SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ किन्तु संस्कृतशब्दस्याऽस्य प्रयोगार्थं भारतसर्वकारस्याऽनुमतिग्रहणमावश्यकमासीत्, अतः इण्डोनेशियासर्वकारेण भारतसर्वकारस्य समीपेऽनुमति-प्रार्थना प्रेषिता यदर्थं भारतेन सहर्ष स्वीकृति दत्ताऽपि । तेन भारतेन, तस्याः संस्कृतभाषायाः पदस्य कृते, यस्या ममत्वं तेन कदाऽपि न कृतमासीत् !! वयं तु कथयिष्यामो यत्संस्कृतजनन्या उपरि विश्वस्य प्रत्येकं संस्कृतज्ञस्याऽधिकारोऽस्ति । - अस्तु, प्रसादस्याऽयं विषयो यत्सर्वकार एषु दिनेषु एवंविधस्थलेषु संस्कृतस्व सुरुचिरपदप्रयोगमारब्धवान् अपि । कोचीनस्थितं भारतीय वायुसेनाप्रशिक्षण केन्द्रमपि "गरुड"नाम्नाऽलङ्कृतम् । ट्रॉम्बेस्थितं अणुयन्त्रं (एटोमिक रिएक्टर) "अप्सरा' इति नाम्ना स्मर्यते । मोहमयीस्थस्य एकस्य आतुरालयस्य नाम 'अश्विनी' इति अश्विनीकुमारयोर्देवभिषजोः पुण्यस्मृतौ स्थापितमस्ति । सेयं परस्पराऽस्माकं हृदयस्य पुनर्जागर्तेः परिणामो वा स्यात् अनुकरणं वा स्यात् किन्तु तदिदं शुभं लक्षणम् । .' शीघ्रमेवाऽस्माभिः स्वकीयसंस्कृतेः, सभ्यतायाः, भाषायाः, सदाचारस्य च महत्त्वं ज्ञास्यते, विदेशीयकरणस्य, विशेषतः आङ्ग्लीकरणस्य च प्रवृत्तिः परित्यक्ष्यते इति विश्वसिमः । एतदर्थे प्रयत्नोऽस्माकं भारतीयानां सर्वेषां मुख्यं, गौरवपूर्णं च कर्तव्यम् । सम्प्रति देशे यद् युगपरिवर्तनं सातमस्ति तेन भारतीयताया गौरवं पुनरावर्तिष्यते इत्यस्माकं दृढो विश्वासः । C/8, पृथ्वीराज रोड़, सी.. स्कीम, जयपुर फोन : ०१४१-२३७६००८ ४७
SR No.521034
Book TitleNandanvan Kalpataru 2015 08 SrNo 34
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy