SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ग्रन्थसमीक्षा 'शब्दप्रभेदः' (शब्दभेदप्रकाश:) समीक्षकः डा. रूपनारायण पाण्डेयः संशोधको सम्पादकौ च - प.पू. आचार्यश्रीविजयश्रीचन्द्रसूरीश्वरमहाराजः साहित्यवाचस्पति-महोपाध्यायश्रीविनयसागरश्च। प्रकाशकः - श्रीरांदेररोडजैन संघ, श्रीशंखेश्वरपार्श्वनाथ जैन देरासर पेढी, अडाजण पाटीया, रांदेर रोड, सूरत-३९५००१, फो. (०२६१) २६८७४८८ प्र. व. - २०६७ वि., पृ.सं. ८+१२+२२२ । मूल्यम् - २५०/ . विबुधवाण्यां विविधाः कोशा विद्वद्वयविरचिताः । कोशकारेषु विश्रुतेन विश्वप्रकाश-साहसाङ्कचरितादिग्रन्थानां प्रणेत्रा निखिलवैदिकमतानां चाऽतीव पारङ्गतेन पण्डितेन महेश्वरकवीन्द्रेण 'शब्दभेदप्रकाशः'. इति कोशः शब्दानां प्रयोगे संशयानां निराकरणाय, अशाब्दिकानां च सम्यग्बोधाय प्रणीतः । तस्यैव कोशस्य वृत्तिः (टीका) श्रीज्ञानविमलोपाध्यायेन १६५४ तमे विक्रमाब्दे विरचिता । सैव टीका संशोध्य सम्पाद्य च श्रीविजयश्रीचन्द्रसूरीश्वरेण श्रीविनयसागरेण च प्राकाश्यं नीता । ग्रन्थेऽस्मिन् चत्वारो निर्देशा विलसन्ति - (१) शब्दभेदनिर्देशः, (२) ओष्ठ्यदन्तौष्ठ्यवकारभेदनिर्देशः, (३) ऊष्मभेदनिर्देशः, (४) लिङ्गभेदनिर्देशः । निर्देशेषु यथाक्रमं १३३, ३६, ५९, ४४ पद्यानि सन्ति । ग्रन्थान्ते ग्रन्थकृत्प्रशस्तिरपि शोभते । यद्यपि ग्रन्थकारेण ग्रन्थस्य नाम"शब्दभेदप्रकाशः' इति कृतं, तथाऽपि टीकाकारेण ग्रन्थोऽयं 'शब्दप्रभेदः' इत्येवाऽभिहितः । ग्रन्थान्ते सम्पादकमहोदयाभ्यां द्वात्रिंशत् परिशिष्टान्यपि प्रदत्तानि । ग्रन्थात् प्राक् हिन्दीभाषया श्रीमता विद्यासागरमहाभागेन ग्रन्थादीनां समीक्षात्मकः परिचयः प्रास्तूयत । लघुकाये कोशेऽस्मिन् शब्दानां भेदा अनेकशः प्रस्तूयन्ते । ग्रन्थकृत् स्वयं निगदति प्रथमे निर्देशे - 'प्रायो भवेद् यः प्रचुरः प्रयोगः, प्रामाणिकोदाहरणप्रतीतः । रूपादिभेदेषु विलक्षणेषु, विचक्षणो निश्चिनुयात् तमेव ॥ क्वचिन्मात्राकृतो भेदः, क्वचिद् वर्णकृतोऽत्र च । क्वचिदर्थान्तरोल्लेखाच्छब्दानां रूढितः क्वचित् ॥" (शब्दप्रमेदः १/२-३) ४८
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy