस्त्यं परमौन्नत्यञ्च व्यज्यते । एवञ्च कविगतश्रीमदादीश्वरविषयकरत्याख्यभावाभिव्यञ्जनाद्भावध्वनिकाव्यमिदम् । “रतिर्देवादिविषया व्यभिचारी तथाऽञ्जितः ॥ भावः प्रोक्तः" इति काव्य
१८
Page #28
--------------------------------------------------------------------------
________________
प्रकाशोक्तेः । मालिनीवृत्तम् । “ननमयययुतेयं मालिनीभोगिलोकैः" इति वृत्तरत्नाकरीयतल्लक्षणतः ॥१॥
तिलतुषितकुलस्था दुर्विधा स्वाङ्गजाशाभृदभयद ! तनूजं भक्तितस्ते श्रियोच्चम् । यदलभत हि काचित् स्त्रीत्यथाख्या किमासीत्,
तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥२॥ . . (अन्वयः) अभयद ! तिलतुषितकुलस्था, दुविधा - स्वाङ्गजाशाभृत्, अथाख्या काचित् स्त्री, ते, भक्तितः, श्रिया, उच्चम्, तनूजम्, हि, यत्, अलभत, इति, कीटिका, तिलतुषतटकोणे, उष्ट्रम्, प्रसूता, आसीत् किम् ?
(वृत्तिः) अभयद - बाह्याभ्यन्तरप्रतिपक्षापादानकभयविनाशक! अर्हन् ! "अर्हन् जिनः पारगतः.... स्याद्वाद्यभयदसार्वाः" १/२४ इत्यभिधानचिन्तामणिः । तिलतुषितकुलस्था - तुच्छतया तिलतुषानुकारिवंशस्थिता । दुविधा - दारिशकरम्बिता दीना । स्वाङ्गजाशाभृत् - निजापत्यकामनाञ्चिता । अथाख्या अथाभिधाना, उषाख्येति पाठे - उषाभिधाना वा, अन्यप्रकारा वा.... । काचित् स्त्री - योषा । ते - भवत आदीश्वरस्य । भक्तितः - सेवातः । श्रिया - तन्त्रवशात् शोभया सम्पत्त्या, लक्ष्म्या च । "शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिव कथ्यते' इति शाश्वतः । उच्चम् - उन्नतम्, समुन्नतश्रीकमितिपदद्वयस्याऽर्थः । तनूजम् - आत्मजम् । हि - निश्चयेऽव्ययम् । यत्, अलभत - प्राप्नोत् । इति तत् । कीटिका, तिलतुषतटकोणे, उष्ट्रम्, प्रसूता, आसीत्, किम् ? अत्राऽलङ्कारः पूर्ववन्निदर्शना ॥२॥
ऋषभजिन ! वचस्ते वस्तुसम्यक्प्रतिष्ठं, विशदिह भविकानां तन्वतां सौवचित्ते । मतिरति कुमतं किं क्लिष्टमेतद्वचोवत्
तिलतुषतटकोणे कीटिकोष्टं प्रसूते ॥३॥ . (अन्वयः) ऋषभजिन ! इह, सम्यक्प्रतिष्ठम्, वस्तु, ते, वचः, तन्वताम्, भविकानाम्, सौवचित्ते, विशत्, "तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता" एतद्वचोवत्, क्लिष्टम्, कुमतम्, मतिरति, किम् ॥३॥ - (वृत्तिः) ऋषभजिन ! ऋषति गच्छति परमं पदमिति "ऋषिवृषिलुसिभ्यः कित्' (उणा० ३३१) इत्यभे ऋषभः, यद्वा - ऊर्वोवृषभलाञ्छनमभूद्भगवतो जनन्या च चतुर्दशानां स्वप्नानामादावृषभो दृष्टस्तेन ऋषभः, जयति रागद्वेषमोहानिति जिनोऽर्हन्, ऋषभश्चाऽसौ जिन ऋषभजिनस्तदामन्त्रणे तथा । इह - अस्मिल्लोके। सम्यक्प्रतिष्ठम् - समीचीनप्रतिष्ठाशालि । वस्तु - वस्तुभूतम्, वा, स्तवमित्यर्थः । तें - भवतः । वचः - देशनात्मकवचनम् । तन्वताम् - विस्तारयताम् । भविकानाम् - भावुकनृणाम् । सौवचित्ते - स्वीयान्तःकरणे । विशत् - प्रविशत् । “तिलतुषतटकोणे कोटिकोष्ट्र प्रसूता" एतद्वचोवत् "कीटिका तिलतुषतटकोणे उष्टं प्रसूता" इत्याकारकवचनमिव । क्लिष्टम् - असम्भवार्थकरम्बिततया सङ्क्लेशावहम् । कुमतम् - चार्वाकाद्यपरदर्शनसिद्धान्ततत्त्वम् । मतिरति - मतेर्बुद्धेरतिरानन्दो यस्मात्तत्तथा
१९
Page #29
--------------------------------------------------------------------------
________________
यद्वा मतौ (मतिविषयः मतिरिहेच्छा तथा चेच्छाविषयीभूता, समभिलषितेति यावत्) रतिर्यस्मात्तत्तथा । किम् - निषेधार्थकमव्ययम् 'किं कुत्सायां वितर्के च निषेधप्रश्नयोरपि' इति मेदिनी, तथा च मतिरति नास्तीत्यर्थः ॥३॥
जिनवर! भवदीया योजनासारसाराऽमृतमयगुणखानिः शङ्करी गीर्जनानाम् । क्वपिदपि हि कदा किं दोषपोषं यथैषा
तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥४॥ (अन्वयः) जिनवर ! कीटिका, तिलतुषतटकोणे, उष्ट्रम्, यथा, योजनासारसारामृतमयगुणखानि:, शङ्करी भवदीया, एषा, गी:, जनानाम्, क्वचित्, कदापि, हि, दोषपोषम्, प्रसूता, किम् ? ||
(वृत्तिः) जिनवर ! जिनेश्वर ! कीटिका - पिपीलिका । तिलतुषतटकोणे, उष्ट्रम्, यथा इव, योजनासारसारामृतमयगुणखानि: - योजने - क्रोशचतुष्टये आसारः - धारासम्पातः, परस्परापात इति यावत्, यस्याः सा योजनासारा, सारामृतमयाः - समुत्कृष्टपीयूषस्वभावा ये गुणाः प्रसादाद्यास्तेषां खानिराकरः सारामृतमयगुणखानिः, योजनासारा. चाऽसौ सारामृतमयगुणखानिस्तथा । शङ्करी - कल्याणकारिणी । भवदीया - भवत्सम्बन्धिनी । एषा - इयम् । गी: - देशनावाक् । जनानाम् - लोकानाम् क्वचित् - कुत्रचित् । कदाऽपि - जातुचिदपि । हि - निश्चयेन । दोषपोषम् - दूषणपोषम्, प्रसूता - प्रासूयत । किम् सम्भावनायां प्रश्नार्थे वा, कीटिका यथा तिलतुषतटकोणे क्रमेलकं जनयितुं न क्षमा तथा भवदीया वागपि दोषपोषमुत्पादयितुमसमर्थेति भावः ॥४॥
तिलतुषवदसारान् सङ्कलान् क्वाऽपि संस्थाँस्तव जिन ! वचनाब्धिप्रोत्थबिन्दूद्भवाभान् । परसमयपथस्थान् प्रेक्ष्य नाऽऽहेति कश्चित्
तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥५॥ (अन्वयः) जिन ! तव, वचनाब्धिप्रोत्थबिन्दूद्भवाभान्, तिलतुषवंदसारान्, क्वाऽपि संस्थान् सङ्कलान्, परसमयपथस्थान्, प्रेक्ष्य कश्चिद् ना, "तिलतुषतटकोणे कीटिका, उष्ट्रं प्रसूता" इति भाषते किम् ? ॥५॥
(वृत्तिः) जिन ! तव - जिनेश्वरस्य । वचनाब्धिप्रोत्थबिन्दूद्भवाभान्, वचनम् - देशनात्मकं वच एवाऽब्धिः समुद्रो वचनाब्धिस्तस्मात् प्रोत्थाः - प्रकर्षेणोत्थिता ये बिन्दवः - पृषतास्तदुद्भवाभान् तदुत्पन्नामिव । तिलतुषवदसारान् तिलकडङ्करतुल्यतुच्छान् । क्वाऽपि - क्वचित् । संस्थान् - स्थितान् । सङ्कलान् - अस्पष्टवचनान् । परसमयपथस्थान् - अन्यदीयसिद्धान्तमार्गस्थितान् पदार्थानिति शेषः । अत्र "परसमयपदार्थान्" इति पाठः समीचीनः प्रतिभाति अध्याहारानपेक्षणात् । प्रेक्ष्य - समवलोक्य, विविच्येति यावत् । कश्चित् ना - कोऽपि मनुजः "तिलतुषतटकोणे कोटिकोष्टं प्रसूता'' इति अमुं
२०
Page #30
--------------------------------------------------------------------------
________________
शब्दसन्दर्भम् । आह ब्रवीति । परसमयपदार्थ- तादृशप्रसवयोरसम्भवत्वेन तुल्यत्वात्, एतेन
परसमयपदार्थानामप्रामाण्यं व्यज्यते इति निदर्शनोपस्कृतमुत्तमं काव्यमवसेयम् ॥५॥
-
समवसृतिमगुस्ते सार्व ! देवा विधाय त्रिजगदभवि नाट्यं चित्रकृद्भक्तियुक्तेः । मरुदथ गुरुचेताः कश्चिदित्यास्त नृत्यन् तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥६॥
T
-
(अन्वयः) हे सार्व! देवाः, भक्तियुक्तेः, त्रिजगदभवि, चित्रकृत्, नाट्यम्, विधाय, ते समवसृतिम्, अगुः, अथ, गुरुचेताः, कश्चित् मरुत्, तिलतुषतटकोणे कीटिका, उष्ट्रम्, प्रसूता, इति, नृत्यन्, आस्त ॥ (वृत्ति:) हे सार्व ! हे सर्वज्ञ ! देवा: अमराः । भक्तियुक्तेः - सेवायोगात् । त्रिजगदभवि - भुवनत्रयासम्भवि । (अत एव ) चित्रकृत् आश्चर्यकारि । नाट्यम् - नृत्यम् । विधाय कृत्वा । ते भवतः । समवसृतिम् - समवसरणम् । अगुः - इण्धातोरद्यतन्यामनि पुसादेशे "इणिकोर्गा' ४/४/२३ इति - इणो गादेशे " पिबैति०" ४ / ३ / ६६ इति सिज्लुपि "अगुः" इति रूपं निष्पद्यते, अगमन्निति तदर्थः । अथ - अनन्तरम् । गुरुचेताः – गौरवान्वितमनाः । कश्चित् अनिर्दिष्टनामा । मरुत् - देवविशेषः । “तिलतुषतटकोणे, कीटिका, उष्ट्रम्, प्रसूता" इति अनेन प्रकारेण । नृत्यन् - नृत्यं कुर्वन् । आस्त - आसीत् ॥६॥
प्रथमंजिन ! तवाऽऽज्ञा भव्यभव्याऽऽत्मनां स्व:सुखलवममृतत्वं · साधिनां साधु दत्ते । तदुचितमवन त्वन्नाऽऽप गाः किं गतांह - स्तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥७॥
(अन्वयः) प्रथमज़िन ! भव्यभव्या, तव, आज्ञा, साधिनाम्, आत्मनाम्, स्वःसुखलवम्, अमृतत्वम्, साधु, दत्ते, अवन ! गतांहः ! त्वम्, “तिलतुषतटकोणे कीटिका उष्ट्रं प्रसूता" इति, गाः, न, आप, किम् ।
(वृत्ति:) प्रथमजिन ! आदीश्वर ! भव्यभव्या अत्यन्तभविका निरतिशयक्षेमकारिणीति यावत् तव श्रीमतो भवतः । आज्ञा - आदेशः, साधिनाम् - साधनमाराधनमेव साधः, सोऽस्त्येषामिति साधिनस्तेषान्तथा । आत्मनाम् - जीवात्मनाम् । स्वःसुखलवम् - स्वःसुखं स्वर्गीयं शर्म लवं तुच्छं यस्मात्तथा, अमृतत्वम् – महानन्दम् । साधु सम्यक् । दत्ते - ददाति । सम्बन्धे षष्ठी । अवन ! शरण ! गतांहः ! – निष्पाप ! त्वम् - भवान् । तिलतुषतटकोणे कीटिका उष्ट्रम्, प्रसूता । इति – इत्थम्भूताः ।
-
-
गा: - वचनानि । न नहि । आप - प्राप । किम् ? अपि तु प्रापैवेति भावः ।
-
तव जिन ! कुलजातस्याऽपि बुद्धौ मरीचेः स्वपितृनतिनुतस्याऽशस्तभावाणुभूतौ । कुलविषयमहाप्तिं वीक्ष्य नाऽऽहेति कः किं तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥८॥
२१
Page #31
--------------------------------------------------------------------------
________________
(अन्वयः) जिन ! तव कुलजातस्य, स्वपितृनतिनुतस्य, अपि, मरीचेः, अशस्तभावाणुभूती, बुद्धौ, कुलविषयमहाप्तिम्, वीक्ष्य, कः, तिलतुषतटकोणे, कीटिका, उष्ट्रम्, प्रसूता, इति, न, आह, किम् ?
(वृत्तिः) जिन ! भगवन्नादीश्वर ! तव - श्रीमतो भवतः । कुलजातस्य - वंशोत्पन्नस्य । स्वपितृनतिनुतस्य भवता, भाविप्रथमवासुदेव-चक्रवर्ति-चरमतीर्थकृत्त्वाधिगमनिरूपणोत्तरं स्वपित्रा प्रथमचक्रवर्तिना भरतेन नमस्कारपूर्वकमभिष्टुतस्य । अपि - खलु मरीचेः - तदभिधानचरमतीर्थकृज्जीवस्य । अशस्तभावाणुभूतौ, अशस्तभावैः - अभिभानपूर्वकानुध्यानैरणुः लघ्वीभूतिरैश्वर्यं यस्यां सा - अशस्तभावाणुभूतिस्तस्यान्तथा। "अशस्तभावानुभूतौ" इति पाठे, अशस्तभावविषयकानुभवात्मिकायामित्यर्थोऽवसेयः । बुद्धौ - संविति । कुलविषयमहाप्तिम् - समीचीनकुलविषयकातिशयप्राप्तिम् । वीक्ष्य - विविच्य । कः - पुरुषः । "तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता" इति - एवम् । न - नहि । आह - ब्रवीति ? अपि तु सर्वोऽप्याहैवेति भावः ॥९॥
तिलतुषसमवंशेऽनार्य्यभूमौ क्वचित्स्थाँस्तव जिन ! पृथुधर्माज्ञादरानेक्ष्य साक्षात् । अदनज-सुलसादीन् केन नाऽवाद्यथैवं
तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥९॥ (अन्वयः) जिन ! तिलतुषसमवंशे, अनार्य्यभूमौ, क्वचित्स्थान्, तव, पृथुधर्माज्ञादरान् अदनजसुलसादीन्, साक्षात्, एक्ष्य, केन, अथ, तिलतुषतटकोणे कीटिका, उष्ट्रम्, प्रसूता, एवम् न, अवादि ॥९॥
(वृत्तिः) जिन ! भगवन्नर्हन् ! तिलतुषसमवंशे तुच्छतया तिल-कडङ्करतुल्यकुले । अनार्य्यभूमौ - अनार्य्यवसतियोग्यक्षेत्रे । क्वचित्स्थान् - कुत्रचित्स्थितान् । तव - श्रीमतो भवंतः । पृथुधर्माज्ञादरान् - विशालधर्मादेशसंश्रद्धान् । अदनजसुलसादीन् - अदनः - अधुनैडनतया प्रसिद्धो देशः तज्जराजकुमार-सुलसकुमारप्रभृतीन् । साक्षात् - प्रत्यक्षम् । एक्ष्य - सर्वतोभावेनाऽवलोक्य । केन - किमात्मकेन, कीदृशेनेति यावत्, जनेनेति शेषः । अथ - विनिश्चयेन । “अथाऽथो संशये स्यातामधिकारे विनिश्चये" इति मेदिनी । तिलतुषतटकोणे, कीटिका, उष्ट्रम्, प्रसूता, एवम् - अनेन प्रकारेण । न - नहि अवादि - उक्तम् ? अपि तु सर्वेणाऽपि जनेन तथोक्तमिति भावः ॥९॥
अभयद ! भवदीयाचिन्त्यमाहात्म्यतश्चेत् क्षितिपतिभुवि रङ्कः प्रेक्ष्यतेऽन्धश्च पङ्गः । जगदतति तदा नाऽसम्भवीदं भवेत् किं
तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥१०॥ (अन्वयः) अभयद ! भवदीयाचिन्त्यमाहात्म्यतः, चेत्, रङ्कः, क्षितिपतिभुवि, प्रेक्ष्यते, अन्धः, च, पङ्गः, जगत्, अतति, तदा, असंभवि, तिलतुषतटकोणे, कीटिका, उष्ट्रम् प्रसूता, इदमसम्भवि, न, भवेत्, किम् ? ॥१०॥
Page #32
--------------------------------------------------------------------------
________________
(वृत्तिः) अभयद ! सर्वविधभीतिव्रातनिवारक तीर्थकृत् ! भवदीयाचिन्त्यमाहात्म्यतः भावत्कानि-र्वचनीयमहिमभावतः । चेत् - यदि । रङ्कः - दरिद्रः, अकिञ्चन इति यावत् । क्षितिपतिभुवि - नृपोचितस्थाने । प्रेक्ष्यते - चाक्षुषविषयीक्रियते, अवलोक्यते इति यावत् । अन्धः - दृष्टिविरहितः । च - पुनः । पङ्गः - पायाति शुष्यति पादवैकल्यादिति पङ्गः "प्रीकैपैत्रीलेः (उणा. ७६१) इत्यङ्गक् चरणहीन इत्यर्थः । जगत् - भुवनम् - तदभिव्याप्येत्यर्थः । अतति - सातव्यकरम्बितगमनवान् भवति । तदा - तर्हि । असम्भवि - सम्भवरहितम्, अयोग्यमिति यावत् । "तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता" इदम् - एतत् । न - नहि । भवेत् - संभवेत् । किम् ? अपि तु भवेदेवेति भावः ॥१०॥
सभविक ! भविकाली सेवते ते वचो याऽनृणगुणमपि धत्ते स्वोरसीष्टे क्रियासु ॥ अणुलघुपदसृष्ट्यां सा कथं क्वाऽपि नीचै
स्तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥११॥ (अन्वयः) सभविक ! या - भविकाली, ते, वचः, सेवते, अनृणगुणम्, अपि, स्वोरसि, धत्ते, क्रियासु, ईष्टे, सा, अणुलघुपदसृष्ट्याम्, क्वाऽपि, नीचैः, कीटिका, तिलतुषतटकोणे उष्ट्रम्, (इव) कथम्, प्रसूता, (स्यात्) ॥११॥
(वृत्तिः) सभविक ! भव्यात्मजनसंसेवित ! महानन्दात्मकक्षेमशालिन् ! इति वा । या - बुद्धिविषयीभूता । भविकाली - भव्यात्मजनश्रेणी । ते - श्रीमतो भवतः । वचः - वचनम् । सेवते - श्रयति । अनृणगुणम्, नास्ति ऋणं पैतृकादि यस्मात् सोऽनृणः, अनृणत्वसम्पादक इति तदर्थः, तादृशः, गुणः सम्यक्त्वादिरनृणगुणस्तं तथा । वस्तुतस्तु "अनणुगुणम्" इत्येवसमुचितः पाठः, अनल्पगुणमिति तदर्थः । स्वोरसि - निजवक्षसि - लक्षणया हृदये इत्यर्थः । धत्ते - धारयति । क्रियासु - साङ्गागमाध्ययनापनोपवासादिकर्मसु । ईष्टे - समर्थो भवति । सा - बुद्धिविषयीभूता भविकाली । अणुलघुपदसृष्ट्याम् । अण्ड - क्षुद्रम् (अत एव) लघु - लघुतावहं यत् पदम्, आस्पदम् तस्य सृष्टिः सर्गस्तत्र तथा । क्वाऽपि - कुत्रचित् । नीचैः - अधःपदे । कीटिकाः तिलतुषतटकोणे उष्ट्रम् (इव) कथम् - केनं - प्रकारेण प्रसूता, स्यादिति शेषः अपि तु नैव प्रसूता भवेदिति भावः ॥११॥
समवसरणभित्तौ यानि चित्राणि लेखा लिलिखुरिन ! मुदा ते विस्मितं तान्यवेक्ष्य । बहुभिरमृतताऽवाप्यत्र किं तेऽपि चित्रं
तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥१२॥ (अन्वयः) इन ! ते, समवसरणभित्तौ, लेखाः, मुदा, यानि, चित्राणि, लिलिखुः, तानि, विस्मितम्, अवेक्ष्य, बहुभिः, अमृतता, अवापि, तिलतुषतटकोणे, कीटिका, उष्ट्रम्, प्रसूता अत्र ते, अतिचित्रम्, किम् ? ॥१२॥
२३
Page #33
--------------------------------------------------------------------------
________________
(वृत्तिः) इन ! आदीशप्रभो ! ते - श्रीमतो भवतः । समवसरणभित्तौ - समवसृतिप्राकारकुड्ये, लेखा - देवाः । मुदा - हर्षेण । यानि - बुद्धिविषयीभूतानि । चित्राणि - आलेख्यानि । लिलिखुः - चित्रयामासुः । तानि - बुद्धिविषयीभूतानि चित्राणि । विस्मितम्, साश्चर्यं यथा स्यात्तथा । अवेक्ष्य - प-लोच्य । बहुभिः - अनेकैः, भाविकजनैरिति शेषः । अमृतता - मरणाभावः, महानन्दता, मुक्तिरिति यावत् । अवापि - अध्यगामि, अलम्भीति यावत् । एवं सतीति शेषः । "तिलतुषतटकोणे कोटिकोष्टं प्रसूता" अत्र - एतत्प्रकारणे विषये, ते श्रीमतो, भवतः । कृते इति शेषः । अतिचित्रम् आश्चर्यातिशयितम् । किम् ? किमपि नेतिभावः ॥१२॥
जिनवृषभ ! यथाऽन्ये तीर्थिका लीलयाऽहुः शिवपदमिह तद्वत् त्वं न तेऽज्ञापथस्थाः । तदपि परमतं यत् म्लिष्टितार्थं यथेदं,
तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥१३॥ (अन्वयः) जिनवृषभ ! इह, अज्ञापथस्थाः, ते, अन्ये, तीथिकाः, यथा, लीलया, शिवपदम्, आहुः, तद्वत्, त्वम्, न, तिलतुषतटकोणे कीटिका, उष्ट्र, प्रसूता, इदं यथा - यत् परमतम्, तत् म्लिष्टितार्थम् ॥१३॥
(वृत्तिः) जिनवृषभ ! जिनेश्वर ! इह - मोक्षतत्त्वविचारणायाम् । अज्ञापथस्थाः, न जानन्ति वस्तुतत्त्वमिति - अज्ञाः, अपथे - असमीचीनमार्गे तिष्ठन्तीति अपथस्थाः, अज्ञाश्च ते अपथस्था अज्ञापथस्थाः । ते - प्रसिद्धाः । अन्ये - अपरे । तीथिकाः - मोक्षतत्त्वव्यवस्थापका धर्माचार्याः । यथा - येन प्रकारेण । लीलया - दुश्चरतपश्चरणादिनाऽपि । अनायासेनैवेति यावत् ! शिवपदम् - शिवो मोक्ष एव पदमास्पदं, शिवपदं, आहुः - कथयन्ति । तद्वत् - तेन प्रकारेण । त्वम् - श्रीमान् - भवान् । न - नहि । आत्थेति शेषः । “तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता" इदं यथा - इदमिव । यत् - बुद्धिविषयीभूतम् । परमतं - परकीयसिद्धान्ततत्त्वम् । तत् - म्लिष्टितार्थम् । असङ्गतत्त्वादस्फुटाभिधेयम्, अवगन्तव्यमिति शेष: ॥१३॥
समवसृतिभुवं ते प्राप्य के के न सिद्धाः सकलकलुषमुक्तेरक्षयक्षायिकाप्तेः । । न भवततिमितीयश्चित्रमौक्ष्य चैवं
तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥१४॥ (अन्वयः) ते - समवसृतिभुवं, प्राप्य, अक्षयक्षायिकाप्तेः, सकलकलुषमुक्तेः, के के, न सिद्धाः, च, अत्र, तिलतुषतटकोणे, कीटिका, उष्ट्र, प्रसूता, एवम्, ऐक्ष्य भवतति, न, ईयुः, इति, चित्रम् ॥१४॥
(वृत्तिः) ते - तव, श्रीमदादीशस्येति यावत् । समवसृतिभुवं - समवसरणस्थानम् प्राप्य - समधिगत्य । अक्षयक्षायिकाप्तेः - अविनश्वरक्षायिकभावाधिगमात् । सकलकलुषमुक्तेः - अखिलपाप
२४
Page #34
--------------------------------------------------------------------------
________________
विमोचनात् । के के, जना इति शेषः । न - नहि । सिद्धाः सिद्धिङ्गताः अपि तु सर्व एव प्राप्तभवत्समवसरणाः सिद्धा एवेति भावः । च - पुनः । अत्र - समवसरणभुवि । “तिलतुषतटकोणे कीटिका उष्टं प्रसूता" एवं - तादृशकोणाधिकरणककीटिकाकर्तृकोष्ट्रकर्मकप्रसवम् । ऐक्ष्य - अवलोक्य, ज्ञात्वेति यावत् । भवतति - संसारपरम्परां । न - नहि । ईयुः - जग्मुः । इति - तदीयभवपरम्परानधिगमनम् । चित्रम् - आश्चर्यम् ॥१४॥
जिनप ! तव वचः स्यात्पङ्क्तिकास्थास्थितानां भवति शिवरमायाः शंनिधेः किं न हिंसाम् । प्रतिकृतिविहितान्त्या भाविनी निर्जिताह -
. स्तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥१५॥ (अन्वयः) जिनप ! स्यात्पङ्क्तिकास्थास्थितानाम्, तव, वचः, शंनिधेः, शिवरमाया भवति, निर्जितांहः ! प्रतिकृति विहितान्त्या, तिलतुषतटकोणे, उष्ट्र, कीटिका (इव) भाविनीम्, हिंसाम् न प्रसूता किम् ? ॥१५॥
(वृत्तिः) जिनप! जिनानर्हतः पाति रक्षतीति जिनपस्तदामन्त्रणे तथा । स्यात्पङ्क्तिकास्थास्थितानाम् - स्यात्पदलाञ्छितवाक्यश्रद्धाशालिनाम् । जनानामिति शेषः । तव - श्रीमतो भवतः । वचः - देशनावचनम् । शंनिधेः - कल्याणनिधानस्य । शिवरमायाः - मोक्षलक्ष्म्याः कृते इति शेषः, भवति - जायते । निजितांहः ! निष्पाप ! प्रतिकृतिविहितान्त्या - प्रतिमोद्देश्यकसुरचिता पूजा । तिलतुषतटकोणे उष्ट्र, कीटिका (इव) भाविनीं भावमयीम् । हिंसां हननादिक्रियाम् । न - नहि । प्रसूता - प्रासूयत । किम् ? अपि तु तथैव प्रसूतेति भावः ॥१५॥
द्वयमनुपममेतत् संप्रतीमो द्वयस्या - ऽभयद ! वरपरीक्षाप्रेक्षकाः सत्यवाक्त्वम् । त्वयि वितथपथेनार्थादरोऽन्येष्विदंवत्
तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥१६॥ (अन्वयः) अभयद ! वरपरीक्षाप्रेक्षकाः, (वयम्) द्वयस्य, एतत्, द्वयम्, अनुपमम् । संप्रतीमः, त्वयि, सत्यवाक्त्वम्, अन्येषु "तिलतुषतटकोणे, कीटिका, उष्ट्र, प्रसूता" इदंवत्, वितथपथेन, अर्थादरः
॥१६॥
... (वृत्तिः) अभयद ! भगवन् सर्वज्ञ ! वरपरीक्षाप्रेक्षकाः - समीचीनतया परीक्षणपूर्वकं प्रेक्षणशीलाः । वयमिति शेषः । द्वयस्य तव, अन्यदर्शनिनश्च । एतत् - इदम् । द्वयं - द्वितयम् । अनुपमम् - अप्रतिमम् । संप्रतीमः - सम्यगवगच्छामः । त्वयि - श्रीमति भवति जिनेश्वरे । सत्यवाक्त्वम् । अवितथवचनत्वम् । अन्येषु - इतरेषु - अपरदर्शनिष्विति यावत् । “तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता" इंदवत् इदमिव । वितथपथेन - अनृतपद्धत्या, कुमार्गेणेति यावत् । अर्थादरः - विषयग्राहित्वं तथा
२५
Page #35
--------------------------------------------------------------------------
________________
चाऽभियुक्तोक्ताः -
"अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याऽप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थान-निर्बन्धरसं परेषामिति ॥१६||
तव मतिविपरीताः क्लुप्तहिंसादिदोषा जिन ! परसमयास्तेऽसर्वविन्मूलतोत्थाः । यदि परगरिमाणः किं तदेतन्नु मिथ्या
तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥१७॥ (अन्वयः) जिन ! तव, मतिविपरीताः, क्लृप्तहिंसादिदोषाः, असर्वविन्मूलतोत्थाः, ते परसमयाः, यदि, परगरिमाणः, तदा - तिलतुषतटकोणे, कीटिका, उष्ट्र, प्रसूता, एतत् - मिथ्या, किम्, नु? ॥१७॥१॥
(वृत्तिः) जिन ! अर्हन् ! तव - भवतः । मतिविपरीताः बुद्धिप्रतिकूलाः, शासनप्रतीपा इति यावत् क्लृप्तहिंसादिदोषाः - हिंसाप्रमुखदूषणदूषिताः । असर्वविन्मूलतोत्थाः - असर्वज्ञमूलत्वेनसमुत्थिताः, असर्वज्ञप्ररूपिता इति यावत् । ते - प्रसिद्धाः । परसमयाः - परकीयसिद्धान्ताः । “समयः शपथे भाषासम्पदोः कालसंविदोः । सिद्धान्ताचारसङ्केतनियमासहेषु च" इत्यनेकार्थः । यदि - चेत् । परगरिमाणः - अत्यन्तगौरवान्विताः । "परगुरुमान्याः" इति वा पाठः कल्प्यः, परैः - अन्यैर्गुरुभिर्धर्मोपदेशकैः मान्याः - स्वीकार्याः । परगिरि मान्या... इति मुद्रितपाठस्वीकारे च - परकीयशास्त्रात्मकवचने समादरणीयाः इत्येवं व्याख्येयं तदा "तिलतुषतटकोणे कीटिकोष्टं प्रसूता" एतत् - मिथ्या - असत्यम् । किम् - कथम् ? नु - वितर्के ॥१७॥
परसमयरतस्था लक्षशः कोटिशो वा - जिनप ! जपतपो वोपासतां योगमार्गम् । तदपि शिवपथे नाऽऽयान्त्यदोऽर्थे यथा ज्ञा
स्तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥१९॥ (अन्वयः) जिनप ! परसमयरतस्थाः, लक्षशः, कोटिशः, वा, जपतपः, योगमार्ग वा, उपासतां, तदपि, तिलतुषतटकोणे, कीटिका, उष्ट्र, प्रसूता, अदोऽर्थे, ज्ञाः, यथा, शिवपथे न, आयान्ति ।
(वृत्तिः) जिनप ! भगवन् जिनेश्वर ! यद्यपि परसमयरतस्थाः - परकीयसिद्धान्ततत्त्वानुरागवन्तः । 'लक्षशः - लक्षसंख्याकाः । कोटिशः - कोटिसंख्याभाजः । वा - समुच्चये, जपतपः - जपो जापश्च तपस्तपस्या - चेत्यनयोः समाहारस्तथा । योगमार्ग - चित्तवृत्तिनिरोधादिपद्धतिम् । वा - विकल्पे । "वा समुच्चय एवार्थ उपमानविकल्पयोः । वितर्के पादपूर्ती च विश्रम्भातीतयोरपि" इति हैमानेकार्थः । उपासनाम् - उपासनाविषयीकुर्वन्तु । समाश्रयन्तामिति यावत् । तदपि - तथापि । “तिलतुषतटकोणे कीटिकोष्टं प्रसूता" अदोऽर्थे इत्यस्मिन् विषये । ज्ञाः - मनीषिणः । यथा - इव । शिवपथे - मोक्षमार्गे।
२६
Page #36
--------------------------------------------------------------------------
________________
- रहि । आयन्ति - आगच्छन्ति । विद्वांसो यथा तिलतुषतटकोणाधिकरणक-कीटिकाकर्तृकोष्ट्रकर्मकप्रसवेन विश्वसन्ति तथा परसिद्धान्ततत्त्वभाजः शिवपथे नाऽऽरोहन्तीति भावः । तथा चाऽऽहुरभियुक्ताः -
- परः सहस्रा: शरदस्तपांसि, युगान्तरं योगमुपासतां वा । तथाऽपि ते मार्गमनापतन्तो न मोक्षमाणा अपि यान्ति मोक्षम् ॥ इति ॥१८॥
यदृजुहतमतिस्थैरुक्तमन्यैरयुक्तं तदरमितरथाऽत्राऽकारि शिष्यप्रशिष्यैः । वचसि हतिरियन्तेऽभून सूरेरिवाऽस्मि
स्तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥१९॥ (अवयः) ऋजुहतमतिस्थैः, अन्यैः, अत्र, यत् अयुक्तम्, उक्तम्, शिष्यप्रशिष्यैः तत्, अरम् इतरथा, अकारि, सूरेः, ते, अस्मिन्, वचसि, इयम्, हति, न, तिलपुषतटकोणे, कीटिका, उष्ट्रम्, प्रसूता,
' (वृत्तिः) ऋजुहतमतिस्थैः - ऋजुः कोमला हता नष्टा या मतिर्बुद्धिस्तत्र तिष्ठन्तीति ऋजुहतपतिस्थास्तैस्तथा, सुकोमलविनष्टबुद्धिभिरित्यर्थः । अन्यैः - परदर्शनिभिः अत्र मोक्षतत्त्वविचारणायाम् । यत् - बुद्धिविषयीभूतं किमपि अयुक्तम् - असम्बद्धार्थत्वादनुचितमित्यर्थः । उक्तं - प्रतिपादितम् । शिष्यप्रशिष्यैः - तदीयान्तेवासिपरम्परायातैः । तत् - तदुक्तम् । अरं शीघ्रं यथा स्यात्तथा । इतरथा - अन्यथा, विपरीतप्रकारेणेति यावत् ।। अकारि - कृतम् । यत्तात्पर्येण गुरुणा किमप्युक्तं तदन्यपरतया तदीयशिष्यप्रशिष्यैर्व्याख्यातमिति यावत् । सूरेः - विदुषः । ते - तव । अस्मिन् – देशनागमाद्यात्मके वचसि - वचने । इयम् - एषा । हतिः - गुरूक्तान्यथाकरणात्मकहानिः । न नहि । अत्रोत्प्रेक्षते - तिलतुषेत्यादि - तिलतुषतटकोणे कीटिकोष्ट्र प्रसूतेव - सम्भावये कीटिका तिलतुषतटकोणे उष्टं प्रसूता ।
तदुक्तमाचार्य्यवरैः
यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः । नो विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः ॥ इति ॥१९॥ भविकततिमयन्ती कार्मणानन्तकाणु - स्थितिभृतिमति सौवत्वेऽपि कैवल्यसूचिम् । वदति तव सुसूक्ष्मध्यानजां प्रेक्ष्य कश्चित् ।
तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥२०॥ (अन्वयः) कार्मणानन्तकाणुस्थितिभृतिमति, अपि, सौवत्वे, तव, सुसूक्ष्मध्यानजां, कैवल्यसूचिम्, अयन्ती, भविकतति, प्रेक्ष्य, कश्चित्, "तिलतुषतटकोणेकीटिकोष्ट्र प्रसूता'' इति । वदति ॥२०॥
२७
Page #37
--------------------------------------------------------------------------
________________
(वृत्तिः) कार्मणानन्तकाणुस्थितिभृतिमति कर्मणां - ज्ञानावरणाद्यष्टविधानां ये अनन्ता अपरिमिता एव अनन्तका अणवस्तेषां स्थितिः स्वस्थानम् भृतिर्भरणं ते उभे अस्मिन्निति कार्मणानन्तकाणुस्थितिभृतिमान्, तस्मिंस्तथा । अपि सम्भावनायाम् । सौवत्वे - स्वात्मतत्त्वे । तव - श्रीमतो भवत आदीश्वरस्य । सुसूक्ष्मध्यानजाम् - अतिसूक्ष्मचिन्तनजनितां कैवल्यसूचि - कैवल्यं केवलित्वमेव सूचिरभिनयस्तां तथा। "सूच्यभिनये व्यधने" इति हैमानेकार्थः । सूचि-सूचिशब्दयोः पर्यायताया लोकशास्त्रोभयसिद्धत्वात् । अयन्ती - गत्यर्थकभौवादिकाद् 'ई'-धातोः शत्रन्तस्य स्त्रीत्वविवक्षायां रूपमिदम्, समधिगच्छन्तीमित्यर्थः, गतिप्राप्त्योरुभयोर्गत्यर्थक-धातुवाच्यत्वात्, भविकतर्ति - भव्यात्मजनपरम्पराम् । प्रेक्ष्य - अवलोक्य । कश्चित् - अनिर्दिष्टनामा जनविशेषः । “तिलतुषतटकोणे कीटिकोष्टं प्रसूता" (इति) वदति - आह ॥२०॥
इत्थं श्रीगुरुपूज्यहर्षविनयश्रीसूरितः संस्तुति भक्तिव्यक्तितया ममेश विमलाद्रीन्द्रश्रियां मण्डनम् । त्वं संयच्छ भवे भवेऽभवभवं बोधि सुबोध्याङ्करं
दिव्यानन्ददधर्महंसललनाब्जप्राज्यराज्यश्रियम् ॥२१॥ , (अन्वयः) ईश ! इत्थम्, मम, भक्तिव्यक्तितया, संस्तुतिम्, इतः श्रीगुरुपूज्यहर्षविनयश्रीसूः विमलाद्रीन्द्रश्रियां मण्डनम्, त्वं, भवेभवे, अभवभवम्, सुबोध्याङ्करम्, दिव्यानन्ददधर्महंसललनाब्ज - प्राज्यराज्यश्रियं, बोधि, संयच्छ ॥२१॥
(वृत्तिः) ईश ! प्रभो ! इत्थम् - अनेन प्रकारेण मम - मल्लक्षणस्य जनस्य, भक्तिव्यक्तितया - भक्तिप्रवणत्वेन । संस्तुति - समीचीनस्तुतिम् । इतः - समधिगतः । श्रीगुरुपूज्यहर्षविनयश्रीसूः - श्रीगुरुतया - शोभाश्रेष्ठत्वेन पूज्याया अाया हर्षविनयश्रियः - प्रमोदनम्रतालक्ष्म्याः सूः कारणरूपः । विमलाद्रीन्द्रश्रिया - सिद्धाचललक्ष्म्याः । मण्डनम् - अलङ्काररूपः । त्वं श्रीमानादीशो भवान् । भवे भवे - प्रतिजन्म, अभवभवं - जननाभावावहम् । क्षेमक्षमम् अतिशयकल्याणस्वरूपम् । "भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः" इति मेदिनी । सुबोध्याङ्करं - सुबोध्याङ्करस्य स्वरूपम् । दिव्यानन्ददधर्महंसललनाब्जप्राज्यराज्यश्रियं - दिव्यानन्ददः - अलौकिकप्रमोददायकोऽयं धर्म एव हंसस्तस्य ललनाब्जं क्रीडनपद्ममेव प्राज्यं प्रभूतं राज्यन्तस्य श्रीलक्ष्मीस्तान्तथा बोधि - ज्ञानम् । संयच्छ - प्रदेहि।
Page #38
--------------------------------------------------------------------------
________________
सादर मे नमो नमः प्रो. कमलेशकुमार छ. चोक्सी
आदाने च प्रदाने च दीर्घोडदीर्घश्च जायते ।'
तस्मै हस्ताय देवाय सादरं मे नमो नमः ॥१॥ हनने रक्षणे चैव मृदुर्मूर्त्तश्च जायते ।
तस्मै हस्ताय देवाय सादरं मे नमो नमः ॥२॥ जीवने मरणे चैव विषममूतं च जायते ।
। तादृशायाऽलदेवाय सादरं मे नमो नमः ॥३॥ मोक्षाय ज्ञानसम्पनः बन्धायाऽज्ञानसम्पदः ।
तस्मै गुरुचरणाय सादरं मे नमो नमः ॥४॥ हर्षाय कल्प्यते यद्धि प्रान्ते शोकावहं भवेत् ।
.. तस्मै व्यसनदेवाय सादरं मे नमो नमः ॥५॥ विकासे साधनो यो हि विनाशे वेपनायते ।"
भौतिकाय विकासाय सादरं मे नमो नमः ॥६॥ यशो लभे धनं लभे लभे पदविमुत्तमाम् ।' .
लाभकरोडप्यलाभाय भाग्यदेवाय ते नमः ॥७॥ उच्चासीनैर्मया भाव्यम् इच्छा बोभूयते सदा ।
तादृश्यै इच्छादेव्यै दूरादस्तु नमो नमः ॥८॥
१. दीर्घा ह्रस्वश्च जायते । २. पात्रानुसारं आदाने दीर्घत्वम् प्रदाने हृस्वत्वम् इति विवेकः । कृपणाः दानिनश्च विरुद्धमाचरन्ति, अतः । ३. मूर्तम् अर्थात् कठोरम्, क्रूरम् वा । ४. (Weapon) वेपनम् नाम आधुनिकानि अस्त्र-शस्त्राणि । परभाषीयः शब्दोऽयं तथैवात्र स्वीकृतः । तस्य - संस्कृतभाषानुवादेन संस्कृतकोशे तादृशशब्दराशिवर्धने उत्साहाभावात् । अथ च संस्कृतमाश्रित्य कृते शाब्दबोधे वेपनम्
नाम कम्पः, वेपनम् इव आचरति (- उत्पादयति) इत्यर्थे नामधातुप्रयोगः । ५. पदविमुन्नताम् ।
संस्कृतविभाग, भाषासाहित्यभवन, गुजरात युनिवर्सिटी, अहमदाबाद-३८०००९ Email :
[email protected]
Page #39
--------------------------------------------------------------------------
________________
व्यङ्गयपृषताः आर्यागीतेषु
चाटुशास्त्रोपदेशः म.म. देवर्षिः कलानाथः शास्त्री
उच्चकलाशालातः, सम्पूर्य स्नातकोत्तरां कक्षाम् । जीवनसङ्घर्षऽहं प्रविविक्षुः, प्राणमं मदीयगुरुम् ॥१॥ गुरुवर्येणाऽऽशीभिः संयोजयता हि यत् समुपदिष्टम् । तत्त्वं तद् बहुमूल्यं मानसमथाऽपि मे प्रमथ्नाति ॥२॥ उपनिषदो विमृशद्भिस्तथ्यमिदं ज्ञातमेव विबुधैः स्यात् । यच्छिक्षायाः पूर्तावुपदेशो दीयते स्म शिष्येभ्यः ॥३॥ , ऋषिभिः पूर्व,रथ तु नव्यतमेऽस्मिन् युगे युगानुगुणम् । . वेदमनूच्याऽऽचार्योऽन्तेवासिनमेवमेवमनुशास्ति ॥४॥ वत्स ! त्वया गृहीताः सकला विद्याः, श्रुतिः, स्मृतिर्धर्मः । चाकोवाक्यं, दर्शनशाखा., व्याकरण-काव्यशास्त्र-भिदाः ॥५॥ इतिहासोऽथ पुराणं, राजनयोऽप्यर्थनीतिशास्त्रमपि । किन्त्वस्त्यपरं शास्त्रं, यदि तत् त्वं नैवं साधु जानीषे ॥६॥ नव्ययुगेऽस्मिन् कठिनं त्वत्साफल्यं स्ववृत्तियात्रायाम् । तत् रज्लु शास्त्रं चेतोहारिण्या अस्ति चाटुचर्यायाः ॥७॥ अनुकूलयति तदेवाधिकारिणं, मुख्यकार्यकारिगणम् । नाडद्यावधि साफल्यं केनचिदप्यधिगतं विना ह्येतत् ॥८॥ यद्यपि सैषा विद्या शालास्वध्याप्यते न कुत्राऽपि । तत्त्वज्ञेभ्यः प्रश्नैः, प्रणिपातैः सेवया च लभ्येयम् ॥९॥
30
Page #40
--------------------------------------------------------------------------
________________
प्रमुखं त्वस्यास्तत्त्वं तस्य जनस्य प्रसादनं गदितम् । स्तवनेन सेवनेन च यस्याऽस्माकं प्रयोजनं सिध्येत् ॥१०॥ अत्र हि मयका पृष्टं, “गुरुवर्य ! पुरायुगेऽपि भक्तगणैः । स्तोत्रैर्विविधैर्देवाः स्तूयन्ते स्मैव तान् प्रसादयितुम् ॥११॥ गुरुवर्येण स्पष्टं प्रतिपादयता प्रबोधितोऽत्राऽहम् । वत्स ! स्पष्टमवेहि, द्वावपि भिन्नौ, स्तुतिश्च, चाटुश्च ॥१२॥ सत्सु गुणेषु हि तेषां कथनं स्तुतिरित्युदीर्यते विबुधैः । चाटुकृतिस्तु विवरणं विविधगुणानामसत्स्वपि गुणेषु ॥१३॥ प्रमुखतया तद् द्विविधं वाचिकमपि चाटु, आङ्गिकं चाऽपि । वचनैः स्तवनं, तद्गुणविवेचनं भवति वाचिकं चाटु ॥१४॥ तदपि बहुविधं प्रोक्तं, नानासम्बोधनस्तरप्तमपैः । आख्यानं, तेन कृतं यत् कार्यं, तस्य दीर्घवर्णनिका ॥१५॥ किन्तु तदेतत् सर्वं मध्यमचाट्वे मन्यते लोके । उत्तमचाटुगुणानां प्रसारणं श्रव्यदृश्यमाध्यमतः ॥१६॥ तज्जीवनचरितानां मुद्रणमथवा प्रसारणं तेषाम् । साक्षात्कारविद्याभिः, सर्वमिदं कथितमुत्तमं चाटु ॥१७॥ अधमं याटु तु तस्मै, तत्पल्यै वोपहारदानं स्यात् । जन्मदिने वाऽन्यस्मिन्नुत्सवकाले तथैव तत्सेवा ॥१८॥ सत्ताधरं तु देवं देवीं वा संप्रकल्प्य तन्मूर्तेः । नीराजनं, तदर्थ स्तवान् विलेख्य, प्रसारणं तेषाम् ॥१९॥ तन्मन्दिरनिर्माणं “चालीसा"ख्यस्तवैस्तदाशंसा । सर्वमिदं चाटुकारैः क्रियते तद् हाऽधमाधमं चाटु ॥२०॥ यदि तेन काचिदुक्ता, विनोदगर्भाउल्पिका विदग्धोक्तिः । तदुपरि मुक्तं हास्यं विबुधैर्मतमेकमाङ्गिकं चाटु ॥२१॥ यदि मञ्चोपरि सोऽयं प्रभाषते, तस्य वाक्यसम्पूर्ती । करतलताडनशब्दैः प्रसादनं तस्य, मन्यते परम् ॥२२॥ मयका सविनयमुक्तं, “गुरुचरणाः ! वाचिकाङ्गिकादिकतः । अपरोऽप्येको भेदश्चाटूक्तेर्विस्मृतः कथं भवता ? ॥२३॥ लिपिगतमेकं चाटु प्रायः परिदृश्यते युगेऽस्माभिः । . एकमपि "श्री"ति पदं पर्याप्तं भवति पूज्यनामतः पूर्वम् ॥२४॥
Page #41
--------------------------------------------------------------------------
________________
किमिति तदाऽप्यष्टाधिकशतं सहस्रं प्रयुज्यते श्रीणाम् । कतिपयनाम्नां स्तुतये, यद्यपि ते मानवा, न देवास्ते ॥२५॥ तदेदं श्रुत्वा गुरवः प्रोचु - "र्वत्स ! त्वयाऽर्जिता विद्या । स्फुरणाऽपि च सञ्जाता, गच्छ, भविष्यस्यसंशयं सफलः ॥ २६ ॥ यस्मिन्नपि कार्ये त्वं नियोजितः स्याः, कुरुष्व विद्यायाः । अस्याः स्फुटं प्रयोगं, सेयं भवतारिणी परा विद्या ॥२७॥ सत्तासीनानां खल्वभिनन्दनमुच्यतेऽपरा विद्या । मानदशिक्षा विद्योपाधिजलैस्तर्पणं परा विद्या ॥२८॥ अस्यां शिक्षणसंस्थासञ्चालक एव केवलं क्षमते । बिरुदार्पणविद्यायां तदिदं खलु कारणं परत्वस्य ॥२९॥ देशेऽस्मिन् नृपतीनां स्वर्गमनानन्तरं यथा पूर्वम् । तेषां कुलधुर्याः खल्ववहन् राज्याधिकारमर्यादाम् ॥३०॥ नूलेऽप्यद्य युगेऽस्मिन् प्रमुखानां देश- लोक-नेतॄणाम् । वंशजरत्नैरेव प्रायः सत्ताधुरा विधार्येत ॥३१ ॥
अत एवाऽद्य विशिष्टां ये सत्ताधारिणो युगप्रमुखाः । तेषां कुलधुर्यः को योग्यः ? तत्राऽवधानमादध्याः ॥३२॥ तस्याऽनुसरणकार्ये साम्प्रतमेवाऽस्ति यो युवा कुशलः । तस्य भविष्यत्कालः स्वर्णमयः स्यादिदं दृढं वच्मि ॥३३॥ इदमत्र प्रतिबोध्यं यत् सत्तायाश्च सद्गुणानां च । अविनाभावाख्यः खलु सम्बन्धोऽस्मिन् नवे युगे भवति ॥ ३४ ॥ सत्ताssसीने हि जने येऽस्माभिः सद्गुणाः स्तुता अद्यं । पञ्चसु वर्षेष्वथवा कदाऽपि केनाऽपि कारणेन स वै ॥३५॥ यदि सत्तातश्च्यवते, तस्मिन् दृश्यते नैककोऽपि गुणः । ते प्रत्यागच्छेर्यदा परावर्तते पुनः सत्ता ॥३६॥ समवायिकारणं त्वं सकलगुणानां; निषेव्यते लोकैः । जगति स, यस्त्वां धत्ते, भगवति सत्ते ! नमो नमस्तुभ्यम् ॥३७॥
~~~X~~~
३२
C/8, पृथ्वीराज रोड़, सी. स्कीम, जयपुर
Page #42
--------------------------------------------------------------------------
________________
(१) सत्यम्
यथा दृश्य यावद् दृश्यते
तथैव
तावदेव
न भवति सत्यम्, तद्भवति
तस्मादप्यतिरिक्तं तस्य दर्शनात्पूर्वं
तस्य कृते कृतसंघर्षे ॥
कवितायी
प्रा. कौशल तिवारी
(२) विपरीतं भाग्यम्
विपरीते भाग्ये
मूका भवति घोषवती वीणा,
लुप्ता भवति कुत्रचिद् अभिज्ञानमुद्रिका,
अपवादः प्रसरति
प्रमत्तशुनः विषमिव सर्वत्र,
आकाशमार्गात्पतति
काsपि शापिता माला,
प्रमादो भवति
स्वकर्तव्ये,
कदाचिद्
दुर्दैवस्याऽपि भवेद् विपरीतं भाग्यम्
॥
~~~X~~~
३३
(३) प्रियसङ्गः
प्रियसङ्गोऽस्ति
शीतकाले सूर्यातपः सम्पूर्णदेहे,
ग्रीष्मकाले शीतलवायुवेगो
मधुरसङ्गीतेन सह
गाढतमसि चन्द्रालोकः
तारकानां वरयात्रायाः सार्धम्,
च्युतमार्गे मार्गदर्शको
हस्तं गृहीत्वा,
लक्ष्यमार्ग मील प्रस्तरः
किञ्चिद्-विश्रमार्थम्,
रोदनकाले स्कन्धो ऽवलम्बनार्थम्,
प्रियसङ्गो
न भवति कदाचिदप्यसङ्गतः ॥
मालादेवी मौहल्ला, वार्ड नं. ३६, बारां, जिला बारां, राजस्थान - ३२५२०५
Page #43
--------------------------------------------------------------------------
________________
अन्तरालापाः
मुनिन्यायरत्नविजयः (१) दुःखं नास्ति प्रियं केषाम् ?
सर्वेषां किं प्रियं मतम् ? किं विना जीवनं व्यर्थम् ?
सर्वेषां जीवनं प्रियम् ॥ (२) जडेभ्यो विपरीतः कः ?
मरणं कस्य नो भवेत् ? पुण्यं विना हि किं व्यर्थम् ? जीवो जीवस्य जीवनम् ॥
(३) आपदि शरणं कस्य ?
निर्भयं जीव्यते कथम् ? | धर्मस्य च फलं कीदृग् ?
जिनस्य शरणात् शुभम् ॥ (४) कस्मै कार्याय जीव्येत ?
समाधिना च किं भवेत् ? देवाग्रे किं न याच्यं स्यात् ?
श्रेयसे मरणं वरम् ॥ (५) षायाणां नु को मुख्यः ?
वक्तव्यं कीदृशं सदा ? जीवनं किमधन्यस्य ?
अभिमानः प्रियं धनम् ॥ (६) कार्यारम्भे हि किं कार्यम् ?
विनीतानां च कः प्रियः ? संसारपारगामी कः ? मङ्गलं गौतमः प्रभुः ॥
(७) संसारोत्तारकाः के नु ? .
किं ग्राह्यं च हितार्थिना ?. कुत्र न रज्यति साधुः ?
गुरवः शरणं भवे ॥ (८) आपद्यपि न कस्त्याज्यः ?
कार्यं पराजितस्य किम् ? धार्या च धीरता कुत्र ?
धर्मः शरणमापदि ॥ (९) कीदृशा ज्ञानिनो ज्ञाने ?
उद्यतः केषु मा भव ? नन्दन्ति कलिकाले के ?
रताः पापेषु पापिनः ॥ (१०) कीदृशः कथितः क्रोधः ?
सरलो वर्तते न कः ? पालनीयाः कदा जीवाः ?
हेयः खलस्तु सर्वदा ॥ . (११) कस्मात् बिभेति सर्वोऽपि ?
. क्रूरतरो मतश्च कः ? पिशाचो भाति कीदृक् च?
सात् खलः भयङ्करः ॥ (१२) स्वाध्याये नु रमन्ते के ?
सदैव सुखिनश्च के ? जीवाश्च दुःखिनः कुत्र ? साधवो निस्पृहाः भवे ॥
३४
Page #44
--------------------------------------------------------------------------
________________
अन्तरालापा:
डॉ. वासुदेवः वि. पाठक
श्रीकृष्णस्य प्रिया काऽस्ति ? शिखी मेघे करोति किम् ? कृष्णस्य कीदृशं रूपम् ? राधा नृत्यति मोहकम् ॥
किमिच्छन्ति जनास्सर्वे ? महत्त्वं कस्य जीवने ? किं कुर्वन्ति महावीराः ? सुखं स्वास्थ्यस्य रक्षणम् ॥
कस्य सेवा मुदा कार्या ? विचार्यं किं विशेषतः ? कथं गण्यं च सत्कार्यम् ? राष्ट्रस्य हितमुत्तमम् ॥
सत्सङ्गतिः कथं ज्ञेया ? . का माता ज्ञानदायिनी ? जनन्याः कीदृशी प्रीतिः ? सारदा शारदा वरा ॥ जीवने हानिवार्यं किम् ? यमुना कस्य वै सुता ? गुरोः कृपा कथं प्राप्या ? स्वास्थ्यं सूर्यस्य सेवनात् ॥
अभिज्ञः कस्स्मृतो लोके कश्चाऽस्ति सर्वकामदः ? यस्य नास्ति व्ययस्सः कः ? ईशानः प्रभुः अव्ययः ॥
कस्पाऽस्ति चञ्चलत्वं रे ? कश्व शान्ति प्रयच्छति ? सङ्कल्पः कीदृशः कार्यः ? मनसः संयमः शुभः ॥
केषां सङ्गे सदानन्दः ? केनाऽस्ति गुणदोषता ? कस्स्वभावश्च पुष्पाणाम् ? सतां सङ्गेन फुल्लता ॥
जीवति सुखपूर्व कः ? सेवानिष्टश्च को वर: ? शिष्योत्कर्षे रतः कश्च ? नीतिमान् धार्मिको गुरुः ॥
३५४, सरस्वतीनगर, आंबावाडी,
अहमदाबाद-३८००१५.
३५
Page #45
--------------------------------------------------------------------------
________________
आस्वाद:
स्मृतिः मुनिकल्याणकीर्तिविजयः
स्मृतिरेका शक्तिरस्ति, सूक्ष्मा शक्तिः । एषा शक्तिींवनेऽत्यन्तमुपयोगिनी । अस्या आवश्यकताऽनिवार्यता च पदे पदे भवतीत्यस्माकं सर्वेषामनुभवः । यदा च कुतश्चित् कारणात् सा विस्मृत्याऽऽक्रान्ता भवति तदा वयं कीदृशीमसहायकतां शक्तिहीनतां चाऽनुभवाम इत्यपि सर्वेषामनुभूतचरमेव । किन्तु सा स्मृतिः कथमुत्पद्यते, कथं च स्थिरीभवति, कथं दृढा गाढा च भवति, कथं क्षीणा नष्टा च भवति - इत्येतत् सर्वं विचारयामः किञ्चित् ।
____ वयं यत् किमपि कार्यं कुर्मः - चलामो विशामः खादामः पठामः शयामहे यजामहे भजामहे वा तस्य सर्वस्याऽपि काचन छाया काचन वासना केचन वा संस्कारा अस्माकं चित्ते संश्लिष्यन्ते । कार्य तु स्वकाले समाप्तं भवति । परं तस्य ये संस्काराश्छायारूपा वासनारूपा वा चित्ते संश्लिष्टा भवन्ति ते एव स्मृतिरिति कथ्यन्ते । एवं च स्मृतिः का कथं च सोत्पद्यते इति विचारितम् ।
सा पुनः कथं स्थिरीभवति? यतो वयमादिनं सङ्ख्यातीतानि कार्याणि कुर्मः । प्रत्येकं कालखण्डो नूतनकार्यैर्व्याप्तो भवति । एवं च स्थिते चित्तमपि प्रतिक्षणं नवनवैः संस्कारैराक्रान्तं भवति । तत् कथमेते सर्वेऽपि संस्काराः स्मृतिरूपेण स्थिरीभवन्ति ? - इत्येकः प्रश्नः । अपरश्च वयं यानि सङ्ख्यातीतानि कार्याणि कुर्मस्तानि सर्वाण्यपि समुचितान्युपयोगीनि वा न भवन्ति । ततश्च यदि तेषां सर्वेषामपि संस्काराश्चित्ते संश्लिष्यन्ते तदा चित्तमनुपयोगिभिः संस्कारैर्भूतं सत् उपयोगिसंस्काराणां कृते प्रस्तुतं नैव भवेत् कदाचित् । तदा च किं स्यादित्यपि प्रश्नः ।
अत्र चेदं समाधानं यत् - चित्तं विवेकयुतं भवति सर्वदा । तत् खलु सर्वेषामपि संस्काराणां भारं नैव वहेत् कदाऽपि । ये संस्कारा उपयोगिनः स्युस्तानेव चित्तं सन्धारयति ये च निरर्थकाः स्युस्तान् संस्कारान् चित्तं दूरं निःसारयति । नन्वेतदपि कथं ज्ञायते यदमुकसंस्कारा एवोपयोगिनोऽन्ये तु निरर्थकाः इति ? तत्राऽप्यस्त्येव समाधिर्यत् - यानि कार्याणि वयं पूर्णमनोयोगेन चित्तं स्थिरीकृत्य कुर्याम, भवन्तु तानि शुभान्यशुभानि वा, तेषां संस्कारा उपयोगिनः - इति निश्चिनोति चित्तं, तानेव च सन्धारयति । यानि कार्याणि शुभान्यशुभानि वा यथाकथञ्चित् अन्यमनस्कतयोपेक्षया वा वयं कुर्याम तेषां संस्कारा अनुपयोगिन
३६
Page #46
--------------------------------------------------------------------------
________________
इति मत्वा तान् सर्वथा निष्कासयति चित्तम् । ततश्च तन्निर्भारं भवति ।
एवं च विवेकवता चित्तेन ये उपयोगिनः संस्काराः संगृहीतास्ते एव स्मृतिरूपेण स्थिरीभवन्ति । ततश्च कार्यकरणकाले सा स्मृतिः संस्कारोबोधनं कृत्वोपयोगिनी भवति ।
यदा च वयं तान्येव पूर्वं कृतानि कार्याणि - शुभान्यशुभानि वा - तयैव रीत्या पूर्णमनोयोगेन रसपूर्वकं कुर्याम, वारं वारं, तदा तेषां संस्काराः पुनः पुनश्चित्ते संश्लिष्यमाणा गाढा दृढाश्च भवन्ति । ततश्च तदनुसारं जाता स्मृतिरपि गाढा दृढा चैव भवति ।
यदा च तान्येव कार्याणि पूर्वं पूर्णमनोयोगेन कृत्वाऽपि पश्चात् केनचिद् वा निर्वेदादिना कारणेनोपेक्षमाणस्य तेभ्यश्च कार्येभ्यो निवर्तमानस्य तेषां कार्याणां संस्काराः क्षीणा भवन्तः शनैः शनैर्नष्टा अपि भवन्ति । ततश्च स्मृतिरपि विस्मृतित्वेन परावर्तमाना क्षीणा नष्टा च भवन्ति ।
ततश्च स्थितमिदं यत् स्मृतिस्तदैवोत्पद्येत स्थिरा दृढा गाढा च भवेत् यदा नो मनस्तत्तत्कार्येषु सम्यगवाधानवत् स्यात् । यदि तदवधानवन्न भवेत् तदा स्मृतिर्नोत्पद्येत कदाचिदुत्पन्नाऽपि च स्थिरा दृढा गाढा च नैव भवेत् । यद्यस्माकं मनः शुभकार्येषु सावधानं स्यात् तदा ततो जाता स्मृतिरपि शुभैव भवेत्, यदि चाऽशुभकार्येषु सावधानं स्यात् तदा ततो जाता स्मृतिरप्यशुभैव भवेत् ।
____ अद्यत्वे ह्यस्माकं मनः प्रायोऽशुभव्यापारेष्वेवाऽधिकतया संलग्नं भवति, अतोऽशुभस्मृतिभिरेवाऽस्माकं चित्तमाक्रान्तं भवति । शुभस्मृतीनां कृते तत्राऽधिकावकाशो नैव भवति । एतेनाऽशुभव्यापाराणां दुश्चक्रमारब्धं भवति । यथा, अशुभव्यापारैरशुभस्मृतयः, ताभिश्च पुनरशुभव्यापारपूर्णाः प्रवृत्तयः, ततश्च पुनरशुभस्मृतयः । ततश्च शुभकृते तत्र स्थानमेव नैव भवेत् । एतन्नैवोचितम् । अस्माभिविवेकवद्भिर्भाव्यम् । अस्माभिः प्रयत्नपूर्वकं मनोऽशुभव्यापारेभ्यो निरर्थककार्येभ्यश्च निवारणीयं सादरं च शुभकार्येषु योजनीयम् । अत्र प्रारम्भे त्ववश्यं काठिन्यमनुभूयेत, निविण्णताऽपि संभवेत्, किन्तु सर्वमप्येतत् सर्वथाऽविचलिततयाऽवगणय्य सावधानतया शुभव्यापारेषु यो निरतो भवेत् तस्य चित्तं शनैः शनैरशुभसंस्कारान् रिक्तीकृत्य शुभसंस्कारैर्वासितं भवेत्, क्रमशश्च तत् सर्वथा निर्मलीभूय शुद्धः पथि समग्रेसरं भवेत् । एतस्याऽन्येऽपि लाभा बहवो भवन्ति, यथा - अस्माकं स्मृतिशक्तिरुत्तरोत्तरं वर्धमाना भवेत्, तीव्रा तीक्ष्णा च भवेत्, जीवनक्रमोऽपि निर्मलो निराबाधश्च भवेत्, सत्त्वगुणवृद्धिश्च स्यात्, जीवनपर्यन्तं च स्मृतिशक्तिः स्थिरा वर्धमाना च भवेत् ।
___एतद्विपरीततया यद्यशुभव्यापारेष्वेव मनो लग्नं भवेत् तत्रैव च सुखं मोदं चाऽनुभवेत् तदा दुश्चक्रपतितं मनः कुसंस्कारैर्वासितं सत् मलिनं जायमानं तमोगुणेनाऽऽक्रान्तं भवेत् ततश्च तत् संमूढं जायमानं स्मृतिभ्रंशं प्राप्नोति । स्मृतिभ्रंशाच्च सर्वविधा आपदस्तस्य सुलभा एव । अतः सायासं सनिर्बन्धं च मनोऽशुभप्रवृत्तिभ्यो विनिवार्य शुभे नियोजनीयं सर्वथा । एष एव परमसुखप्राप्ते राजमार्गः ॥
(सङ्कलितोऽयं लेखो विविधमूलेभ्यः)
३७
Page #47
--------------------------------------------------------------------------
________________
आस्वाद:
वैराग्यसत्सङ्गाभ्यां भगवत्प्राप्तिर्भविष्यति। डॉ. आचार्य रामकिशोर मिश्रः
एतदस्माकं भारतमस्ति, यत्र जन्म गृहीतुं देवता अपि वाञ्छन्ति । यथा -
अहो ! अमीषां किमकारिशोभनं, प्रसन्न एषां स्विदुत स्वयं हरिः । ..
यैर्जन्म लब्धं नृषु भारताऽजिरे, मुकुन्दसेवौपयिकं स्पृहा हि नः ॥ मनुष्यजीवनस्यैकैकश्वासोऽमूल्योऽस्ति । मानवोऽयमीश्वरकृपया वैराग्यसत्सङ्गाभ्यां परमपदं प्राप्तुं शक्नोति, परन्तु वयं मोहमदिरां पीत्वा मोहिताः स्मः । भगवता कृष्णेन मोहत्यागार्थमर्जुन उपदिष्टः । यथा
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय ! न तेषु रमते बुधः ॥ - श्रीमद्भगवद्गीता-५/२२ अतः समस्ततपस्सु वैराग्यं परमं तप उच्यते । यथा -
तपसामपि सर्वेषां वैराग्यं परमं तपः । सांसारिकपदार्थेषु रागस्तस्य त्यागाद् वैराग्यं भवति । संसारे धनसम्पत्त्याः स्त्रीभिर्मनुष्यस्य तृप्तिर्न भवति । यथा -
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।।
एकस्याऽपि न पर्याप्तमिति मत्वा शमं व्रजेत् ॥ कामनान्ते शान्तिर्भवति । जगति यत्सुखं स्वर्गे च यत्सुखम्, तत्सर्वं तृष्णानाशात् प्राप्तेन सुखेन समं नास्ति । यथा -
न सुखं देवराजस्य, न सुखं चक्रवर्तिनः ।
यत्सुखं वीतरागस्य मुनेरेकान्तजीविनः ।। राज्ञा भर्तृहरिणा कथितं -
३८
Page #48
--------------------------------------------------------------------------
________________
एकाकी नि:स्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शम्भो ! भविष्यामि कर्मनिर्मूलने क्षमः ॥ अतो वैराग्यं विहाय निर्भयस्थानमपरं नास्ति । यथा
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद् भयम् । माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् । शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद् भयम् । सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाऽ ऽभयम् ॥ अग्रे भर्तृहरिणा कथितं
-
भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः । कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ आशपिशाचिनीकारणादेव जीवनस्य दुर्दशा भवति । श्रीमता शङ्कराचार्येण गदितं
अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥
अतो यस्य शरीरे वैराग्यं, तस्य शरीरनाशान्न भयमस्ति । यथा कथितं
-
अवश्यं, यांतारश्चिरतरमुषित्वाऽपि विषयाः, वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥
अत एव भर्तृहरिणा कथितं
-
—
३९
-
अजानन् दाहार्तिं पतति शलभस्तीव्रदहने,
न मीनोऽपि ज्ञात्वा बडिशयुतमश्नाति पिशितम् । विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्, न मुञ्चामः कामानहह ! गहनो मोहमहिमा ॥
अतो वैराग्यशस्त्रेण मोहमूलं नश्यते । सत्सङ्गजातज्ञानेनाऽपि मोहनाशो भवति । सत्सङ्गस्य तात्पर्यमस्ति सदि - आसक्ति: । 'सत्' शब्दो गीतायां परमात्मने प्रयुक्तः । यथा - ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । यस्य कदाऽप्यभावो नास्ति । कथितमत्र • नाभावो विद्यते सतः । ईदृशमव्ययं सद् परमात्मैव । यथा
-
Page #49
--------------------------------------------------------------------------
________________
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्याऽस्य न कश्चित्कर्तुमर्हति ॥ सा सत्ता, यस्यां सम्पूर्णसंसारो व्याप्तः, तत्सत्परमात्मैव । भगवता स्वयमुक्त -
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ॥ यस्य वर्णनं श्रुतिरित्थमेव करोति – तत्सृष्ट्वा तदेवाऽनुप्राविशत् । अर्थात् स परमात्मा सृष्टिं कृत्वा स्वयं स्थावरजङ्गमादिसर्वभूतेषु व्याप्तः । अतः श्रीकृष्णोऽर्जुनं कथयति -
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ! ॥ अत्र भगवता कृष्णेन 'सङ्गवर्जितः' कथितः । सङ्गः - आसक्तिरात्मनो बन्धनमस्ति । स एव सङ्गो यदा भगवतो भक्तान् प्रति भवति, तदा स मोक्षं ददाति । यतो हि सत्समाजे सदा भगवद्गुणचर्चा भवति, सा चर्चा मोक्षाऽभिलाषिजनस्य बुद्धि भगवद्वासुदेवे स्थापयति । यथा -. ..
यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविधातः ।। निषेव्यमाणोऽनुदिनं मुमुक्षोर्मति सतीं गच्छति वासुदेवे ॥
- श्रीमद्भागवतम् - ५/१२/१३ अतः सत्कथां = हरिकथां विहाय सर्वमसत् । यथोक्तं -
मृषा निरस्ता ह्यसतीरसत्कथा न कथ्यते यद्भगवानधोक्षजः । तदेव सत्यं तदुहैव मङ्गलं तदेव पुण्यं भगवद्गुणोदयम् ॥
. - श्रीमद्भागवतम् - १२/१२/४८ सत्सङ्गसुधारसपिपासुभक्तराजध्रुवः सत्सङ्गाय भगवन्तं प्रार्थयति -
भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो भूयादनन्तमहताममलाशयानाम् । येनाऽञ्जसोल्बणमुरुव्यसनं भवाब्धि नेष्ये भवद्गुणकथामृतपानमत्तः ॥
- श्रीमद्भागवतम् - ४/९/११ इत्थं भगवतोऽविचलभक्त्या जीवन्मुक्तिः प्राप्यते -
सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम ।
निर्मोहत्वे निश्चलत्वं निश्चलत्वे जीवन्मुक्तिः ॥ जीवन्मुक्त्या भगवत्प्राप्तिर्भवतीति शम् ।।
Page #50
--------------------------------------------------------------------------
________________
पत्रम्
मुनिधर्मकीर्तिविजयः
.६
आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । वयं सर्वेऽपि कुशलाः स्मः । तत्राऽपि सर्वे कुशलाः स्युरित्याशासे ।
सूरतनगरे चातुर्मासी समाप्य नवसारी-वलसाड-धरमपुर-इत्यादिकानि नगराणि विहृत्येदानी कर्णावतीनगरे समागताः स्मः ।
अद्य जीवनविषयकं किञ्चिल्लिखामि । सर्वेषां प्राणिनां जीवनं भिन्न भिन्नं तथा स्व-स्वप्रकृत्यनुरूपमेव स्यात् । सूक्ष्मजन्तवो जीवन्ति, कुञ्जरा जीवन्ति, वने वसन्तोऽनभिज्ञभिल्लजना अपि जीवन्ति तथा नगरे वसन्तः शिक्षिताः संस्कारिजनाश्चाऽपि जीवन्ति । एवं वस्तुतोऽस्यां पृथिव्यां जन्मधारिणः सर्वेऽपि जीवाः स्वप्रकृत्यनुरूपं स्वस्थानमाश्रित्य जीवन्ति ।
किं नाम जीवनम् ? एष प्रश्नो महत्त्वपूर्णोऽस्ति । जन्मधारणं, आहारकरणं, क्रीडनं, शयनं, धनार्जनं, विवाहकरणं, पुत्रोत्पादनं, प्रान्ते प्राणमोचनं चैतदेव जीवनम् ? एतत्तु सर्वेऽपि जीवाः कुर्वन्त्येव ।
४१
Page #51
--------------------------------------------------------------------------
________________
बन्धो ! जीवनं नाम, सर्वेषामपि जीवानां शुभार्थे स्वशक्त्यनुरूपं प्रयत्नो विधेयः, न केषाञ्चिदप्यशुभं करणीयं, न केषाञ्चिदपि तिरस्कारः करणीयः, न च केषाञ्चिदपि निन्दाऽवहीलना च करणीयेति । सर्वेऽपि जीवाः पूर्वकृतकर्मानुसारेण कर्म कुर्वन्ति, किन्त्वार्यदेशे सुकुले जातानां जीवानां तु विशेष कर्तव्यमस्ति, यज्जीवने सत्कार्यं विधायाऽऽत्मनो गुणविकास: करणीयः, इति ।
कर्मणः सरलः सिद्धान्तोऽस्ति । यादृशं कर्म क्रियते तादृशं फलं प्राप्यते जीवेन । पूर्वभवे यादृशं दुष्कृत्यं कृतं स्यात् तदनुरूपा गतिस्तथा तदनुरूपं दुःखादिकं चाऽपि प्राप्यते जीवेन । एवं सत्कृत्यं कृतं स्यात् तदनुरूपा गतिर्दुःखादिकं चाऽवाप्यते जीवेन । ये केचित् जीवाः पूर्वकृतकर्मानुसारेणाऽस्मिन् भवेऽशुभं कार्यं कुर्वन्ति, ये केचित्तु सज्जनाः श्रेष्ठकुले जन्माऽवाप्याऽपि मलिनं कार्यं कुर्वन्ति तेषां जीवानां निन्दा कथं करणीया ? यतः पूर्वभवे कृतस्य दुष्कृतस्य विपाकरूपेणैव जीवा अशुभकार्यं कुर्वन्ति । .तव चित्ते प्रश्नो भवेदेव, यत् प्रतिष्ठितकुलजाताः शिक्षितजना अपि मलिनं कार्यं कथं कुर्युः ?
बन्धो ! तेऽपि दुष्टकार्यं कुर्वन्ति, अत्राऽऽश्चर्यं न किमपि । उच्चकुले जन्मधारणस्य कारणं भिन्न तथाऽशुभकार्यकरणस्य कारणं भिन्नमस्ति । अतो ये केऽपि मलिनं कार्यं कुर्युः, तेषां निन्दा न विधेया, अपि त्वनुकम्पैव करणीया । कृष्णभगवतो मातुलं कंसराजानं स्मर । स तूच्चकुले जातः । तेन स्वार्थवशेन स्वभगिन्याः पुत्रा हताः । तत्तोऽधिकतरं दुष्कृत्यं किं स्यात् ! अतो धर्मिजनानां कृते कस्याऽपि निन्दाकरणं नोचितम् । एतदेव जीवनस्य साफल्यमस्ति, एषैव जीवनस्य गणनाऽस्ति ।
___ गणनस्य दृष्टान्तेन सह जीवनगणनस्य तुलना करणीया स्यात् । यो जीवनगणनस्य रीतिं ज्ञातुं शक्नुयात्, स जीवनेऽनेकसिद्धीः संप्राप्य जीवनस्य साफल्यं प्राप्नोति, एवं चाऽध्यात्मिकविकासमप्यवाप्नोति । जीवने सारल्यं काठिन्यं च सापेक्षतया वर्तते । यो जीवनगणनस्य रीतिं सत्यतया प्राप्नोति तस्य कृते काठिन्यं प्रातिकूल्यं चाऽपि सरलयतयाऽऽनुकूल्यरूपेण च परिवर्तितं भवति । अस्माकं दुर्भाग्यं यद्, अस्माभिर्जीवनगणना कृता, किन्तु विपरीततयैव, ततः कथं साफल्यं प्राप्यते ?
बन्धो ! सर्वेर्जनैः कर्मानुरूपं कार्य क्रियते, ततः केषाञ्चिदपि निन्दादिकमकृत्वा सर्वैः सह सारल्ययुतो व्यवहारः करणीयः, स एव जीवनगणनस्य श्रेष्ठा रीतिरस्ति, एष एव कल्याणमार्गोऽस्ति । कल्याणमार्गरूपं सारल्यं विहाय कौटिल्यं संघर्षः क्लेशोऽनीतिरसत्यं चैवाऽऽचर्यतेऽस्माभिस्तहि जीवनं निरर्थकमेव व्ययीक्रियते ।
जीवनं सफलं कर्तुं स्वस्थभावोऽनिवार्योऽस्ति । स्वस्मिन् तिष्ठति स स्वस्थः । यः समीपस्थजनानां शुभमशुभं वाऽऽचरणं दृष्ट्वा ज्ञात्वा चाऽपि मनसि न हर्षं न च शोकं करोति, न चाऽन्येषां कृत्यं निरीक्ष्याऽभिप्रायं ददाति स स्वस्थ उच्यते । वयं तु प्रतिक्षणं प्रमोदमुद्वेगं च प्राप्नुमस्तथा न्यायाधीशवत् सर्वेषां न्यायं कुर्मो वयं सर्वदा । एवं कुर्वन्तो वयं कथं स्वभावस्था उच्यामहे ?
एकः प्रसङ्गः स्मर्यते -
४२
Page #52
--------------------------------------------------------------------------
________________
एको बालको नदीतटाद् गच्छन्नासीत् । एको वृश्चिको जले पतितस्तेन दृष्टोऽतो धावित्वा झटिति सतं हस्ताभ्यां गृहीतवान् । वृश्चिको बालकस्य हस्तोपरि दष्टवान् तद्धस्ताच्च पुनर्जले पतितः । बालकेन शनैरत्यन्तकोमलतया स जलादुद्धृतः । क्षणान्तरेण तेन वृश्चिकेन बालको दष्टः, जले च पतितः । पुनरपि तेनोद्धृतो दष्टवान् । तदा नदीतटे आसीनः कश्चिदपि साधुरवोचत् - रे बालक ! किं मूर्खोऽसि ? वृश्चिक: पुनः पुनर्दशति तथाऽपि कथं तस्य दयां करोषि ?
बालक उक्तवान् - दशनं तस्य स्वभावोऽस्ति । मम स्वभावोऽस्ति - क्षमा करुणा च । पूर्वभवकृतकर्मवशेन एष वृश्चिकः सूक्ष्मजन्तुरूपेण जातः । तज्जातिस्वभावाद् दशति, किन्तु एतादृशानां दुर्बलजन्तूनामनुकम्पैव करणीया, एष मम स्वभावो धर्मश्चाऽस्ति ।
बन्ध ! दुर्जनः सर्वदा दुर्जन एव न भवेत् । कर्मपरिवर्तनेन दुर्जनोऽपि सज्जनो भवितुं शक्तोऽस्ति । यदि दुर्जनः सदा दुर्जन एव भवेत्तर्हि प्रभुनामस्मरणं, प्रभुवचनश्रवणं, प्रभुपूजनं तपःकरणं चेत्यादिकं धर्मानुष्ठानं न कुर्यादेव कोऽपि जीवः, यत एतैः को लाभः ? अस्माभिः श्रूयते एवैष दुष्टोऽपि साधुजनसङ्गेन सज्जनो जातः, एतदेव सूचयति केषाञ्चिदपि परिवर्तनं शक्यमेवाऽस्ति ।
-
चेतन ! 'वालियो' लुण्टाक एव 'वाल्मीकि' - ऋषित्वेन विख्यातो जातः । अद्य सर्वेऽपि जीवाः तत्प्रणीतं रामायणं पठन्ति पूजयन्ति च । तत् पठित्वाऽनेके जीवाः सन्मार्गे संस्थिरा जाताः । एवं परिवर्तनस्य संभावना सर्वेष्वपि जीवेषु भवत्येव । अव्यक्तचैतन्यवति वृक्षेऽपि परिवर्तनं भवेत् तर्हि व्यक्तचैतन्यवति मनुष्ये कथं परिवर्तनं न स्यात् ? शुष्को वृक्षोऽपि जलादिसेचनेन पल्लवितो भवतीति वयं जानीम एव ।
अन्यैर्दृष्टान्तैरलम् । महावीरपरमात्मानं स्मर । न केवलं भारतदेशे, अपि तु विश्वस्मिन् विश्वे यस्य नाम विख्यातमस्ति, तत्प्रस्थापितानां सिद्धान्तानां समादरं वैदेशिकाः जना अपि कुर्वन्ति तस्य महावीर - प्रभोरष्टादशमं भवं स्मर ।
स महावीरप्रभुरष्टादशमे भवे त्रिपृष्ठनामा वासुदेव आसीत् । एकदा रात्रौ सङ्गीतसभा प्रचलन्त्यासीत् । वासुदेवः शय्यापालकमादिष्टवान् - यदाऽहं स्वप्यां तदा सभां विसृजेः इति । वासुदेवः शयितवान् । मधुरगानासक्तः शय्यापालको वासुदेववचनं विस्मृतवान् । वासुदेवो जागृतः । प्रवर्तमानां सङ्गीतसभां निरीक्ष्याऽत्यन्तं क्रुद्धो जातो वासुदेव: । तेनोक्तं - शय्यापालक ! किं ममाऽऽदेशादपि मधुरगानं प्रियं जातं, लभस्व तत्फलम् । तत्क्षणं शय्यापालकस्य कर्णयोः तप्तः सीसकरसः प्रक्षिप्तो वासुदेवेन ।
पश्य, एतादृशनिन्दनीयकार्यकारकोऽपि तीर्थकररूपेण जातः । एतदेव सूचयति यत्, सर्वेषामपि जीवानां परिवर्तनं शक्यमस्ति ।
बन्धों ! एतत्तु कदाऽपि न विस्मर्तव्यं, यत् सर्वेषामपि जनानां हृद्यत्यधिकमात्रया सद्गुण-दुर्गुणाः भवेयुरेव । तत्तन्निमित्तमवाप्य ते गुणाः प्रकटीभवन्ति । इदानींतनो दुर्जनो भविष्यत्काले सज्जनो भवितुं शक्तः, एवं वर्तमानकाले संदृश्यमानः सज्जन आगामिकाले दुर्जनो भवेत्, अतो यदि त्वमात्मोन्नति
४३
Page #53
--------------------------------------------------------------------------
________________
मिच्छेस्तर्हि कस्यचिदपि भूतकालीनं कृत्यं न पश्येस्तथा न च तस्य दुष्कृतस्य निन्दामपि कुर्याः, किन्तु तस्याऽनुकम्पामेव कुर्याः ।
जीवनगणनस्य दृष्टान्त एष एव, यद् व्यक्तेभविष्यत्कालं संलन्य भूतकालीनकार्यस्योपेक्षा करणीया। एष एव कल्याणमार्गोऽप्यस्ति । पूज्यपादश्रीहरिभद्रसूरीश्वरः प्राह -
पापवत्स्वपि चाऽत्यन्तं स्वकर्मनिहतेष्वलम् ।
अनुकम्पैव सत्त्वेषु न्याय्यो धर्मोऽयमुत्तमः ।। महोपाध्यायश्रीयशोविजय उवाच -
निन्द्यो न कोऽपि लोकः पापिष्ठेष्वपि भवस्थितिश्चिन्त्या । (अध्यात्मसारग्रन्थे) भोः ! एतदेव वस्तुतो जीवनस्य सत्यं रहस्यमस्ति, तथैव एष धर्मस्य प्रारम्भबिन्दुरप्यस्ति । गणितविषये दीर्घतमगणनायां यदि प्रथममेव स्खलना स्यात्तहि समग्राऽपि गणना स्खलनायुता भवेत्, एषा रीतिर्जीवनविषयेऽपि ज्ञेया।
अन्ते, गुणविकासकरणेन जीवनस्योन्नतिं कुरु, इत्याशासे ।
४४
Page #54
--------------------------------------------------------------------------
________________
विनोदचर्चा
नामकरणेऽपि नो विदेशदासता
देवर्षि कलानाथ शास्त्री
भारतवर्षमिदमस्माकं निजनिधीनां महापुरुषाणां, स्थानानां, प्राकृतिकसाधनानां च चिरादुपेक्षकत्वेन सुप्रसिद्धम् । वयं मारुतपुत्रसदृशाः स्मः । इदं श्रूयते यद् हनुमान् अलौकिकपराक्रमी आसीत्, परन्तु निजं पराक्रमं स स्वयं न वेत्ति स्म । यदान्यः कश्चित् तं तस्य पराक्रममवोचत्, स प्रत्यभिज्ञामिवाऽकरोत् । रामायणे समुद्रोल्लङ्घनाय जाम्बवानेव तं प्रोत्साहयामास, तदनन्तरमेव चाऽमानुषसाधारणानि कृत्यान्यन्वतिष्ठत् सः । मन्ये, भारतमपि तथैवाऽस्ति । अस्माकं देशे सन्ति महामहान्ति प्राकृतानि वस्तूनि, गिरयो, नदयः, पर्वताः, प्राचीन साहित्यम् । परन्तु वयं न जानीमोऽस्य महत्त्वम् । यदा वैदेशिकाः समागत्य बोधयन्ति यद् यौष्माकी सेयं संस्कृतभाषैव विश्वभाषाणामादिजननी, एतस्या व्याकरणं विश्वस्मिन् सर्वाधिक परिमार्जितम् - तदा वयं गतानुगतिकक्रियया गड्डरिकाप्रवाहपतिता इव जाददं सगौरवमानेडयामः । इति भारतीयानां भागधेयस्य सेयं विडम्बना । को न जानाति यद् यदाऽस्माकं वैदिकविज्ञानस्य आधारग्रन्थानां प्रकाशनं सगौरवं सगुणग्राहं च शर्मण्यादि-(जर्मनी)पाश्चात्यदेशीयैर्विद्वद्भिः कृतं, तदनन्तरमेव महामहद्भिर्मुखैर्भारतीयास्तथाकथिता विद्वांसोऽपि वेदानां महत्त्वस्य घण्टाघोषभारेभिरे, वैदिकसाहित्यस्य पुनरुद्धारं च प्रारब्धवन्तः । अस्मिन् सभ्यतायुगे एवंविधानि निदर्शनानि न दुर्लभानि स्युर्यदस्माकं महाकवेः कालिदासस्य, महतो भाषाशास्त्रिणः पाणिनेः, पतञ्जलेर्वा विषये रूसदेशीयैरमरीकादेशीयैश्च नवीनप्रकाशितपुस्तकेषु यदधुनैव लिखितं, यदस्माकं कदाचिदप्यश्रुतपूर्वं स्तात् तस्य तथ्यस्य गवेषणायै चाऽप्यस्माभिर्न कदाऽपि चेष्टितं स्यात् । संस्कृतभाषायां ये शब्दा वर्तन्ते तेषामपभ्रंशसरण्याऽन्यासु विश्वभाषासु कति शब्दाः किंविधा निर्मिताः, साम्प्रतिकव्यवहारभाषासु च संस्कृतस्य कियन्तः शब्दा अविकलमुच्यन्ते इत्याद्यप्यस्मभ्यं वैदेशिका एव बोधयन्ति ।। ... एतस्मादप्यधिकमाश्चर्यास्पदं वस्तु तदिदमस्ति यदस्माकं भारते भारतीया भारतीयनामसु न श्रद्धधति । ब्राह्मणकुलेष्वपि आचार-व्यवहारे, भोजन-पानयोश्च यत्पाश्चात्यसभ्यतासाङ्कय समुपैति, तद्दूरे तिष्ठतु । किन्तु नामकरणे तु न किमपि काठिन्यम् !! आङ्गलप्रदेशेषु जोर्ज, जोन, स्मिथ, रोबर्ट इत्यादिकानां परिगणितानां नाम्नामेव पौन:पुन्येन परिवृत्तिं कृत्वा यदा "वापतिस्मं" (Baptism) क्रियते, तदास्माकं
४५
Page #55
--------------------------------------------------------------------------
________________
गीर्वाणभाषायां भगवत्कृपया परेलक्षाः, अनन्ताः सुमधुराः, सुवाच्याश्च शब्दराशय एतदर्थं विद्यन्ते । तथाऽपि साङ्कर्यपूजकाः महापुरुषाः स्वपुत्रीणां 'रीता', 'अनिता' इति आङ्ग्लाभिनेत्रीसुलभानि नामानि साग्रहं गृह्णन्तो 'लौकिकमाह्लादं गौरवं चाऽनुभवन्ति !! पाश्चात्यनामानि "ड्रिंकवाटर" डूलिटिल " इत्यादीनि न सन्त्यन्वर्थानि, किन्त्वस्माकं भारते सार्थकानि ललितानि नामधेयानि पर:- सहस्त्रम् । तथापि ये स्वपुत्रस्य भारतीयं नाम 'गोपाल' इत्यपि "जी. पाल" इति लिखन्ति तेषां विदेशीयनामप्रेम कथंकारमुचितम् ? इतश्च विदेशीया भारतीयनाम्नां सौभगेन एतावन्मुग्धा यत्स्वसन्ततीनामेव न, अपि तु स्वभवनानां स्वव्यापारसंसारस्य चाऽपि नाम भारतीयं कर्तुं लालायन्ते । काश्मीर - देशवासी एक: आंग्ल भारतीयः (एंग्लो इंडियन) मदीयस्य भवनस्य "मंजुनिकुंज " इति नाम दृष्ट्वा इयान्मुग्धः समभूत् यत् स्वकीयस्य निर्मास्यमानस्य भवनस्य तदिदं नाम स्यादित्यर्थं मत्सकाशादनुमतिं ग्रहीतुमसावागच्छत् । स्मरामि यच्छार्मण्यदेशीयेनैकेन विदुषा स्वकीयं नाम " कण्वः" प्रसेधितमासीत् । ऑक्सफर्डनगरे तुलनात्मकभाषाविज्ञानस्य (कम्पेरेटिव फिलोलोजी) प्राध्यापकेन मैक्समूलर (मैक्स म्यूलर ) नामकेन सुग्रथितेन पुरातत्त्वविदा तु स्वकीयनाम्नो भारतीयकरणं "मोक्षमूलरभट्टः" इति कृतमासीत् । लिखितमेकत्र तेन स्वलिखितवेदभाष्यस्य पुष्पिकायाम् -
"शार्मण्यदेशजातेन श्रीगोतीर्थनिवासिना । मोक्षमूलरभट्टेन भाष्यमेतद् विलेखितम् ॥" (Ox = गो: Ford = तीर्थम्)
इत्यादि ।
विदेशजातेषु विद्वत्सु भारतीयनाम्नां कृते यदा इयानादरस्तदा दुर्भाग्यहता आङ्ग्लानां भारतवासिनो मानसपुत्रा रीता - अनितादिनाम्नामाम्रेडनं कुर्वन्तो गर्वायन्ते - इत्यतो अधिकं किं भवेद्दौर्भाग्यम् । सौराष्ट्रदेशीयाः जानन्ति यद् गुर्जरदेशस्था मोगला अपि स्वनाम्ना सह 'यूसुफ धर्मसी', 'हबीब पद्मसी' इत्यादि धर्मश्रीपद्मश्री आदि-संस्कृतशब्दसाम्यं वहतः शब्दान् प्रयुञ्जाना न सङ्कुचन्ते । 'हाजी जेठा गोकुल' - नाम्ना प्रसिद्धो व्यापारी मुगल एव ।
स्मराम्येकं पुरातनं वृत्तं यद् यदा रूसदेशस्थ भारतीयदूतावासो भारतीयः सन्नपि विदेशीयामाङ्ग्लभाषामेव व्यवाहरत् स्वनामपट्टमपि 'एम्बसी' (एम्बेसी) इत्येवाऽलिखत् तदा रूससर्वकारेण पत्रमेकं विलिख्य भारतसर्वकारोऽनुरुद्धो - यत् रूसस्थे भारतीयदूतावासे भारतीया हिन्दी भाषा आहोस्वित् रूसीयभाषैव व्यवहार्या, नाऽऽङ्ग्ली भाषा इति । तदा संसदि विमर्शानन्तरं प्रधानमन्त्रिमहानुभावेन प्राचीननीतिशास्त्रानुमोदितं 'दूतावास' इति नाम यथाकथञ्चिदधिगतं, तत्प्रभृति च तदेव तत्र प्रचलति ! हिन्देशियायां विश्वविद्यालयीया उपाधयः सन्ति धर्माध्यक्ष, उपाध्याय, आचार्य इत्यादय: । वयं तु बी.ए., एम.ए., एम.एस.सी., पीएच.डी. इत्यादीनि वैदेशिकलिपिघटितान्युपाधिनामानि शिरसा वहामः । अस्माभिरपरमप्येकम् इण्डोनेशिया - सर्वकारस्य संस्कृतनामस्नेहस्य प्रमाणं समुपलब्धम् । हिन्देशियायाः वायुयानसेवाव्यवस्थाया नामकरणार्थे तत्र "गरुड" पदस्य गरुडचिह्नस्य च मनोनयनं सर्वसम्मत्यां अभूत् ।
४६
Page #56
--------------------------------------------------------------------------
________________
किन्तु संस्कृतशब्दस्याऽस्य प्रयोगार्थं भारतसर्वकारस्याऽनुमतिग्रहणमावश्यकमासीत्, अतः इण्डोनेशियासर्वकारेण भारतसर्वकारस्य समीपेऽनुमति-प्रार्थना प्रेषिता यदर्थं भारतेन सहर्ष स्वीकृति दत्ताऽपि । तेन भारतेन, तस्याः संस्कृतभाषायाः पदस्य कृते, यस्या ममत्वं तेन कदाऽपि न कृतमासीत् !! वयं तु कथयिष्यामो यत्संस्कृतजनन्या उपरि विश्वस्य प्रत्येकं संस्कृतज्ञस्याऽधिकारोऽस्ति ।
- अस्तु, प्रसादस्याऽयं विषयो यत्सर्वकार एषु दिनेषु एवंविधस्थलेषु संस्कृतस्व सुरुचिरपदप्रयोगमारब्धवान् अपि । कोचीनस्थितं भारतीय वायुसेनाप्रशिक्षण केन्द्रमपि "गरुड"नाम्नाऽलङ्कृतम् । ट्रॉम्बेस्थितं अणुयन्त्रं (एटोमिक रिएक्टर) "अप्सरा' इति नाम्ना स्मर्यते । मोहमयीस्थस्य एकस्य आतुरालयस्य नाम 'अश्विनी' इति अश्विनीकुमारयोर्देवभिषजोः पुण्यस्मृतौ स्थापितमस्ति । सेयं परस्पराऽस्माकं हृदयस्य पुनर्जागर्तेः परिणामो वा स्यात् अनुकरणं वा स्यात् किन्तु तदिदं शुभं लक्षणम् ।
.' शीघ्रमेवाऽस्माभिः स्वकीयसंस्कृतेः, सभ्यतायाः, भाषायाः, सदाचारस्य च महत्त्वं ज्ञास्यते, विदेशीयकरणस्य, विशेषतः आङ्ग्लीकरणस्य च प्रवृत्तिः परित्यक्ष्यते इति विश्वसिमः । एतदर्थे प्रयत्नोऽस्माकं भारतीयानां सर्वेषां मुख्यं, गौरवपूर्णं च कर्तव्यम् । सम्प्रति देशे यद् युगपरिवर्तनं सातमस्ति तेन भारतीयताया गौरवं पुनरावर्तिष्यते इत्यस्माकं दृढो विश्वासः ।
C/8, पृथ्वीराज रोड़, सी.. स्कीम, जयपुर
फोन : ०१४१-२३७६००८
४७
Page #57
--------------------------------------------------------------------------
________________
ग्रन्थसमीक्षा
'शब्दप्रभेदः' (शब्दभेदप्रकाश:) समीक्षकः डा. रूपनारायण पाण्डेयः
संशोधको सम्पादकौ च - प.पू. आचार्यश्रीविजयश्रीचन्द्रसूरीश्वरमहाराजः साहित्यवाचस्पति-महोपाध्यायश्रीविनयसागरश्च। प्रकाशकः - श्रीरांदेररोडजैन संघ, श्रीशंखेश्वरपार्श्वनाथ जैन देरासर पेढी, अडाजण पाटीया, रांदेर रोड, सूरत-३९५००१, फो. (०२६१) २६८७४८८ प्र. व. - २०६७ वि., पृ.सं. ८+१२+२२२ । मूल्यम् - २५०/
. विबुधवाण्यां विविधाः कोशा विद्वद्वयविरचिताः । कोशकारेषु विश्रुतेन विश्वप्रकाश-साहसाङ्कचरितादिग्रन्थानां प्रणेत्रा निखिलवैदिकमतानां चाऽतीव पारङ्गतेन पण्डितेन महेश्वरकवीन्द्रेण 'शब्दभेदप्रकाशः'. इति कोशः शब्दानां प्रयोगे संशयानां निराकरणाय, अशाब्दिकानां च सम्यग्बोधाय प्रणीतः । तस्यैव कोशस्य वृत्तिः (टीका) श्रीज्ञानविमलोपाध्यायेन १६५४ तमे विक्रमाब्दे विरचिता । सैव टीका संशोध्य सम्पाद्य च श्रीविजयश्रीचन्द्रसूरीश्वरेण श्रीविनयसागरेण च प्राकाश्यं नीता ।
ग्रन्थेऽस्मिन् चत्वारो निर्देशा विलसन्ति - (१) शब्दभेदनिर्देशः, (२) ओष्ठ्यदन्तौष्ठ्यवकारभेदनिर्देशः, (३) ऊष्मभेदनिर्देशः, (४) लिङ्गभेदनिर्देशः । निर्देशेषु यथाक्रमं १३३, ३६, ५९, ४४ पद्यानि सन्ति । ग्रन्थान्ते ग्रन्थकृत्प्रशस्तिरपि शोभते । यद्यपि ग्रन्थकारेण ग्रन्थस्य नाम"शब्दभेदप्रकाशः' इति कृतं, तथाऽपि टीकाकारेण ग्रन्थोऽयं 'शब्दप्रभेदः' इत्येवाऽभिहितः । ग्रन्थान्ते सम्पादकमहोदयाभ्यां द्वात्रिंशत् परिशिष्टान्यपि प्रदत्तानि । ग्रन्थात् प्राक् हिन्दीभाषया श्रीमता विद्यासागरमहाभागेन ग्रन्थादीनां समीक्षात्मकः परिचयः प्रास्तूयत । लघुकाये कोशेऽस्मिन् शब्दानां भेदा अनेकशः प्रस्तूयन्ते । ग्रन्थकृत् स्वयं निगदति प्रथमे निर्देशे -
'प्रायो भवेद् यः प्रचुरः प्रयोगः, प्रामाणिकोदाहरणप्रतीतः । रूपादिभेदेषु विलक्षणेषु, विचक्षणो निश्चिनुयात् तमेव ॥ क्वचिन्मात्राकृतो भेदः, क्वचिद् वर्णकृतोऽत्र च । क्वचिदर्थान्तरोल्लेखाच्छब्दानां रूढितः क्वचित् ॥" (शब्दप्रमेदः १/२-३)
४८
Page #58
--------------------------------------------------------------------------
________________
-
अत्रं वृत्तिकारो वदति – “य: प्रयोगः शब्दः प्रायो बाहुल्येन प्रचुर: अनल्पो भवेत् स्यात्, तमेव विचक्षणो विबुधी निश्चिनुयात् काव्यादौ निबध्नीयात् एवेति निश्चयार्थकमव्ययम् । केषु सत्सु ? रूपाणि प्रथमादिविभक्त्यन्तलक्षणानि, तान्यादौ येषां तानि रूपादीनि, आदिशब्दाद् लिङ्गादीनि तेषां भेदा रूपादिभेदाः, तेषु रूपादिभेदेषु विलक्षणेषु असदृशेषु सत्सु । किंभूतः प्रयोगः ? प्रमाणं विदन्तीति प्रामाणिकाः धनपालवररुचि-माघ-हर्ष-कविकालिदासादय:, तेषामुदाहरणानि, अर्थात् शास्त्राणि तेषु प्रतीतः प्रसिद्धः प्रामाणिकोदाहरणप्रतीतः ।। अत्र ग्रन्थे क्वचित् कुत्राऽपि स्थाने, मात्रया स्वख्यञ्जनसमुदायावयवेन कृतो मात्राकृतो भेदः शब्दानाम् अगारागारापगापगाप्रमुखाणामस्ति । (श्लो. ५) । च पुनरर्थे, अत्र शास्त्रे क्वचित् स्थाने वर्णैः अक्षरैः कृतो भेदः, अवश्याऽवश्याय- प्रतिश्यावो - ( श्लो. ७) त्तमानुत्तमाहतानाहतोदारानुदार (श्लो. १२) प्रमुखांणां शब्दानामस्ति । पुनरत्र शास्त्रे क्वचित् कुत्रचिदेकस्मादर्थादन्योऽर्थोऽर्थान्तरम्, तस्योल्लेख: प्रकटीकरणम् अर्थान्तरोल्लेखः, तस्माद् अर्थान्तरोल्लेखाद् मिहिर - मुहिर ( श्लो. ३०) प्रमुखाणां शब्दानां भेदोऽस्तीति । क्वचित् कुत्राऽपि स्थाने रूढितः शिष्यप्रयोगानुसारात् शब्दानां जाम्बुवदादीनां भेदोऽस्तीति ॥" अस्मिन् कोशे सङ्गृहीतान् मात्रादिकृतान् शब्दप्रभेदान् सम्यग् विज्ञाय कोऽपि विद्वान् महनीयानिकाव्यानि प्रणेतुं प्रभवेत् । अत्र कोशकृतः प्रशस्तिर्नितरां सत्यपरकाऽस्ति
"कर्तुं चेतश्चमत्कारं, सतां हर्तुं विपर्ययम् । संशयं च निराकर्तुमयमस्य परिश्रमः ॥ छन्दोऽनुप्रासयमक - श्लेषचित्रेषु निर्णयः ।
एष्वेवाऽस्योपयोगश्च, कवेर्जायत एव वा ॥" (तत्रैव, पृ. ११९)
लिङ्गभेदनिर्देशगतान् शब्दान् परिहाय सर्वे शब्दा अत्र विद्वद्वर्येण वृत्तिकारेण व्याकरणशास्त्रानुसारं व्याख्याताः परिश्रमेण । तद् यथा १. " दृश्येते युगपत् सूर्याचन्द्रमसावत्रेति दर्शनं वा दर्श: । " दर्शस्तु सङ्गमे सूर्यचन्द्रयोरवलोकने । पक्षान्ते वैदिकविधौ, दर्शश्च समुदाहृतः ॥' २. 'स्पृशंत् संस्पर्शे'* (धातुसङ्ख्या - ५ / ९८), स्पृशति स्पर्श: । 'पदरुज' ५ / ३ / १६ (सिद्धम० ) ॥ इति घञ् । स्पर्शनं वा "स्पर्शो रुजायां दाने च स्पर्शने स्पर्शकेऽपि च " [विश्वप्रकाशः, शान्तवर्गः श्लोकः ५ ] ३. 'स्पशः सौत्रः ' स्पशति स्पश: । 'स्पशः प्रणिधियुद्धयोः " [विश्वप्रकाशः, शान्तवर्गः श्लोकः ३] ४. 'मृशंत् आमर्शने '** (धातुसंख्या - ५/१०२) आमर्शनं स्पर्शः, मृश्यतेऽनेन मर्शः, स्पर्शः । ००० । ७. 'शोंच् तनूकरणे’+ (धातु संख्या - ३ / ४) निश्यति निशा । 'उपसर्गादातो डोऽश्य:' ( ५ / १ / ५६ ) || 'णिश समाधौ ' (धातुसंख्या
'स्पृश संस्पर्शने' ('माधवीया धातुवृत्तिः', तुदादिगण: १२९, पृ. ४८८, प्राच्यभारतीप्रकाशनम्, वाराणसी, १९६४) । टीकाकारः कथं 'स्पृशंत् संस्पर्शे' इति पठति ? न ज्ञायते । अन्यत्राऽपि धातुपाठो यत्र तत्र भिद्यते । सम्पादकवर्याभ्यामप्यत्र किमपि नोक्तम् । ताभ्यां सन्दर्भनिर्देशः कस्माद् ग्रन्थात् प्रस्तुत: ? इति न ज्ञायते मया । निर्देष्टव्यः स ग्रन्थः | (अत्र धातवः सिद्धहेमचन्द्रव्याकरणस्थ-धातुपाठमाश्रित्य निर्दिष्टाः सन्ति ॥ सं.) ** 'मृश आमर्शने' (मा.धा.)
+ 'शो तनूकरणे' (मा.धा.)
४९
Page #59
--------------------------------------------------------------------------
________________
४ / १४९) नेशन्ति समाहितमनस्का भवन्त्यस्यामिति वा निशा । 'स्थादिभ्यः कः' ५/३/८२ ॥ इति कः ।
-
" निशा दारुदरिद्रायां स्यात् त्रियामाहरिद्रयोः " [विश्वप्रकाशः, शान्तवर्गः, श्लोकः १४]" (तत्रैव, पृ.
७०)
अस्यां वृत्तौ न केवलम् अमर - निघण्टु- विश्वप्रकाश-वैजयन्तीप्रभृतयः कोशा एवोदाहृताः, अपि तु मनुस्मृति-भागवत पुराण - शिशुपालवधादीनां ग्रन्थानां वचनान्यप्युदाहृतानि । (द्रष्टव्यम् - पृ. ९, ८५, ११७ इत्यादि) इत्थं वृत्तिकारेण विविधशास्त्राणां पाण्डित्यं यथास्थानं प्रदर्शितम् । अस्य ग्रन्थस्य सम्पादने समादरणीय-सम्पादकाभ्यामतीव परिश्रमः कृतोऽस्ति । अनुसन्धानदृष्ट्या परिशिष्टानां सङ्कलननिन्दनीयमस्ति । ग्रन्थस्य मुद्रणेऽपि यद्यपि भूरिपरिश्रमो विहितः, तथाऽपि केचन मुद्रणदोषाः सन्त्येव। ( द्र० - पृ. ५०, ८६ इत्यादि) विद्वज्जनैः ग्रन्थरत्नमिदं सर्वथा सङ्ग्राह्यमस्ति । जयति संस्कृतं संस्कृतिश्च ।
~~~X~~~
५०
Page #60
--------------------------------------------------------------------------
________________
मर्म गभीरम् मुनिकल्याणकीर्तिविजयः
(१) सङ्गीतज्ञता विश्वविश्रुतं सङ्गीतज्ञं मोझार्ट-नामानं कश्चन युवकोऽपृच्छत् - 'महोदय ! भवान् एतावत्यल्पे वयसि कथमिव महान् सङ्गीतकारोऽभवत् ? अहमपि सङ्गीतकलायां नैपुण्यं प्राप्तुमिच्छामि । कि भवांस्तदर्थं मे कानिचन सूचनानि दास्यति वा ? अहं तदनुसारं सङ्गीतं शिक्षितुं प्रयतिष्ये' । __ मोझार्टेन तस्य सविस्तरं सङ्गीतकला-पियानो-तदन्यवाद्यादीनां शिक्षणार्थं तन्नैपुण्यप्राप्त्यर्थं च संबोधितम् । प्रान्ते च मन्दस्वरेण कथितं यत् - ‘एवं भवान् यदि नैरन्तर्येण नियततया च साधनां करिष्यति तदा त्रिंशता वर्षेः समग्रेऽपि सङ्गीतविश्वे भवान् अग्रगण्यो भविष्यति' । ___युवकेनोक्तं साश्चर्यं - 'त्रिंशता वर्षेः ? परं भवांस्तु द्वादशे वयस्येव निपुणसङ्गीतज्ञत्वं प्राप्य विश्रुतो जात आसीत् !!'
मोझार्टेन कथितं - 'सत्यं तत् । किन्तु सङ्गीतकलायां नैपुण्यं कथं प्राप्तव्यमित्येतदहं कस्यचन प्रष्टुं नैव गतवान् कदाचित् !!' ।
(२) पीडा वेदना च ..एकस्य महात्मनः केनचन गभीररोगेण शस्त्रक्रिया कर्तव्याऽभवत् । एकेन विश्रुतेन शस्त्रक्रियाचिकित्सकेनाऽतीव सावधानतया तस्य शस्त्रक्रिया कृता । यदा च स महात्मा सज्ञामलभत तदा चिकित्सकस्तं पृष्टवान् - 'महानुभाव ! भवच्छरीरे कुत्रचिदपि काऽपि पीडा वेदना वा जायते वा? कृपया कथयतु' । महात्मा नैवोदतरत् । चिकित्सको वारं वारं तदेव पृष्टवान् तथा सनिर्बन्धं कथितवान् - 'यदि भवान् न कथयेत् तदा वयं तदनुरूपमौषधं कथं दास्यामो भवते ? अतः कथयतु कृपया । भवतो व्रणं रूढं न वेति ज्ञातुमिच्छामो वयम्' ।
तदा महात्मना कथितं – 'शारीरिकी पीडा तु भवत्येव किन्तु तया मम न काऽपि हानिः, यतो मे आत्मनस्तया न काऽपि वेदना भवति !'
Page #61
--------------------------------------------------------------------------
________________
(३) पापी कः? चीनदेशस्येयं घटना । एकस्यां कृषिभूमौ दश कृषीवलाः कार्यं कुर्वन्ति स्म । अथाऽकस्मादेव मेघगर्जनमारब्धं विद्युतश्च स्फूर्जनपूर्वकं मुशलधारया वृष्टिः समारब्धा । कृषीवला निजनिजं शिरस्त्राणं रक्षन्तः समीपस्थे देवालये आश्रयं गृहीतवन्तः । वृष्टेर्वेगो वृद्धि गतः । सहसा तडित्पातोऽभवत् देवालयस्य चाऽग्रभागो ध्वस्तो जातः । भित्तयः कम्पितुमारब्धाः । एकेन कर्षकेण कथितं - 'भगवान् ह्यस्मभ्यं कुपितोऽस्ति - इति तर्कये । अस्माकमेकेन केनचित् किञ्चिदपि महापापं कृतमस्ति' । तदाऽन्ये वदन् - ‘एवं, तर्हि स इतो बहिनिष्कासनीयः कथमपि मृगयित्वा । तदैव भगवान् प्रसन्नो भविता' । अथैकोऽवदत् - 'वयं सर्वेऽपि स्वीयस्वीयं शिरस्त्राणं वातायनाद् बहिर्धारयामः, भगवानेव पापिनं निरूपयिष्यति' ।
सर्वेऽपि तच्छ्रद्धाय वर्षति जले वातायनाद् बहिर्हस्तं निष्कास्य शिरस्त्राणं च धारयित्वा स्थिताः । सहसैव तडित्पातोऽभवत् कर्षकस्य चैकस्य शिरस्त्राणं भस्मसादभवत् । सर्वेऽपि कथितवन्तः - 'अयमेव स पापी । निष्कास्यतां स बहिः' । स दीनवदनः साश्रुनयनश्च प्रार्थितवान् - 'कृपयैवं मा कुर्वन्तु । नाऽहमस्मि पापी । परिश्रमेणैव जीविकां प्राप्नोम्यहं, न पुनर्यथाकथञ्चित् । मम पत्नी लघूनि चाऽपत्यान्यपि सन्ति । यद्यहं म्रियेय तर्हि तेषां को वाऽऽधारः ? कृपया मां बहिर्मा निष्कासयन्तु' ।
किन्तु न कोऽपि तस्य वचनान्यवाधारयत्, निर्दयतया च तं देवालयाद् बहिरपासारयन् । रुदन् स यथाकथञ्चित् कस्यचन् वृक्षस्याऽधस्ताद् गत्वा स्थितः ।
यावच्च स तत्र तिष्ठति तावदेव पुनरपि देवालयस्योपरिष्टात् तडित् पतिता, तत्र स्थिताश्च नवाऽपि कर्षकाः क्षणार्धेनैव भस्मीभूता अभवन् । प्राय एतावत्पर्यन्तं ते तस्यैकस्य कर्षकस्य पुण्यैरेव जीवन्तः आसन्ननु !! को वा जानीयात् ??
(४) गुरोरन्वेषणम् एको युवा गुरुमन्विष्यन् आश्रममागतः । गुरुर्हि तदाऽन्यान् जिज्ञासून उपदिशति स्म । अनेनाऽपि तस्योपदेशः श्रुतः । तदनन्तरं स कांश्चन शिष्यानकथयत् – 'भोः ! अहं त्वत्र गुरोः सकाशाद् गभीरं तत्त्वज्ञानं प्राप्तुमागत आसम् । किन्तु गुरुः सामान्यमुपदेशमेव ददानो मां निराशं कृतवान् । अधुना किं करवाणि ?' तदैकेन शिष्येण सस्मितमुक्तं - 'बन्धो ! गुरुहि चर्मकारसदृशोऽस्ति । चर्म गृहीत्वोपविष्टोऽस्ति। अस्मत्प्रमाणानुसारं च तत् कर्तयित्वा पादत्रे च सीवित्वा ददाति !!
Page #62
--------------------------------------------------------------------------
________________
अनुवाद:
शान्तिः | मुनिधर्मकीर्तिविजयः
या शान्तिः परिपक्वबोधतो जायते सा शान्तिर्दीर्घकालीना भवति । काऽपि घटना परिस्थितिश्च तां शान्तिमशान्तिरूपेण परावर्तयितुं न शक्नोति, यतस्सा शान्तिद्वंयोझझावातयोर्मध्ये प्रवर्तमाना क्षणिका शान्तिर्नास्ति किन्तु शाश्वता चिरञ्जीवीनी शान्तिरस्ति ।
एतादृशीं शान्ति प्राप्तुं जना न शक्नुवन्ति, यतस्तेषां धीनिं च नास्ति । ते जनाः क्षतिवशादपवित्रतावशाच्चाऽज्ञानिनोऽन्धाश्च सन्ति । यावन्नेच्छेयुस्ते क्षति संमार्जयितुमपवित्रतां च दूरीकर्तुं तावत्ते संपूर्णतयाऽज्ञानिन एव तिष्ठेयुस्तथा न च कदाचिदप्याध्यात्मिकमार्गे गन्तुं शक्ताः स्युः ।
अनुवाद:
दुःखम् मुनिधर्मकीर्तिविजयः
- अस्माकं दुःखं न्यायपूर्णमस्ति । तदुःखमस्माकमज्ञानस्य क्षतेर्दुष्कृत्यानां चैव फलमस्ति । तदुःखं त्वं स्वयमेवाऽऽमन्त्रयसि, न कोऽपि त्वामाग्रहयति । यद्येवं न स्यात्तर्हि स तत्परिणामाद् मुक्तो भवेत्तथाऽन्यो निरपराधिजीवस्तत्फलमुपभुज्यात् । किञ्च न्यायो नाम सिद्धान्त एव न तिष्ठेत्तर्हि, तं न्यायं विना सर्वमपि जगत् न क्षणमात्रं तिष्ठेत्, सर्वतोऽराजकताऽव्यवस्था च प्रसरेत् ।
बाह्यदृष्ट्याऽन्यजनेन जीवो दुःखीभवतीत्याभासते, किन्तु सा केवलं भ्रमणैव । सत्यं ज्ञानं यदा प्राप्यते तदा सा भ्रमणाऽदृश्यैव भवति ।
५३
Page #63
--------------------------------------------------------------------------
________________
काव्यानुवाद:
(गूर्जरमूलम्)
कारण के
लालजी कानपरिया
मारा उदरमा सळगतां अग्निने जो से शांत की शके तेम न होय तो सळगावी दो जगतना सर्व अन्नभंडारो; कारण के ओना होवानो कोई अर्थ नथी. मारां नग्न शरीरने जो से ढांकी शके तेम न होय तो फूंकी मारो कापड बनावती सर्व मिलोने; कारण के ओना होवानो कोई अर्थ नथी. आवडी मोटी धरती पर मारे रहेवा एक झूपडं न होय तो की नाखो जमीनदोस्त गगनचुंबी महेलातोने; कारण के अना होवानो कोई अर्थ नथी.
मारां जीवतरमां जो चपटीय अजवाळू पाथरी खरे तेम न होय तो ओलवी नाखो पेला जळहळता सूर्यने कारण के अना प्रकाशवानो कशो ज अर्थ नथी. आ पृथ्वी पर मने जन्म आपी | अनी जवाबदारीओमांथी जो ए छटकी जतो होय तो कही दो पेला ईश्वरने के संकेली ले एनी सृष्टिने संकेली ले अनी सर्व लीलाओने अने क्षीरसागरमां जईने निरांते ऊंघी जाय सुंवाळी शेषशैया पर कारण के अने जागता रहेवानो कोई अधिकार नथी.
काव्यसंग्रह:
'सूर्यचंद्रनी साखे'
पार्श्व प्रकाशन, अमदावाद प्र.आ.,२००७, काव्य क्रमांक १२७, पृ. १४५-१५६
Page #64
--------------------------------------------------------------------------
________________
काव्यानुवादः | (संस्कृतानुवाद:)
नास्ति कोऽपि हेतुः। डॉ. किशोरचन्द्र पाठकः
ममोदरे ज्वलन्तमग्नि शमयितुं यदि न ते समर्थाः, तर्हि भस्मसात् कुरु जगत: सर्वान्नन्नभाण्डागारान् । यतस्तेषां सद्भावे . नास्ति कोऽपि हेतुः ।। मम वस्त्रहीनवपुषः संवरणे यदि वन्ध्यानि तानि, तर्हि प्रज्वालय सर्वाणि वस्त्रनिर्मातृणि वस्त्रयन्त्रगृहाणि । यतस्तेषां सद्भावे . नास्ति कोऽपि हेतुः । विपुले पृथिवीतले मत्कृते निवसनार्थं कुट्येकापि न भवेत्,
तर्हि विध्वंसय सर्वाणि नभस्स्पॅशि महालयानि । यतस्तेषां सद्भावे नास्ति कोऽपि हेतुः ! अस्मिन् मम जीवनप्रसरे प्रकाशलेशप्रसरणे यदि निरवकाश: स:, तर्हि निर्वापय अमुं दीप्तिमन्तं सूर्यम् । यतस्तस्य प्रकाशने नास्ति कोऽपि हेतुः ! एवञ्च अस्मिन् जगतीतले जनिं प्रदाय स्वकर्तव्यपराङ्मुखो यदि ईश्वरः, तर्हि उच्यतां स यत् संवृणोतु स तस्य सकलां सृष्टिं सर्वाश्च लीलाश्च । सुखं च शेतां क्षीराब्धौ मसृणायां शेषशय्यायाम् । यतो नष्टाधिकारस्य तस्य जगत्यां जागरणे नास्ति कोऽपि हेतुः !
~~Xwww
पद्मपाणि, ७, आनन्दनगर, चक्करगढ रोड़,
अमरेली-३६५६०१
Page #65
--------------------------------------------------------------------------
________________
काव्यानुवाद:
(3115:00 COL)
What a Wonderful world
Bob Thiele - George David Weiss
I see trees of green, red roses too I see them bloom for me and you And I think to myself
What a wonderful world! I see skies of blue and clouds of white The bright blessed day, the dark sacred night And I think to myself
What a wonderful world ! The colours of the rainbow so pretty in the sky Are also on the faces of people going by And I think to myself
What a wonderful world ! I see friends shaking hands saying how do you do? They're really saying I love you And I think to myself
What a wonderful world !
I hear babies crying, I watch them grow They'll learn much more than I'll never know And I think to myself Yes I think to myself
What a wonderful world !
Page #66
--------------------------------------------------------------------------
________________
काव्यानुवादः
(संस्कृतानुवादः)
अद्भुतं जगत् !! मुनिकल्याणकीर्तिविजयः
पश्याम्यहं हरितवृक्षान्, रक्तपाटलपुष्पाणि चाऽपि मदर्थं तानि फुल्लितानि भवदर्थं वाऽपि ततोऽहं चिन्तयामि स्वयं
कीदृशमद्भुतं जगत् !! विलोकयामि नीलमम्बरं मेघसमूहं सित - गौरम् कृष्णशर्वरीमतिपवित्रां प्रोज्ज्वलपुण्यमयं वासरम् ततश्च चिन्तयामि स्वयं
कीदृशमद्भुतं जगत् !! मेघधनुषो वर्णका अद्भुतका नभसो भूषकाः इतस्ततो विचरतां जनानामास्यलास्यकाः अतोऽहं चिन्तयामि स्वयं
कीदृशमद्भुतं जगत् !!
निरीक्षेऽहं सुहृदः परस्परं हस्तधूनका : 'कथमस्ति भवान् ?' - पृच्छकाः तेऽपि 'प्रीणाम्यहं भवन्त' मिति सोल्लासं शंसकाः
ततश्च चिन्तयाम्यहं ननु
कीदृशमद्भुतं जगत् !!
पश्याम्यहं रुदतो डिम्भान् संवर्धमानांश्चाऽपि
ते प्राप्स्यन्ति तावज्ज्ञानं यदहं ज्ञास्ये न कदाऽपि
तथा च चिन्तयामि स्वयं
आम् अहं चिन्तयामि स्वयं
कीदृशमद्भुतं जगत् !!
~~~X~~~
५७
Page #67
--------------------------------------------------------------------------
________________
कथा
कथं पात्रं न भियते ? मुनिधर्मकीर्तिविजयः
कस्यचित् सम्राजो द्वापेको भिक्षुकस्तिष्ठन्नासीत् । सम्राट् पृष्टवान् - किमिच्छसि ?
भिक्षुक उवाच - न किमप्यधिकमिच्छामि, एकैवेच्छाऽस्ति, यद् ममेदं भिक्षापात्रं भ्रियेत । राजन् ! लघु पात्रमस्ति, तत्पात्रं बिभृहि ।
सम्राजा चिन्तितम् - एतत्त्वतीव लघु पात्रमस्ति । किमन्नेन एतद् भरणीयम् ? तत्क्षणं सम्राट कोशाध्यक्षमादिष्टवान् - भिक्षुकस्य पात्रमेतद् बिभृहि सुवणमुद्रया, इति ।
यावत् सम्राजो निधिर्न रिक्तो जातः तावत् भिक्षुकस्य पात्रे सुवर्णमुद्रा भृताः, तथाऽपि तत्पात्रं न्यूनमेव स्थितम् ।
सम्राट् पृष्टवान् - कथं पात्रं न भ्रियते ?
भिक्षुकोऽवोचत् - राजन् ! एतत्पात्रं मानवीयकरोट्या रचितमस्ति । तत्पात्रं किं कदाऽपि भ्रियेत वा? तत्पात्रेण कदाऽपि तृप्तिर्नाऽनुभूयते । तृष्णा शान्ता नैव भवेत् ।
५८
Page #68
--------------------------------------------------------------------------
________________
- कथा
विरलानि संस्कारमूल्यानि मुनिः अक्षयरत्तविजयः
[१] मातृभक्तः पुत्रः अनन्योऽस्ति जीवने पित्रोरुपकारः । नैकेर्जनैः स्वगृहस्य बहिः सबहुमानं लिख्यते 'मातृदेवो भव' 'पितृदेवो भव' इति । इतिवाक्यमालिख्य ते तयोरुपकारस्य ऋणतर्पणस्याऽनुभवं कुर्वन्ति । परं, वस्तुतः किं नाम ऋणतर्पणम् ? उक्तं लेखनमेव न सत्यमृणतर्पणम् । परमन्तिमावस्थायां तयोः पूर्ण समाधिदानकरणं नाम सत्यमृणतर्पणम् । 'जननीनी जोड सखी नहि जडे रे लोल' (जननी जगति अनन्या इति पङ्क्तेर्भावार्थः) इति प्रसिद्धाया गुर्जरपङ्क्तेर्जीवनसात्करणं नाम सत्यमृणतर्पणम् ।
यः पित्रोरुपकारं प्रतिक्षणं स्मृत्वा एतद्विधमृणतर्पणं करोति, स पुत्रः पित्रोरुत्तमः सुतः कथ्यते । वयमत्र तादृशस्यैव पुत्रस्य प्रवृत्तं सत्यवृत्तं स्मरेम । : त्रयो भ्रातरः । एका माता । त्रयाणां भ्रातॄणां पिताऽवसानं प्राप्तवान् । अतः सर्वेऽपि दुःखिनः सञ्जाताः । समयो वहति स्म । शनैः शनैः सर्वे दुःखमुक्ता जाताः । एकस्मिन् दिने त एवं निर्णीतवन्तः - "पितुः सर्वसंपत्तेविभागः कर्तव्यः, अतः परं वयं सर्वे पृथक् पृथग् निवत्स्यामः । यतो गृहे क्लेशस्य कोऽपि प्रसङ्गो न भवेत्' इति । आ गृहात् सर्वधनं विभागीकृतम् ।
पश्चाद्, माता केन सह वसेद् ? इति प्रश्नः समुपस्थितो जातः । ज्येष्ठौ द्वौ पुत्रौ विमृष्टवन्तौ - "संवत्सरे द्वादश मासा भवन्ति । वयं च त्रयः पुत्राः स्मः । अतो माता क्रमात् त्रयाणामपि पुत्राणां गृहे चतुरश्चतुरो मासान् यावन्निवसेद्" इति ।
___ इदं शृण्वन् मातृभक्तः संस्कारशीलो विचक्षणो लघुतम पुत्रस्त्वरितं समर्पणभावेन प्राह - "वृद्धमातुरित्थं क्रमो न कर्तव्यः । यावज्जीवमहं मातरं तीर्थमिव सेविष्ये । कृपया मह्यं लाभं यच्छताम् । मात्रा मह्यं जीवनं दत्तं, ततस्तस्या यावज्जन्म परिचर्याया लाभमपि कृपया भवन्तौ मह्यं यच्छताम् ।" .. तदानीं सम्मुखमेव स्थितायास्तन्मातुर्नेत्राभ्यां जललवा अपसृताः श्रुत्वेदं तनुजस्य लघोर्भक्तियुतं हार्दिकं वचनम् । स्वजीवने वयमपीदृशं परमं पुत्रत्वं प्राप्नुयामेति कथायाः प्रेरणा ।
Page #69
--------------------------------------------------------------------------
________________
[२] परमा स्वस्थता
आसीत् कश्चिल्लघुग्रमः । एकः प्रवक्त- मुनिराजस्तस्मिन् ग्रामे चतुर्मासार्थमागतवान् । प्रतिदिनं प्रवचनानि भवन्ति स्म । एकः श्रोता प्रवचने नित्यमागच्छति स्म । मासा व्यतीताः । प्रवक्तृमुनिवर्या अपि तत्भ्रातुर्नियमबद्धतायै धन्यवादं यच्छन्ति स्म ।
परमेकदाऽयं नित्यक्रमो विक्षिप्तो जातः तस्मिन् दिने प्रवचनसमये स भ्राता नाऽऽगतः । मुनयः साश्चर्या सञ्जाताः ।
अन्येद्युः स आगतः । अनुप्रवचनं मुनिवर्यैः स पृष्टः
नाऽऽगतवान् भवान् ?"
-
भ्राता प्राह- "न, न । एवमेव । ह्यस्तने दिने मम प्रतिवेशो भाटकं गृहं त्यक्त्वाऽगच्छत्, अतस्तं प्रस्थापयितुं गत आसम् ।"
" भ्रातः ! गते दिने प्रवचने कथं
कारणं श्रुत्वा मुनिवराः शीघ्रमुपदेशं दत्तवन्तः "रे ! महाशय ! सांसारिककार्यार्थं जिनवचनश्रवणस्य महामूल्यं फलं मा विस्मर । सांसारिककार्यव्यस्ततायां स्वीया आराधना नूनं न त्यक्तव्या" इति । "ओम् गुरुदेव !” - करौ संयुज्य शिरो धूनयित्वा च श्रावकभ्राता प्रत्युक्तवान् । "भवतो वार्ता नितरां सत्या । द्वितीयस्मिन्नवसरे सावधानो भविष्यामि । " एवमुक्त्वा पुनः साधून् प्रणम्य स गतः । तत्पश्चाद् मुनिराजश्रावकभ्रात्रोर्वार्तालापं शृण्वन् निकटस्थः कश्चिदन्यो भ्राता मुनिराजमुपसर्प्य प्राह- “गुरुवर्याः ! भवद्भिरधुना येन सह वार्ता कृता, तस्य एक एब युवा पुत्र आसीत् । योऽकस्माद् ह्यस्तने दिने मृत्युमाप्तवान्.... ।'
-
~~~X~~~
“किम् ?” – उक्तसत्यवार्तां श्रुत्वा मुनिवराः किङ्कर्तव्यमूढा इव सञ्जाताः । " स तु कश्चित् प्रतिवेशो भाटकं गृहं त्यक्त्वा गत' इति उक्तवान् ?" - आघातेन तेऽवदन् ।
"तेन सह 'नवसस्तस्य पुत्र एव तत्प्रतिवेशः । पुत्रस्याऽन्तिमसंस्कारक्रियायाः कारणादेव स गते
दिने प्रवचने नाऽऽगतवान् ।" अमुना भ्रात्रा स्पष्टता कृता ।
परमे दुःखेऽपि कीदृशी साधुवादार्हा स्वस्थता ?
कीदृशी विरागस्योत्तमाऽवस्था ?
हर्षाश्रुणा सह स्तब्धलोचना मुनिवरा अपि तं श्रमणोपासकं गृहस्थं सान्तःकरणमनुमोदितवन्तः ।
एतदुत्तमं वृत्तं पठित्वा वयमस्य सुवाक्यबोधस्याऽवतारणं स्वजीवने कुर्याम - (१) स्वगृहेऽपि अतिथिवद् वसनीयम् । यत आत्मा सर्वदा दुःखविमुक्तो भवेत् । (२) जीवनं च सर्वथा पथिकाश्रमवद् ज्ञातव्यम् । यत आत्मा सुखेऽलीनो दुःखे चाऽदीनो भवितुं समर्थो भवेत् ।
६०
Page #70
--------------------------------------------------------------------------
________________
[३] स्वदोषदर्शनम् . स्वदोषदर्शनं जीवने नूनं कर्तव्यम् । स्वदोषदर्शनं नाम स्वस्मिन् दोषाणमन्वेषणम् । स्वस्याऽपराधानां च सम्मार्जनम् । यद्यपि स्वदोषदर्शनमतिकठिनमस्ति, यतो विश्वस्य जनाः परदोषदर्शनेऽतिहर्षमाप्नुवन्ति । ते परेषां दोषदर्शनं सहर्ष कुर्वन्ति, स्वदोषदर्शने च नितरां दृष्टिविकला भवन्ति । ते हि स्वदोषदर्शनस्य लाभान् न जानन्ति, यतस्त एतस्मिन् स्वदोषादर्शने प्रयत्नशीला भवन्ति । यथा वह्नितापेन मृत्तिकामुक्तं हिरण्यमतिशोभते, तथा स्वदोषदर्शनेन दोषमुक्त आत्माऽप्यतिराजते । किञ्च व्यावहारिकजीवनेऽपि तस्य स्वदोषदर्शनस्य मूल्यं वर्धते । वयमुक्तस्य वृत्तस्य बोधार्थमेकं शोभनं प्रसङ्गं स्मरेम ।
परस्मिन् देशे प्रवृत्तमेतद् वृत्तम् । मध्याह्नः समयः । ११-१२ वर्षीयः कश्चिद् बालः कञ्चिदापणं गतः । तत्रत्यापणिकस्तेन विज्ञप्तस्तत्रस्थदूरभाषोपयोगार्थम् ।
आपणिकः सम्मतिं दत्तवान् । तदानीमापणे ग्राहका नाऽऽसन् । किञ्च, कार्यं कृत्वा बालः शीघ्रमत्राऽऽगत आसीत् । अतस्तस्य हस्तावशुद्धावास्ताम् । ततः स दूरध्वनेः 'speaker' इति सेवामुपयुक्तवान् । आपणिकस्य मनोऽपि तस्य वार्तालापे गतम् । सन्मुखतः कस्याश्चित् महिलायाः स्वर आगतः - "हेलो ! कः वदति ?"
प्रत्युत्तरे बालो मिष्टभाषायां प्राह - "हेलो ! श्रीमतीवर्ये ! अहं भवत्या उद्यानपालको भवितुमिच्छामि । उद्यानपालनं भवत्या मह्यं दास्यते किम् ?"
"क्षम्यतां, तत्कार्यार्थं तु मयाऽन्यः किङ्करो नियुक्तोऽस्ति" - महिला कथितवती ।
"किन्तु, श्रीमति ! अहं तत्कार्थिं भवत्याः सकाशाद् वर्तमानात् सेवकादल्पमेव मूल्यं ग्रहीष्यामि।" - बालः पुनर्विज्ञप्तवान् ।
"साधु, किन्तु इदानीं तु मत्किङ्करकार्येणाऽहं सन्तुष्टाऽस्मि ।" - "किन्तु, श्रीमतीवर्ये ! अहं विना मूल्यं मार्गस्य शुद्धिमपि करिष्यामि" - बालोऽवदत् ।
बालकस्य शोभनां वा रीतिं दृष्ट्वाऽऽपणिकोऽपि उत्सुको जातः । अथ प्रत्युपान्तात् महिला स्पष्टं प्रत्युक्तवती - "भो ! युष्मदीया वार्ता ज्ञायते । परं, मदीयः कार्यकरोऽतिसुज्ञोऽस्ति । स कार्ये दत्तावधानो दक्षश्चाऽस्ति । तस्य कार्यरीत्याऽहमत्यानन्दिताऽस्मि । एतादृशो नितरामर्हः किङ्करो मया कथं त्यज्येत ? कृपयां क्षम्यतां मह्यम् ।" ... वार्ता पूर्णतां प्राप्ता ।
- हृष्टमुखो बालोऽपि आपणिकस्याऽऽभारं मत्वाऽऽपणात् प्रयातुं तत्परोऽभवत् । अत्रान्तरेऽप्राप्तकार्योऽपि - हास्यशीलः स बालः स्वस्य सुन्दरवार्तारीत्याऽऽपणिकस्य हृदयेऽवसत् ।
६१
Page #71
--------------------------------------------------------------------------
________________
आपणिको गच्छन्तं बालं रुद्ध्वा प्राह - "शृणु ! तव व्यवहारोत्साहश्च मम हृदयं स्पृष्टवन्तौ स्तः। . । असौ श्रीमती तुभ्यं कार्यं न दत्तवती । परमहं दास्यामि । ब्रूहि, मदीय आपणे कार्यं करिष्यसि नु ?"
बालो 'न'कारं पठित्वा पुनः सस्मितोऽभवत् ।
आपणिकः पुनः सविस्मयो जातः पृष्टवांश्च - "एवं चेदसौ श्रीमती कथं कार्यार्थं प्रार्थिता त्वया?"
बालो मिष्टमुक्तवान् - "भोः ! श्रीमन् ! वस्तुतस्तत्श्रीमत्याः किङ्करोऽहमेवाऽस्मि । किन्तु, मत्कार्यमसाधु अस्ति साधु वा, तत्कथं ज्ञायेत ? मत्कार्ये कीदृशा दोषाः सन्तीति ज्ञातुमेव मया भवतो दूरभाषस्योपयोगः कृतः । यतो दोषान् ज्ञात्वा तत्सम्मार्जनं कर्तुमहं शक्नोमि" इति ।
लघोर्बालस्य महतीं वार्ता श्रुत्वाऽऽपणिकस्य प्रसन्नता वृद्धि गता । इतश्च स्वदोषदर्शनवृत्त्या सोऽमुष्याः श्रीमत्याश्चेतसि अपि अनन्य एव स्थितः ।
समाप्तावेका नित्यस्मरणीया वार्ता - स्वदोषदर्शनेन जीवनममूल्यं भवति, परदोषदर्शनेन तु जीवनं निर्मूल्यं भवतीति ।
६२
Page #72
--------------------------------------------------------------------------
________________
कथा
योग्यता
सा. धृतियशाश्रीः
संसारस्य विचित्रस्वरूपं दृष्ट्वा नृपो भर्तृहरिः संन्यासमङ्गीकर्तुं सज्जोऽभवत् । गुरुं निर्णीतवान् स्वञ्च सन्यासं दातुं विज्ञप्तवान् ।
भर्तृहरेः पात्रतां द्रष्टुं गुरुस्तस्य परीक्षार्थं कथितवान्, “गच्छ पार्वे स्थितादवकरात् वस्त्रस्य जीर्णखण्डानि आनय" । य एकसमये सम्पूर्णराज्यस्य नृप आसीत् तं गुरुरवकरमध्ये गन्तुं कथयति । भर्तृहरिगुरोराज्ञां मत्वाऽवकरात् वस्त्रखण्डान्यानीतवान् । गुरुद्वितीयाज्ञामादिष्टवान् यदथ वस्त्रस्य खण्डानि सीवित्वा कौपीनं कृत्वा परिधेहि । भर्तृहरिः कौपीनं परिधाय पुनरुपस्थितः । अथ तृतीयाज्ञां दत्तवान् यदथ पिंगलायाः प्रासादे गत्वा कथय, "हे मातः ! भिक्षां देहि" ।
___भर्तृहरिर्गुरोराज्ञया पिंगलापार्वे जगाम कथितवाश्च "हे मातः ! भिक्षां देहि" । भिक्षाञ्च याचित्वा पुनर्गुरोः पार्वे आगच्छत् । मानस्य अपमानस्य च सम्पूर्णपरीक्षायां सुवर्णमिव शुद्धि प्राप्तस्य भर्तृहरेः सन्मुखं हर्षपूर्णदृष्ट्या दृष्ट्वा गुरुरकथयत्, “अथ त्वं संन्यासाय योग्योऽसि", भर्तृहरये च संन्यासं दत्तवान् ।
Page #73
--------------------------------------------------------------------------
________________
कथा
गुरोनिर्देश:
सा. दृष्टियशाश्रीः
गुरुकुलवासे एको राजपुत्रः शास्त्राभ्यासं करोति स्म । एकदा गुरुः कथितवान्, "त्वं अस्मिन् वृक्षे आरुह" । अहं तव शरीरस्य परीक्षां करिष्यामि । राजपुत्रोऽवोचत्, "गुरो ! अहं कदाऽपि वृक्षे नाऽऽरूढः, तर्हि कथं आरोहिष्यामि ।" गुरुरवदत्, "यस्य मनसि 'अहं कुशलोऽस्मि' एवं मानो भवति स जीवः पतति अन्यथा न, ततस्तव कोऽपि विघ्नो नाऽऽगमिष्यति" ।
राजपुत्रो गुर्वाज्ञां मत्वा शनै: शनैरारोढुमारभत । सावधानं स आरुरोह । स एवं चिन्तितवान् यद् गुरुर्मह्यं मार्गदर्शनं दास्यति परं गुरुर्मोनमाश्रितवान् ।
राजपुत्रो वृक्षस्याऽग्रेतनभागं प्राप । पश्चात् सो अध आगन्तुं प्रारभत । अश गुरुः पुनः पुनः शिक्षितुमारेभे । राजपुत्रो मनाग् विचित्रमनुभूतवान् । 'अथ यदाऽहं जानामि तदा पुनः पुनर्निर्देशं करोति । यदा निर्देश आवश्यकोऽस्ति तदा गुरुमौनोऽभूत् । राजपुत्रो गुरोः पद्धतिं नाऽऽजानात् । स पृष्टवान्, “किमर्थमेवं करोति भवान् ?"
गुरुर्हसित्वाऽकथयत्, “यदा त्वमारोहः तदा त्वं चिन्तितवान् यन्मम काऽपि कुशलता नास्ति । ततश्च त्वमत्यन्तं सावधानं आरूढः । परं त्वारोहणानन्तरं त्वं चिन्तितवान् यद् मयि कुशलता समागता। ततस्त्वं निश्चिन्तो जातः । अतोऽहं त्वां पुनः पुनः सावधानं कर्तुं प्रयत्नमकार्षम् ।
जीवने एवं भवति - यदा नरः शिखरे वर्तते तदा स न अधः पश्यति । तदर्थं शिखरे सावधानता आवश्यक्यस्ति ।
-x
६४
Page #74
--------------------------------------------------------------------------
________________
पत्र-चर्चा
| प्रो. कमलेशकुमार छ. चोकसी
. नन्दनवनकल्पतरोः गते ३३तमे अङ्के (३२तमे अङ्के मदीया एका रचना प्रकाशिता वर्तते । ताम् अधिकृत्य) ३ पृष्ठे डा. रूपनारायणपाण्डेयानां टिप्पणी एका प्रकाशिता । तैः महोदयैः - न जाने को परम्परामनुसरति प्रो. चोकसीमहाभांगः - इति एकवचनमाश्रित्य प्रश्नः कृतः । तेभ्यः सादरं विनिवेद्यते यद् वाराणां परम्परा अस्मदीया नास्ति । यदा अस्मदीया परम्परा एव नास्ति, तदा कां परम्पराम् अनुसरेत् प्रो. चोकसीमहाभागः ? इति प्रतिप्रश्नः । (वाराणां विषये अधिकावबोधाय कृपया पठन्तु पुस्तकमिदम् - हमारा ज्योतिष और धर्मशास्त्र (पृ. ७० तः), लेखक - हरिहर पाण्डेय, प्रकाशकः - उत्तरप्रदेश हिन्दी संस्थान, लखनऊ उ.प्र.)
. . अथ च गुजरातप्रदेशे षष्ठकक्षायां संस्कृतं पाठ्यते । तत्र एकः पाठः (प्रथमसत्रे षष्ठः पाठः, पृ. २०-२२) वारविषयकः वर्तते । तत्र तस्य शीर्षकम् अस्ति सप्त वासराः । अस्मिन् पाठे यादृशं विषयवस्तु पठ्यते तादृशं वस्तु प्रति न मे अनुरागः । अतः प्रथमं मया उक्तस्य पाठस्य स्थाने तदनुरूपमेव एकः पाठः परिकल्पितः । (स चाऽयमस्ति - सप्त वासराः । (शीर्षकम्) ततः पाठारंभः - सप्तानां दिनानां समूहं सप्ताहं कथयन्ति । सप्ताहे सप्त दिनानि भवन्ति । प्रत्येकं दिवसस्य पृथक् पृथङ् नामानि सन्ति । सप्तानां दिनानां नामानि सन्ति - रविवासरः सोमवासरः मङ्गलवासरः बुधवासरः गुरुवासरः शुक्रवासरः शनिवासरः च । रविवासरं भानुवासरम् अपि कथयन्ति जनाः । बुधवासरस्य अपरं नाम अस्ति भौमवासरः । गुरुवासरः बृहस्पति-वासर-नाम्ना प्रसिद्धः वर्तते ।।
प्रत्येकं वासरः क्रमेण प्रवर्तते । अद्य यदि शुक्रवासरः, ह्यः गुरुवासरः आसीत्, श्वः च
Page #75
--------------------------------------------------------------------------
________________
शनिवासरः भविष्यति ।
एवमेव अद्य यदि रविवासरः अस्ति, परह्यः शुक्रवासरः आसीत्, परश्वः च मङ्गलवासरः भविष्यति ।)
अस्मिन् पाठे यः क्रमः निर्दिष्टो वर्तते स एव क्रमोऽस्माभिरत्र स्वीकृतः । वस्तुतस्तु स एव पाठः सन्दर्भितायाः रचनायाः बीजभूतः । (तं पाठं पाठम्पाठम् अभिव्यक्तिप्रभावन्यूनत्वात् उपदेशरहितत्वाच्च मया पूर्वमुपर्युक्तः पाठः परिकल्पितः, ततः पद्यशैल्याम् सा कृतिर्विचारिता काव्यत्वेन च आकारिता, या नन्दनवनकल्पतरौ प्रकाशिता ।
अथ च प्रसङ्गेऽस्मिन् ज्ञानप्रसादवितरणैकोद्देश्येन विज्ञाप्यते यत् - पुरा मैक्सिको - देशे ५, रोमदेशे ८, मिश्रदेशे एथेंसदेशे च १०, यहूदीजनेषु बेबीलोनप्रदेशेषु अमेरिकादेशस्थानाम् इंकाजनेषु ७ वासराः प्रचलिताः आसन् । ईसाईजना: रविवारं, यूनानिनः सोमवारं, पारिसनः मङ्गलवारं, असीरियनजनाः बुधवारं, मिश्र देशस्था: गुरुवारं यवनाः नाम मुस्लिमजना: शुक्रवासरं, यहूदिन: शनिवासरं च पवित्रम् स्वीकुर्वन्तीति दिक् ।
-x
६६
संस्कृतविभाग, भाषासाहित्यभवन, गुजरात युनिवर्सिटी, अहमदाबाद- ३८०००९ Email :
[email protected]
Page #76
--------------------------------------------------------------------------
________________
मर्म-नर्म कीर्तित्रयी ।
रमणः मया यानि स्खलनानि पुरा कृतानि तानि त्वया क्षान्तान्येव खलु !
तर्हि किमर्थं पुनः पुनस्त्वं तेषां स्मारयसि माम् ? रमणी अहो ! तत् तु भवतो विस्मरणं न स्याद् यन्मया क्षमितो भवान् - इत्येतदर्थम् !!
मुल्लानासीरुद्दीनस्य गर्दभो मृतः । अतः स उच्चै रोदितुं लग्नः । प्रतिवेशिना समागत्योक्तं - 'महोदय ! यदा भवतः पत्नी मृता तदाऽपि भवान् एवं नैव रुदितवान् । अद्य
किमर्थं वैवमुच्चै रोदिति ?' मुल्ला कथितवान् – 'यदा मे पत्नी मृता तदा तु ग्रामजनाः सर्वेऽपि मामाश्वासितवन्त आसन् यत् -
- चिन्तां मा कार्षीत्, वयं भवतः कृतेऽन्यां स्त्रियमन्वेषयिष्यामः - इति । किन्त्वद्य तु न कोऽपि _मामन्यस्य गर्दभस्य कृते आश्वासनं दत्तवान् । अतो रोदिमि !!
80 छ महान् लेखको ज्योर्ज-बर्नार्ड-शॉ-महोदयः केनचित् पृष्टः - 'भवान् कतमात् पुस्तकादधिकं लाभं प्राप्तवान् ?' त्वरितमेव स उदतरत् - 'जनानां देयादेशपुस्तकात् (Chequebook) !
Page #77
--------------------------------------------------------------------------
________________
(न्यायालये-) दग्धः अयं यः पुरत उपविष्टोऽस्ति स सर्वथा विश्वासघाती । पूर्वं त्वयमस्मत्पक्षे आसीत् किन्तु
सहसैव विरोधिनां पक्षे सम्मीलितः । विदग्धः मां कथयतु कृपया, विरोधिनां पक्षे स्थितः कश्चन यदि सहसाऽस्मत्पक्षं समागच्छेत् तदा कि
भवेत् ? दग्धः तत्तु हृदयपरिवर्तनं भवेत्, न पुनर्विश्वासघात: !!
भिक्षुकः कृपया किञ्चन ददातु, अतीव क्षुधितोऽस्मि । दिनत्रयान्न किञ्चित् खादितम् । युवकः दानेच्छा त्वस्ति, किन्तु मत्पाबें पञ्चशतरूप्यकपत्रमेवाऽस्ति, परीवर्तस्तु नास्ति । भिक्षुकः परीवर्तं त्वहं दास्ये । (शतरूप्यकपत्राणि निष्कासयति) युवकः अहो ! तर्हि त्वनेन धनेनैव किञ्चित् खादतु !!
एकस्मिन्नभियोगे एका वृद्धा महिला साक्षित्वेन न्यायालये समाहूता । न्यायपञ्जरे स्थितां तां सर्वकारीयोऽभिभाषकोऽपृच्छत् - ..
'पितामहि ! किं भवती मामभिजानाति वा ?'
साऽवदत् प्रोच्चैः - 'कथं नाऽभिजानीयाम् ? त्वामहं त्वज्जन्मप्रभृत्येव जानामि । त्वं हि बाल्यादेव दुष्टो दुर्ललितश्चाऽसि । त्वया खलु निजपत्न्यपि दुःखीकृता, प्रत्यहं च नैके साक्षिणस्त्वया सामदान-दण्ड-भेदैर्वशीक्रियन्ते - इत्येतत् सर्वमपि मम ज्ञातमेव सम्यक् । त्वं हि स्वं निपुणं चतुरं च मन्यसे परन्तु समाजे तव प्रतिष्ठा सर्वथा नाऽस्ति' ।।
श्रुत्वैतत् स सर्वथा हतप्रभोऽभवत् । वृद्धया हि सर्वजनसमक्षं तस्य यशो धूलिसात् कृतमासीत् । तथाऽपि कथमप्यात्मानं संयम्य सोऽपृच्छत् -
___'अस्तु मातः !, किन्तु भवती प्रतिपक्षीयमभिभाषकं जानासि वा?' साऽवदत् - 'आम् आम्! तं महेशकं त्वहमापादमस्तकं जानामि । बाल्ये तस्य मूत्र-पुरीषादिकमपि मयैव क्षालितमासीत् । स तु सर्वथाऽलसस्तुन्दपरिमृजो मद्यपश्चाऽस्ति । पदे पदे कलहकरणमेव तस्य रुचिः । द्वि-त्राभिर्महेलाभिस्तस्याऽनैतिकसम्बन्धोऽपि श्रूयते । तासु च महिलासु ते पत्न्यप्यन्यतमा' ।
प्रतिपक्षीयोऽभिभाषकोऽपि तन्निशम्य त्रपावनतमुखो स्तब्धश्च सञ्जातः । एतावता न्यायाधीशस्तौ द्वावपि स्वसमीपमाहूय मन्दमवदत् -
'यधुवयोरेकतरोऽपि ममाऽभिज्ञानविषये तां पृच्छेत् तदा युवां द्वावप्यहं विद्युदासन्दे उपवेश्य विद्युत्प्रवाहनोदनेन मारयिष्यामि' इति !!
६८
Page #78
--------------------------------------------------------------------------
________________
प्राकृतविभाग:
कथा
पाइयविन्नाणकहा
| आ. विजयकस्तूरसूरिः
(१) भावधम्मे इलाइपुत्तस्स कहा एगंमि नयरे एगो सेट्ठी परिवसइ । तस्स भज्जाए इलादेवीउवासणाए एगो पुत्तो जाओ । सेट्ठिणा तस्स नामं इलाइपुत्तो त्ति कयं कमेण य कलाकलावनिउणो सो जोव्वणत्थो जाओ ।
___एगया सरयसमयंमि मित्तजुओ इलाइपुत्तो उज्जाणमुवगओ, तत्थ तेण लंखयमझमि नच्चंती एगा रूव-जोव्वण-सोहग्ग-कला-कलावनिही चेडी पुलोइआ । तीए रूवनिरिक्खणेण अक्खित्तचित्तो वम्महपीलिओ संजाओ । कत्थ वि धिइं न धरइ । मित्तेहिं पुच्छियं - 'वयंस ! किमेयं सयलजणहसणिज्ज इहपरलोगविरुद्धं तए समारद्धं ?' । भणियमणेण - 'अहंपि जाणामि जहा कुलकलंकहूयमिणं, ता किं करेमि? अइदुद्धरा मे मयणावत्था' । तेहिं भणियं - 'अलमित्थाऽणुरागेण, न खलु सीयलं पि मायंगजलं अच्चंततण्हाणुगओ वि चोद्दसविज्जाठाणपारगो पहाणबंभणो इच्छइ । मायापिऊणं अच्वंतं दुक्खं होस्सइ, तम्हा 'सपरोभयसंतावकारिणा किमणेण दुट्ठज्झवसाएण ? नियत्तसु एयाओ ठाणाओ' । इलाइपुत्तेण भणियं - 'अहं पि एयं सम्मं जाणामि, किं तु मम जीवियं एयाए आयत्तं, अलाहि पुणरुत्तभणिएहि' । वियाणिओ एस वुत्तंतो जणयाईहिं ।
इलाइसुएण लंखिया भणिया - 'सुवण्णसमं देहि मम दारियं' । तेहिं भणियं - 'अक्खयनिही एसा अम्हाणं, णवरं जइ एयाए कज्जं, ता अम्हेहि समं भमसु, कलं च सिक्खसु' । तओ वारिज्जतो वि माय-पिय-सयण-वग्गेहिं, अगणिऊण उभयलोगाववायं, ताण मज्झमि पविट्ठो । जणयाइणो विमणदुम्मणा पडिनियत्ता । एसो वि तेहिं सह विहरमाणो सिप्पमब्भस्संतो 'विन्नायडं पत्तो । विवाहदव्वनिमित्तं रायं ओलग्गिउं पवत्तो । रन्ना दिन्नो पेच्छावसरो । समाढत्तं पेच्छणयं । निविट्ठो राया महादेवीए सह सीहासणे।
१. वेण्णातटम् - नगरविशेषः ।
Page #79
--------------------------------------------------------------------------
________________
नागरया य संपत्ता । इलाइपुत्तेण नाणाविहविन्नाणेहिं आवज्जियाणि लोगाण चित्ताणि । नरिंदे य अदिते न देइ लोगो । राया पुण दारियाए बद्धरागो तस्स वहणत्थं तं भणइ - लंख ! पडणं करसु । सो य पाउआओ परिहित्ता असिखेडयहत्थो वंसग्गस्स अड्डकट्ठोवरि विविहकीलाहिं कीलइ । जइ कह वि चुक्केज्ज, तया धरणीए पडिओ सयखंडो होज्जा ! लोएण साहुक्कारो कओ । नरिंदे अदिते न जणो देइ ।
राइणा भणियं - 'सम्मं न दिट्ठ, पुणो करेसुं' । तेण दुइयवारं पि कयं । एवं तइयवारं पि कयं। पुणो वि रण्णा मारणत्थं अलज्जेण भणियं - 'चउत्थं वारं कुणसु, जेण अदरिदं करेमि' । लोगो नरिंदाओ 'पिच्छियव्वाओ य विरत्तचित्तो नियत्तो । वंससिहरट्ठिओ इलाइपुत्तो चिंतिउं पवत्तो - 'धिरत्थु कामभोगाणं, जेण एस राया एईए रंगोवजीवियाए निमित्तं च मम मरणमभिलसइ । कहं च एयाए परितुट्ठी भविस्सइ जस्स महंतेणावि अंतेउरीवग्गेण तित्ती ण जाया ? । ता धिरत्थु मे जम्मस्स । जं ण लज्जियं गुरुणो, न चिंतियं लहुयत्तणं, न निरूवियं जणणि-जणयदुक्खं, परिचत्ता बंधु-मित्त-नागरया, नाऽवलोइअं संसारभयं सव्वहा निरंकुसगइंदेण व्व उम्मग्गगामिणा मए । इमं सयलजणनिंदणिज्जलंखयकुलमणुसरंतेण मलिणीकओ कुंदधवलो तायवंसो । ता संपयं कत्थ वच्चामि ? किं करेमि ? कस्स कहेमि ? कहं सुज्झिस्सामि त्ति ?'
