________________
-
अत्रं वृत्तिकारो वदति – “य: प्रयोगः शब्दः प्रायो बाहुल्येन प्रचुर: अनल्पो भवेत् स्यात्, तमेव विचक्षणो विबुधी निश्चिनुयात् काव्यादौ निबध्नीयात् एवेति निश्चयार्थकमव्ययम् । केषु सत्सु ? रूपाणि प्रथमादिविभक्त्यन्तलक्षणानि, तान्यादौ येषां तानि रूपादीनि, आदिशब्दाद् लिङ्गादीनि तेषां भेदा रूपादिभेदाः, तेषु रूपादिभेदेषु विलक्षणेषु असदृशेषु सत्सु । किंभूतः प्रयोगः ? प्रमाणं विदन्तीति प्रामाणिकाः धनपालवररुचि-माघ-हर्ष-कविकालिदासादय:, तेषामुदाहरणानि, अर्थात् शास्त्राणि तेषु प्रतीतः प्रसिद्धः प्रामाणिकोदाहरणप्रतीतः ।। अत्र ग्रन्थे क्वचित् कुत्राऽपि स्थाने, मात्रया स्वख्यञ्जनसमुदायावयवेन कृतो मात्राकृतो भेदः शब्दानाम् अगारागारापगापगाप्रमुखाणामस्ति । (श्लो. ५) । च पुनरर्थे, अत्र शास्त्रे क्वचित् स्थाने वर्णैः अक्षरैः कृतो भेदः, अवश्याऽवश्याय- प्रतिश्यावो - ( श्लो. ७) त्तमानुत्तमाहतानाहतोदारानुदार (श्लो. १२) प्रमुखांणां शब्दानामस्ति । पुनरत्र शास्त्रे क्वचित् कुत्रचिदेकस्मादर्थादन्योऽर्थोऽर्थान्तरम्, तस्योल्लेख: प्रकटीकरणम् अर्थान्तरोल्लेखः, तस्माद् अर्थान्तरोल्लेखाद् मिहिर - मुहिर ( श्लो. ३०) प्रमुखाणां शब्दानां भेदोऽस्तीति । क्वचित् कुत्राऽपि स्थाने रूढितः शिष्यप्रयोगानुसारात् शब्दानां जाम्बुवदादीनां भेदोऽस्तीति ॥" अस्मिन् कोशे सङ्गृहीतान् मात्रादिकृतान् शब्दप्रभेदान् सम्यग् विज्ञाय कोऽपि विद्वान् महनीयानिकाव्यानि प्रणेतुं प्रभवेत् । अत्र कोशकृतः प्रशस्तिर्नितरां सत्यपरकाऽस्ति
"कर्तुं चेतश्चमत्कारं, सतां हर्तुं विपर्ययम् । संशयं च निराकर्तुमयमस्य परिश्रमः ॥ छन्दोऽनुप्रासयमक - श्लेषचित्रेषु निर्णयः ।
एष्वेवाऽस्योपयोगश्च, कवेर्जायत एव वा ॥" (तत्रैव, पृ. ११९)
लिङ्गभेदनिर्देशगतान् शब्दान् परिहाय सर्वे शब्दा अत्र विद्वद्वर्येण वृत्तिकारेण व्याकरणशास्त्रानुसारं व्याख्याताः परिश्रमेण । तद् यथा १. " दृश्येते युगपत् सूर्याचन्द्रमसावत्रेति दर्शनं वा दर्श: । " दर्शस्तु सङ्गमे सूर्यचन्द्रयोरवलोकने । पक्षान्ते वैदिकविधौ, दर्शश्च समुदाहृतः ॥' २. 'स्पृशंत् संस्पर्शे'* (धातुसङ्ख्या - ५ / ९८), स्पृशति स्पर्श: । 'पदरुज' ५ / ३ / १६ (सिद्धम० ) ॥ इति घञ् । स्पर्शनं वा "स्पर्शो रुजायां दाने च स्पर्शने स्पर्शकेऽपि च " [विश्वप्रकाशः, शान्तवर्गः श्लोकः ५ ] ३. 'स्पशः सौत्रः ' स्पशति स्पश: । 'स्पशः प्रणिधियुद्धयोः " [विश्वप्रकाशः, शान्तवर्गः श्लोकः ३] ४. 'मृशंत् आमर्शने '** (धातुसंख्या - ५/१०२) आमर्शनं स्पर्शः, मृश्यतेऽनेन मर्शः, स्पर्शः । ००० । ७. 'शोंच् तनूकरणे’+ (धातु संख्या - ३ / ४) निश्यति निशा । 'उपसर्गादातो डोऽश्य:' ( ५ / १ / ५६ ) || 'णिश समाधौ ' (धातुसंख्या
'स्पृश संस्पर्शने' ('माधवीया धातुवृत्तिः', तुदादिगण: १२९, पृ. ४८८, प्राच्यभारतीप्रकाशनम्, वाराणसी, १९६४) । टीकाकारः कथं 'स्पृशंत् संस्पर्शे' इति पठति ? न ज्ञायते । अन्यत्राऽपि धातुपाठो यत्र तत्र भिद्यते । सम्पादकवर्याभ्यामप्यत्र किमपि नोक्तम् । ताभ्यां सन्दर्भनिर्देशः कस्माद् ग्रन्थात् प्रस्तुत: ? इति न ज्ञायते मया । निर्देष्टव्यः स ग्रन्थः | (अत्र धातवः सिद्धहेमचन्द्रव्याकरणस्थ-धातुपाठमाश्रित्य निर्दिष्टाः सन्ति ॥ सं.) ** 'मृश आमर्शने' (मा.धा.)
+ 'शो तनूकरणे' (मा.धा.)
४९