. एवंविहचिंताउरेण तेण समीवत्थे कम्मि वि ईसरघरंमि देवंगणासरिसरूवाहिं वहूहिं पूइज्जते मुणिणो दट्ठण चिंतिअं - 'जे महियमयणा जिणिंदमग्गं समल्लीणा ते धण्णा कयपुण्णा । अहं तु एत्तियकालं वंचिओ म्हि, जं न सेविओ जिणधम्मो । एण्हि पि. एयाण आणाए समणधम्मं करेमि त्ति एवं वेरग्गमग्गपडियस्स समारोवियपसत्थभावस्स सुक्कज्झाणाण मज्झे गयस्स विसुज्झमाणलेसस्स समासाइयखवगसेढिणो समुप्पन्नं केवलं नाणं । संपत्ता देवया, भणियं च अणाए - 'पडिवज्ज दव्वलिगं, जेण वंदामो' । पडिवन्ने दवलिंगे, देवयाए वंदिओ । पत्ता तियसा, निव्वत्तियं सीहासणं, तत्थ निसन्नो सुरासुरनरिंदेहि वंदिओ इलाइपुत्तकेवली दुविहं धम्मं वागरेइ । सव्वे नियनियसंदेहे पुच्छंति । केवलिणा वागरिया ।
विम्हियमणाए परिसाए पुच्छियं - 'भयवं? कहं पुण एयाए लंखकन्नाए उवरि ते एरिसो रागो जाओ?' । तओ निययवुत्तंतं कहिउं आढत्तो - 'इओ य तइअभवे वसंतपुरनयरे अहं दियवरसुओ आसि । एसा पुण मे भारिया । निम्विन्नकामभोगाणि तहारूवाणं थेराणमंतिए पव्वइयाणि । मुणियभवसरूवाण वि अवरुप्परं नेहो णाऽवगओ ! तओ देवाणुप्पिआ ! अहं उग्गं तवं काऊण आलोइयपावकम्मो नमोक्कारपरो मरिऊण सुरालए समुववन्नो ! एसा पुण जाइमयावलित्ता एआओ ठाणाओ अणालोइयपडिक्कंता मरिऊण देवलोगे गया । आउक्खए तओ चुओ समाणो हं इब्भकुले उप्पन्नो । एसा पुणो जाइमयदोसेण
१. प्रेक्षितव्यात् ।
७०
Page #80
--------------------------------------------------------------------------
________________
अहमकुले जाया । तओ मे पुव्वभवब्भासेण एयाए उवरि गुरुअणुरागो जाओ' । एवं केवलिणा भासियं भावंतीए तीए घि जाईसरणपुव्वयं केवलं संजायं । एवं सुणताणं राइणा महादेवीए वि य केवलं पत्तं । एवं चत्तारि वि केवलिणो जाय त्ति ॥ उवएसो -
कहं इलाइपुत्तस्स, पवित्तं बोहदाइणिं ।। सोच्चा भव्वा ! पयट्टेज्जा, भावधम्मे सुहावहे ॥ भावधम्मे इलाइपुत्तस्स कहा समत्ता ॥
- धम्मुवएसमालाए ॥
(२.) चोरिक्कविसए दुण्हं विउसाणं कहा
कुडुंबपरिपोसत्थं, चोरकम्मोज्जया बुहा ।
• परदुक्खं पि छिंदंति, बुहजुम्मं नियंसणं ॥ भोयनरिंदस्स अवंतीनयरीए देवसम्मो विण्हसम्मो अ नाम माहणा दुण्णि भायरा विउसवरा छदंसणविउणो वेयवेयंगपारंगया संति । लच्छी-सरस्सईण एगत्थवासाभावाओ ते विउसा अईव निद्धणा संति । ताणं भज्जाओ वि पइभत्तिपरा सुसीलाओ अत्थि । एगया भोयणाभावेण दुहियाओ ताओ भज्जाओ निय-नियप्पियं कहेइरे - 'चउसट्ठिकलासु तुम्हे चोरियकलं जाणेह न वा? जइ जाणेह ता चोरिक्कं काऊणं कओ वि धणं आणएह' । एवं सोच्चा धम्मपत्तीए अन्नुवायं अलहमाणा किंपि चिंतिऊण भोयनरिंदमंदिरे रत्तीए चोरियं काउं गया । रायपासाए पच्छण्णं पविट्ठा । तत्थ सुवण्ण-रयय-मणि-माणिक्क-पवालरासिं पासित्ता 'एयाणं हरणमईव पावं'ति सत्थे कहियं, एवं वियारं किच्चा धन्नागारेसु गच्चा सालीणं दुपोट्टलिगं बंधिऊण मत्थएसुं ठविऊण जया निग्गया, तया भोयनरिंदो महारिहसयणे सुत्तो आसि । पल्लंगसमीवंमि एगो मक्कडो हत्थे असिं घेत्तूण सावहाणो नरिंदं रक्खइ । ताहे पल्लंगुवरि एगो सप्पो मंद मंदं संचरमाणो निग्गओ । तस्स छाया नरिंदोवरि पडिया, तं दट्टण सप्पबुद्धीए नरिंदं पहरिउं लग्गो । तया ते विउसा तारिसं असंजमसं दट्ठण सिग्घयरं मक्कडं निग्गहिउं लग्गा । मक्कडो वि असिं घेत्तूण तेहिं सह जोद्धं पउत्तो। एवं हलबोले जाए जग्गिओ नरिंदो माहणे पुच्छइ – 'के तुम्हे ? कत्तो आगमणं ?' । ते सच्चं कर्हितिअम्हे चोरिक्कत्थं एत्थ समागया, तुण्णं गच्छंता अम्हे एयं कवि सप्पभमेण असिणा तुमम्मि पहरमाणं पासिऊण रक्खणत्थं अणेण सह जुद्धं किच्चा तुमं रक्खित्था' । निवेण पुच्छियं - 'किं अवहरियं' । तेहिं वुत्तं सालीणं पोट्टलिगा भरिया, जो "सुदण्णाइदव्वहरणं महापावं' अत्थि, तओ भोयणत्थं
Page #81
--------------------------------------------------------------------------
________________
सालिधण्णं चिय अवहरिय' । तओ नरिंदो चिंतेइ – 'मुरुक्खो मक्कडो अत्थि, अणेण अप्पणो रक्खा किल अप्पवहाइ होइ । जइ चोरिक्कत्थं एए पंडिआ मम मंदिरे न आगच्छंता, तया हं एएण कविणा अवस्सं हओ होतो। अओ एए विउसा सक्कारारिहा चेव' । तओ विउसे कहेइ - 'तुम्हाणं जं इटुं, तं मग्गेह' । एवं कधित्ता बहुधणं ताणं दाविऊण विसज्जेइ । पच्छा नरिंदेण मक्कडाओ अप्परक्खणं चत्तं ति । एवं विउसा चोरिक्कं कुणंता वि परबाहं चयंति ॥
उवएसो -
सोच्चा विउससिट्ठाणं, चरियं जणबोहगं । सया हिए पयट्टेज्जा, संतोसं माणसे धरे ॥ चोरिक्कविसए दुण्हं विउसाणं कहा समत्ता ॥
- भोयनरिंदकहाए ॥
(३) रमणीए पराभूअस्स सिकंदरस्स कहा
दुग्गइद्दारभूयाए, रमणीए जिओ न को ?।
जगज्जयणसीलो वि, राया सिकंदरो जहा ॥ दुसहस्सवासाओ पुव्वं गीसविसए साहसिओ महासूरो सिकंदरो नाम महाराया आसि । बालत्तणओ आरब्भ तस्स अज्झावगो रायनीइवियक्खणो सम्मग्गदंसगो 'अरिस्टोटलो' नाम असाहारणो विउसवरो गुरू अहेसि । सो सिकंदरो सया गुरुसेवापरो आणाए वट्टमाणो जोव्वणे वि चत्तकामभोगाहिलासो परंगणासु दिढि पि अकुणंतो, केवलं जस-कित्ति-विजयकंखिरो गुरुणो पहावेण अणेगदेसविजयं कासी। वीसपसिद्धो सो एगया सव्वदिसाविजयं काउं इच्छंतो पबलसेणापरिवरिओ ,गुरुणा सह नियनयराओ निग्गओ । मग्गे खुहा-पिवासा-परिस्समं अगणंतो पबलूसाहजुओ दूसहेज्जनरिंदवगं जयंतो कमेण इराणदेसे समागओ । तत्थ काओ वि महानयराओ बाहिरं सिबिरं ठविअ सयं उज्जाणमझे भव्वपासाए ठिओ । एगया आसारूढो सो गिरिसिहरमालालंकिय-विविहपएससोहं निरिक्खंतो अग्गओ गच्छमाणो नियरूवनिज्जिअ-देवंगणं महरिसीणं पि चित्तक्खोहकारिणि एगं सुंदर पासेइ । सा अच्चब्भुयरूवा सुंदरी तं ससिणेहनयणकडक्खेहिं ताडित्ता कामविसयविसमुच्छियं करेइ । सो वि कामग्गहगसिओ तं चिय पासेमाणो सबलो वि विमूढमणो अग्गओ गंतुं असमत्थो तत्थ च्चिय निच्चलो ठिओ । सा बाला वि मोहित्ता नियट्ठाणे गया । समीववट्टिणा गुरुणा सव्वा एव तस्स चेट्ठा निरिक्खिआ । सो वि नरिंदो गुरुं दट्ठण जायक्खोहो पुणरवि सावहाणचित्तो संजाओ । एगया नियपबलसेणामज्झे उवविठ्ठो सो सिकंदरो मंति-सेणावइपमुहसुहडवराणं अग्गओ नियपरक्कमवत्तं कहेइ, तम्मि य काले तस्स गुरू तत्थ समागंतूण
७२
Page #82
--------------------------------------------------------------------------
________________
सहासमक्खं तं अवहेलेइ - 'जं विजइक्करसियाणं पुरिसाणं इत्थीरूवावलोगणं पि भयंकरं, जाओ दंसणमेत्ताओ वीरियं हणेइरे, हालाहलमिव कज्जं कुणंति । वीरपुरिसाणं नरिंदाणं च नरगदुवारसमा ता सत्थेसु गणिआ, तासि सुंदेरं पि विसमविसाओ वि महाभयजणगं' एवं अवहेलित्ता नियावासे गओ ।
सो महानरिंदो बालत्तणाओ गुरुस्स उवगारं सुमरंतो सहासमक्खं एवं निंदिओ गरहिओ वि मउणेण अहोदिढि काऊण सव्वं सहेइ । किंतु मणमि अच्चंतदूमिओ विविहविगप्पे कुणंतो कियंतकालं तत्थेव ठाऊण सहं विसज्जित्ता नियपासाए आगओ । तत्थ वि खणं दिट्ठसुंदरीए सुंदरयं, खणं अप्पणो निब्बलयं, खणं गुरुणो दढिमं वियारंतो एवं निण्णयं करेइ - 'कया वि तीए रमणीए मुहं न पासेमि'त्ति नियचित्तं थिरीकरेइ । तह वि अणाइकालमोहब्भासेण इंदियाणं च पबलत्तणेण निब्बलस्स तस्स चित्ते सच्चिय रमणी आगच्छइ । तया सो तं चिय रमणीरूवं झायंतो विम्हरियनियकज्जो सहसा नियमासरयणं आरोहित्ता तीए सुंदरीए घरंमि समुवागओ । सा वि सिकंदरं पासित्ता अच्चंतहरिसियचित्ता तं सक्कारेइ सम्माणेइ अ । तया सो संभरियगुरुवयंणो ‘हा ! अहं किं करेमि ? नियरज्जाओ जगज्जयणपिवासाए निग्गओ हं एईए रमणीए पराइओ, मज्झ सव्वं नटुं, लोगा वि किं मं वइस्संति ? अलाहि एयाए' - एवं वियारित्ता पच्चागंतुं पवट्टइ । तया सा सुंदरी इंगियागारेण तस्स मणोभावं जाणित्ता कहेइ - ‘कि पच्छा गच्छेह ? अत्थ आगमणे तुमं को निवारेइ ? सच्चं मम कहेह, हं तु नियरूव-मइ-कला-संपयाए महरिसीणं पि चित्तं खोहेउं समत्था । मम अग्गओ सो वरागो को ? खणेण तस्स गव्वं विणासेमि । अहं वीसमोहिणी इराणनरिंदपुत्ती अम्हि, मज्झ चरणेसु महापुरिसा वि निवडंति, तया तो तुम्हाणं निवारगो को ?' । सिकंदरस्स गुरूर्ण उवरिं अवियला सद्धा, आयरो सम्माणो य अपुव्वो, तह वि तीए रूवासत्तो सो गुरुकयनियतिरक्कारवुत्तंतं सव्वं कहेइ । तस्स मुहाओ गुरुकयनारीविसयावमाणं सोच्चा कोहेण अईव पयंडा रोद्दसरूवा संजाया । सा तं पइ वएइ - 'हे कुमार ! तुम्ह गुरुणा समत्तथीणं सुंदेरस्स सत्तीए साहसस्स य अवमाणं कयं, तेण अज्जाऽहं पइण्णं करोमि "जं कल्ले तुम्हाण गुरुं अहं रूवेण सत्तीए साहसेण य मम पायपडणसीलं न काहं, तया अलं मे जीविएणं । मम नयणबाणपुरओ तस्स वयस्स नाणस्स अणुभवस्स य का गणणा !' ।
सिकंदरो वएइ – 'सो मम गुरू सव्वपोग्गलियसुहाओ परं वट्टइ, सएव अज्झप्पचिंतणपरो धम्मसत्थलिहणतल्लिच्छो कालं गमेइ । तं कावि रूववई सुंदरी चालिउं असमत्था' । तया सा रमणी वएइ – 'सो वि किं मणूसो न? तस्स हिययं पि किं न ? हियए किं विसयउम्मीओ वि न जायंति? कया वि तस्स मयप्पायं हिययं होज्जा तह वि अहं तस्स हिययं सरेण रूवेण नयणकडक्खेहिं सजीवियं सोम्मायं अवस्सं करिस्सं'ति कहित्ता नियकज्जकरणपरा जाया। सिकंदरो वि तीए साहसकम्मं दटुं इच्छंतो नियटाणे समागओ। बीयदिणंमि पच्चसकाले तस्स गुरू धम्मसत्थत्थचिंतणिक्कपरो वटइ, तया सा संदरी अच्चब्भुयवेसधारिणी तस्स उज्जाणे समागंतूण महुरसरेण गाएइ, तीए गाणसवणे पसुपक्खिणो वि खणमेत्तं मूढा जाया । तस्स गुरू वि सत्थत्थाई चिंतमाणो तीए महुरज्झुणीए अक्खित्तो समाणो
७३
Page #83
--------------------------------------------------------------------------
________________
तग्गीयसवणेण आकड्डियचित्तो खणं वामूढो संजाओ, तस्स य गत्ताई सिढिलीभूया, चित्तं पि संखुद्धं जायं । मणसा चिंतेइ - 'का एसा गाएइ'त्ति निरूवणत्थं वायायणे ठाऊण बाहिरं पासेइ, तया उग्घाडियमत्थयं नियंबजावलंबमाणदीहकेसिं गयगामिणि मंदं मंदं संचरमाणिं अच्छरगणाणं पि रूवेण पराभवंति दिव्वसरेण गायंतिं रमणिज्जरूवं रमणिं पासेइ, पासित्ता जराजज्जरिअदेहो वि जायतिव्वकामाहिलासो मूढमणो सो उज्जाणमज्झे गच्छइ, तत्थ गंतूण तीए रूवसोहं दट्ठण मयणानलदद्धो सो सुंदरीखंधे हत्थं ठवेइ, सा वि तं पासित्ता चित्तखोहेण हिटुंमि पासेइ ।।
___तया सो कहेइ - 'अहं तुमं कामेमि, मए सह कामभोगाइं भुंजसु' । सा वि रमणी ईसि विहसिअ लज्जं धरंती वएइ - 'जइ मम पइण्णं पूरेज्ज, तया अहं अहोनिसं तुमं सेविस्सामि' । तीए रूवविमोहिओ सो पुच्छइ - 'का तुम्ह पइण्णा?' । सा कहेइ - 'जइ तुम्हे तुरंगीभूअ चिट्ठह, घोडगीभूयतुम्हाणमुवरि उवविसित्ताणं हत्थे कसं धरित्ता वाहेमि, तया जावज्जीवं तुम्ह आणाए वट्टिस्सं' । एवं सोच्चा तिव्वरागपासबद्धो सो तुरंगीभूओ। जया सा तुरंगीभूअं तं आरोहित्ता वाहेइ, तया तीए सण्णापेरिओ सो सिकंदरो तत्थाऽऽगंतूण तयवत्थं गुरुं पासेइ । सा वि सुंदरी सिकंदरं दट्ठणं कहेइ - 'दिटुं मज्झ माहप्पं, मम पुरओ सत्तिमंता वि पुरिसा तिणायंति' । विम्हरियगुरुसिणेहो सो सिकंदरो वि पुव्वुत्तं गुरुवायं - 'जं इत्थीओ नरगदुवारसमाओ' इच्चाई सुणावित्ता 'तुम्हाणमुवएसो कत्थ गओ ?' त्ति उवहसेइ । तया गुरू नायपरमट्ठो सिकंदरं कहेइ - 'हे वच्छ ! तुं मोहाओ खलियं मं दट्ठणं तूसेसि, परंतु तुमंमि मए दिण्णं नाणं तुमए वियारियं सिया, हिययंमि य सुट्टत्तणेण धरियं होज्जा, तया एवं न उवहसेज्जा। किं च, वियारेसु तुं, जइ एसा रमणी मारिसं वुटुं धीरं गंभीरं सया नाणज्झाणासत्तं पि एरिसअवत्थं काउं समत्था, तया जुव्वणुम्मत्तस्स तुम्ह किं किं न करेज्जा ? रूवमत्ता एसा सुंदरी किंकरीभूए अम्हे 'मए मइसामत्थेण केरिसं कयं'ति उवहसेइ । एयाए सुंदरीए अग्गओ अम्हे दुण्णि वि मुरुक्ख'त्ति कहिता सो गुरू नियावासे गंतूण पुव्वं पिव झाणमग्गो जाओ । तया सो सिकंदरो सा विय सुंदरी वियारिंति - ‘एसो किल धीरो गंभीरो तत्तण्णू महापुरिसो अत्थि, एयाणं पुरओ अम्हे अबुहा बालग च्चिय' ॥ उवएसो -
गुरुणो लद्धमाहप्प-सिकंदरनियंसणं ।। सोच्चा 'भे परदाराओ, दूरओ परिवज्जह' ॥ रमणीए पराभूयसिकंदरस्स कहा समत्ता ॥
गुज्जरनट्टपबंधाओ
७५
Page #84
--------------------------------------------------------------------------
________________
(४) बुद्धिप्पहावोवरिं हालियस्स कहा नीए वि सुहकम्मेहिं, धीमंतो जायए कुले ।
हालिएणाऽवि बुद्धीए, रंजिओ भूमिपालगो ॥ को वि नरिंदो चित्तविणोयत्थं नयराओ बाहिरं विविहवणराइं पासंतो बहुदूरं जाव गओ । तत्थ एगंमि खेत्ते किसिकम्मं कुणंतं हालियं पेक्खेइ, तं दद्रुण पुच्छेइ – 'पइदिणं कियंतदव्वं अज्जेसि ?' सो कहेइ - 'एग रूवगं लहेमि' । तया नरिंदो कहेइ - 'तेण दव्वेण कहं निव्वहेसि' । तेण वुत्तं - 'तस्स रूवगस्स चउरो भागे करेमि, तत्तो एगं भागं अहं भक्खेमि, बीअं भागं उद्धारगे देमि, तइअं अंसं रिणमोक्खत्थं वावरेमि, चउत्थं भागं कूवंमि पक्खिवामि' । एवं सोच्चा तब्भावत्थं अजाणमाणो पुणो वि नरिंदो 'किं एयस्स रहस्सं'.ति पुच्छेइ । सो हालिओ वएइ – 'पढमेण भागेण अहं अप्पाणं नियभज्जं च पोसेमि । बीयभागेण पुत्ताणं भरणं कुणेमि, जओ ते वि पुत्ता वुड्डत्तणमि अम्हे पालिस्संति, तओ वुत्तं उद्धारगे देमि त्ति । तइअभागं माय-पियराणमटुं वएमि, जओ हं बालत्तणे तेहिं पालिओ, तओ उत्तं रिणमोक्खत्थं वावरेमि। चउत्थं भागं परलोगसुहाय दाणे देमि, तेणुत्तं - कूवंसि खिवेमि त्ति, जओ तं दव्वं परलोगंमि सुहाय होस्सइ' । एवं तस्स अणुभवजुअं इहलोगअच्चंतहियकारिणि परलोगसुहावहं वायं सुणिऊण नरिंदो अईव तूसीअ । पुणो वि सो वएइ - 'हे करिसग ! तुम्हारिसेहिं मइमतंपुरिसेहि चिय मम रज्जं विराएइ, अओ तुमं कहेमि, जाव सयहत्तं मम मुहं दिटुं न सिया, ताव तुमए एसा वट्टा कासइ न कहियव्व'त्ति कहिऊण नरिंदो नियावासे गओ।
- एगया सहाए वरसीहासणसंठिओ नरवरिंदो नियपहाणपुरिसाणमग्गओ हालिअस्स गूढवक्कस्स रहस्सं पुच्छेइ – 'जं एगं भागं भुंजइ, बीअं उद्धारके देइ, तइअं रिणमोक्खाय अप्पेइ, चउत्थं कूवंमि निक्खिवेइ' तस्स को भावत्थो ? एवं सुणित्ता सव्वे पहाणा पच्चुत्तरं दाउं असमत्था परुप्परं पेक्खेइरे । तया नरिंदेण कहियं - ‘पण्णरसदिवसाणमभितरम्मि तुम्हेहिं एयस्स उत्तरं दायव्वं, अण्णह तुम्हे सव्वे दंडिस्'ति कहित्ता सहा विसज्जिआ । ताणं पहाणाणं मज्झे एगो वियक्खणो पहाणो जणपरंपराओ नरिंद-किसीवलाणं मिलणपसंग नच्चा तस्स करिसगस्स घरंमि गओ । तं किसीवलं तस्स वयणस्स रहस्सं पुच्छइ । बुद्धिमंतो हालिओ तं कहेइ - 'हे पहाणवर ! सयहुत्तं नरिंदस्स मुहं जाव न पासेज्जा, ताव इमस्स वयणस्स रहस्सं कस्स वि मए कहियव्वं, एवं नरिंद-वयण-पास-पडिबद्धो म्हि, तओ हं कहिउं कह पारेमि ?' पहाणो वि तस्स वयणजुत्त इंगियागारेण नच्चा हालिअस्स पुरओ नरिंद-पडिगिइअंकियसुवण्णमुद्दासयं ठवेइ । तया नरिंदागिइवंतमुद्दासयं दट्ठण तेण हालिएण तस्स वयणस्स रहस्सं जाणाविरं । पक्खदिवसंते सहामझंमि पुणरवि नरिंदेण सो च्चिय पण्हो पुच्छिओ, तया सेसपहाणेसु मउणेण ठिएसु नरिंदस्स पुरओ तेण मंतिणा पच्चुत्तरं दिण्णं । तं सोच्चा नरवरिंदो कहेइ - 'तुमए अवस्सं हालिआओ एयं जाणियं सिया' । नरिंदो हालिअं बोल्लावित्ता सक्कोहं पुच्छइ – 'कहं वयणभंगो
७५
Page #85
--------------------------------------------------------------------------
________________
कओ ?' तेण वृत्तं 'मए वयणभंगो न कओ, जओ पुव्वं मए सयहुत्तं सिरिमंताणं मुहं पासित्ता तस्स वयणस्स रहस्सं कहियं' । नरिंदो कहेइ 'कया कत्थ वा मम मुहं दिट्ठे ? । तया तेण नरिंदमुहंकियसुवण्णमुद्दासयं दंसिऊण कहियं - 'एआसु सुवण्णमुद्दासुं तुम्हाणं मुहं दिट्ठे 'ति । तओ तस्स पच्चुत्तरदाणकुसलाए पण्णाए तुट्ठो नरिंदो तं मुद्दासयं तस्स च्चिय देइ । एवं एसो हालिओ बुद्धिप्पहावेण रायमाणणिज्जो जाओ ॥
एसो
-
-
हालयस्स कह एयं परत्थे - ह य सोक्खयं । सुणित्ता 'भविया ! तुम्हे, पयत्तेह जहासुहं' ॥ बुद्धिपहावोवरिं हालियस्स कहा समत्ता ॥
~~~X~~~
७६
-
गुज्जरका ॥
Page #86
--------------------------------------------------------------------------
________________ न ये जाते व्यसने निराकुलधियः सम्पत्सु नाऽभ्युन्नताः प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणप्रयोगैरपि / हीमन्तः स्वगुणप्रकाशनविधावन्यस्तुतौ पण्डितास्ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः ? //